chevron_left द्रोण पर्व अध्याय ४०
सञ्जय़ उवाच:
सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः |
१ क
सञ्जय़ उवाच:
तय़ोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ||
१ ख
सञ्जय़ उवाच:
सोऽविध्यद्दशभिर्वाणैरभिमन्युं दुरासदम् |
२ क
सञ्जय़ उवाच:
सच्छत्रध्वजय़न्तारं साश्वमाशु स्मय़न्निव ||
२ ख
सञ्जय़ उवाच:
पितृपैतामहं कर्म कुर्वाणमतिमानुषम् |
३ क
सञ्जय़ उवाच:
दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीय़ा हृषिताभवन् ||
३ ख
सञ्जय़ उवाच:
तस्याभिमन्युराय़म्य स्मय़न्नेकेन पत्रिणा |
४ क
सञ्जय़ उवाच:
शिरः प्रच्यावय़ामास स रथात्प्रापतद्भुवि ||
४ ख
सञ्जय़ उवाच:
कर्णिकारमिवोद्धूतं वातेन मथितं नगात् |
५ क
सञ्जय़ उवाच:
भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां यय़ौ ||
५ ख
सञ्जय़ उवाच:
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः |
६ क
सञ्जय़ उवाच:
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ||
६ ख
सञ्जय़ उवाच:
ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् |
७ क
सञ्जय़ उवाच:
झषः क्रुद्ध इवाभिन्ददभिमन्युर्महाय़शाः ||
७ ख
सञ्जय़ उवाच:
कर्णस्तु वहुभिर्वाणैरर्द्यमानोऽभिमन्युना |
८ क
सञ्जय़ उवाच:
अपाय़ाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ||
८ ख
सञ्जय़ उवाच:
शलभैरिव चाकाशे धाराभिरिव चावृते |
९ क
सञ्जय़ उवाच:
अभिमन्योः शरै राजन्न प्राज्ञाय़त किञ्चन ||
९ ख
सञ्जय़ उवाच:
तावकानां तु योधानां वध्यतां निशितैः शरैः |
१० क
सञ्जय़ उवाच:
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ||
१० ख
सञ्जय़ उवाच:
सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः |
११ क
सञ्जय़ उवाच:
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ||
११ ख
सञ्जय़ उवाच:
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् |
१२ क
सञ्जय़ उवाच:
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ||
१२ ख
सञ्जय़ उवाच:
रथनागाश्वमनुजानर्दय़न्निशितैः शरैः |
१३ क
सञ्जय़ उवाच:
स प्रविश्याकरोद्भूमिं कवन्धगणसङ्कुलाम् ||
१३ ख
सञ्जय़ उवाच:
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः |
१४ क
सञ्जय़ उवाच:
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ||
१४ ख
सञ्जय़ उवाच:
ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः |
१५ क
सञ्जय़ उवाच:
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ||
१५ ख
सञ्जय़ उवाच:
साय़ुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे |
१६ क
सञ्जय़ उवाच:
दृश्यन्ते वाहवश्छिन्ना हेमाभरणभूषिताः ||
१६ ख
सञ्जय़ उवाच:
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च |
१७ क
सञ्जय़ उवाच:
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ||
१७ ख
सञ्जय़ उवाच:
अपस्करैरधिष्ठानैरीषादण्डकवन्धुरैः |
१८ क
सञ्जय़ उवाच:
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च वहुधा रथैः |
१८ ख
सञ्जय़ उवाच:
शक्तिचापाय़ुधैश्चापि पतितैश्च महाध्वजैः ||
१८ ग
सञ्जय़ उवाच:
निहतैः क्षत्रिय़ैरश्वैर्वारणैश्च विशां पते |
१९ क
सञ्जय़ उवाच:
अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ||
१९ ख
सञ्जय़ उवाच:
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् |
२० क
सञ्जय़ उवाच:
प्रादुरासीन्महाशव्दो भीरूणां भय़वर्धनः |
२० ख
सञ्जय़ उवाच:
स शव्दो भरतश्रेष्ठ दिशः सर्वा व्यनादय़त् ||
२० ग
सञ्जय़ उवाच:
सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् |
२१ क
सञ्जय़ उवाच:
व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ||
२१ ख
सञ्जय़ उवाच:
तं तदा नानुपश्याम सैन्येन रजसावृतम् |
२२ क
सञ्जय़ उवाच:
आददानं गजाश्वानां नृणां चाय़ूंषि भारत ||
२२ ख
सञ्जय़ उवाच:
क्षणेन भूय़ोऽपश्याम सूर्यं मध्यन्दिने यथा |
२३ क
सञ्जय़ उवाच:
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ||
२३ ख
सञ्जय़ उवाच:
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः |
२४ क
सञ्जय़ उवाच:
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ||
२४ ख