उत्तर उवाच:
आस्थाय़ विपुलं वीर रथं सारथिना मय़ा |
१ क
उत्तर उवाच:
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वय़ा ||
१ ख
अर्जुन उवाच:
प्रीतोऽस्मि पुरुषव्याघ्र न भय़ं विद्यते तव |
२ क
अर्जुन उवाच:
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ||
२ ख
अर्जुन उवाच:
स्वस्थो भव महावुद्धे पश्य मां शत्रुभिः सह |
३ क
अर्जुन उवाच:
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् ||
३ ख
अर्जुन उवाच:
एतान्सर्वानुपासङ्गान्क्षिप्रं वध्नीहि मे रथे |
४ क
अर्जुन उवाच:
एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् |
४ ख
अर्जुन उवाच:
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ||
४ ग
अर्जुन उवाच:
सङ्कल्पपक्षविक्षेपं वाहुप्राकारतोरणम् |
५ क
अर्जुन उवाच:
त्रिदण्डतूणसम्वाधमनेकध्वजसङ्कुलम् ||
५ ख
अर्जुन उवाच:
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि |
६ क
अर्जुन उवाच:
नगरं ते मय़ा गुप्तं रथोपस्थं भविष्यति ||
६ ख
अर्जुन उवाच:
अधिष्ठितो मय़ा सङ्ख्ये रथो गाण्डीवधन्वना |
७ क
अर्जुन उवाच:
अजेय़ः शत्रुसैन्यानां वैराटे व्येतु ते भय़म् ||
७ ख
उत्तर उवाच:
विभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि |
८ क
उत्तर उवाच:
केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ||
८ ख
उत्तर उवाच:
इदं तु चिन्तय़न्नेव परिमुह्यामि केवलम् |
९ क
उत्तर उवाच:
निश्चय़ं चापि दुर्मेधा न गच्छामि कथञ्चन ||
९ ख
उत्तर उवाच:
एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च |
१० क
उत्तर उवाच:
केन कर्मविपाकेन क्लीवत्वमिदमागतम् ||
१० ख
उत्तर उवाच:
मन्ये त्वां क्लीववेषेण चरन्तं शूलपाणिनम् |
११ क
उत्तर उवाच:
गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ||
११ ख
अर्जुन उवाच:
भ्रातुर्निय़ोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम् |
१२ क
अर्जुन उवाच:
चरामि व्रह्मचर्यं वै सत्यमेतद्व्रवीमि ते ||
१२ ख
अर्जुन उवाच:
नास्मि क्लीवो महावाहो परवान्धर्मसंय़ुतः |
१३ क
अर्जुन उवाच:
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ||
१३ ख
उत्तर उवाच:
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा |
१४ क
उत्तर उवाच:
न हीदृशाः क्लीवरूपा भवन्तीह नरोत्तमाः ||
१४ ख
उत्तर उवाच:
सहाय़वानस्मि रणे युध्येय़ममरैरपि |
१५ क
उत्तर उवाच:
साध्वसं तत्प्रनष्टं मे किं करोमि व्रवीहि मे ||
१५ ख
उत्तर उवाच:
अहं ते सङ्ग्रहीष्यामि हय़ाञ्शत्रुरथारुजः |
१६ क
उत्तर उवाच:
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ||
१६ ख
उत्तर उवाच:
दारुको वासुदेवस्य यथा शक्रस्य मातलिः |
१७ क
उत्तर उवाच:
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ||
१७ ख
उत्तर उवाच:
यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम् |
१८ क
उत्तर उवाच:
दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हय़ः ||
१८ ख
उत्तर उवाच:
योऽय़ं धुरं धुर्यवरो वामं वहति शोभनः |
१९ क
उत्तर उवाच:
तं मन्ये मेघपुष्पस्य जवेन सदृशं हय़म् ||
१९ ख
उत्तर उवाच:
योऽय़ं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः |
२० क
उत्तर उवाच:
वामं सैन्यस्य मन्ये तं जवेन वलवत्तरम् ||
२० ख
उत्तर उवाच:
योऽय़ं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः |
२१ क
उत्तर उवाच:
वलाहकादपि मतः स जवे वीर्यवत्तरः ||
२१ ख
उत्तर उवाच:
त्वामेवाय़ं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम् |
२२ क
उत्तर उवाच:
त्वं चेमं रथमास्थाय़ योद्धुमर्हो मतो मम ||
२२ ख
वैशम्पाय़न उवाच:
ततो निर्मुच्य वाहुभ्यां वलय़ानि स वीर्यवान् |
२३ क
वैशम्पाय़न उवाच:
चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे ||
२३ ख
वैशम्पाय़न उवाच:
कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा |
२४ क
वैशम्पाय़न उवाच:
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ||
२४ ख
वैशम्पाय़न उवाच:
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः |
२५ क
वैशम्पाय़न उवाच:
यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः ||
२५ ख
वैशम्पाय़न उवाच:
सनिर्घाताभवद्भूमिर्दिक्षु वाय़ुर्ववौ भृशम् |
२६ क
वैशम्पाय़न उवाच:
भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ||
२६ ख
वैशम्पाय़न उवाच:
तं शव्दं कुरवोऽजानन्विस्फोटमशनेरिव |
२७ क
वैशम्पाय़न उवाच:
यदर्जुनो धनुःश्रेष्ठं वाहुभ्यामाक्षिपद्रथे ||
२७ ख