सञ्जय़ उवाच:
भीमसेनं सपाञ्चाल्यं चेदिकेकय़संवृतम् |
१ क
सञ्जय़ उवाच:
वैकर्तनः स्वय़ं रुद्ध्वा वारय़ामास साय़कैः ||
१ ख
सञ्जय़ उवाच:
ततस्तु चेदिकारूषान्सृञ्जय़ांश्च महारथान् |
२ क
सञ्जय़ उवाच:
कर्णो जघान सङ्क्रुद्धो भीमसेनस्य पश्यतः ||
२ ख
सञ्जय़ उवाच:
भीमसेनस्ततः कर्णं विहाय़ रथसत्तमम् |
३ क
सञ्जय़ उवाच:
प्रय़यौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ||
३ ख
सञ्जय़ उवाच:
सूतपुत्रोऽपि समरे पाञ्चालान्केकय़ांस्तथा |
४ क
सञ्जय़ उवाच:
सृञ्जय़ांश्च महेष्वासान्निजघान सहस्रशः ||
४ ख
सञ्जय़ उवाच:
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः |
५ क
सञ्जय़ उवाच:
पाञ्चालेषु तथा कर्णः क्षय़ं चक्रूर्महारथाः ||
५ ख
सञ्जय़ उवाच:
ते क्षत्रिय़ा दह्यमानास्त्रिभिस्तैः पावकोपमैः |
६ क
सञ्जय़ उवाच:
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ||
६ ख
सञ्जय़ उवाच:
ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः |
७ क
सञ्जय़ उवाच:
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ||
७ ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा तव पुत्रो जनाधिपः |
८ क
सञ्जय़ उवाच:
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ||
८ ख
सञ्जय़ उवाच:
नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः |
९ क
सञ्जय़ उवाच:
जघान समरे राजन्सहदेवश्च पञ्चभिः ||
९ ख
सञ्जय़ उवाच:
तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् |
१० क
सञ्जय़ उवाच:
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः ||
१० ख
सञ्जय़ उवाच:
ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत |
११ क
सञ्जय़ उवाच:
यमय़ोः प्रहसन्राजन्विव्याधैव च सप्तभिः ||
११ ख
सञ्जय़ उवाच:
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे |
१२ क
सञ्जय़ उवाच:
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ||
१२ ख
सञ्जय़ उवाच:
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप |
१३ क
सञ्जय़ उवाच:
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ||
१३ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज तव पुत्रो महारथः |
१४ क
सञ्जय़ उवाच:
पाण्डुपुत्रौ महेष्वासौ वारय़ामास पत्रिभिः ||
१४ ख
सञ्जय़ उवाच:
धनुर्मण्डलमेवास्य दृश्यते युधि भारत |
१५ क
सञ्जय़ उवाच:
साय़काश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ||
१५ ख
सञ्जय़ उवाच:
तस्य साय़कसञ्छन्नौ चकाशेतां च पाण्डवौ |
१६ क
सञ्जय़ उवाच:
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ||
१६ ख
सञ्जय़ उवाच:
ते तु वाणा महाराज हेमपुङ्खाः शिलाशिताः |
१७ क
सञ्जय़ उवाच:
आच्छादय़न्दिशः सर्वाः सूर्यस्येवांशवस्तदा ||
१७ ख
सञ्जय़ उवाच:
वाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले |
१८ क
सञ्जय़ उवाच:
यमाभ्यां ददृशे रूपं कालान्तकय़मोपमम् ||
१८ ख
सञ्जय़ उवाच:
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः |
१९ क
सञ्जय़ उवाच:
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ||
१९ ख
सञ्जय़ उवाच:
ततः सेनापती राजन्पाण्डवस्य महात्मनः |
२० क
सञ्जय़ उवाच:
पार्षतः प्रय़यौ तत्र यत्र राजा सुय़ोधनः ||
२० ख
सञ्जय़ उवाच:
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ |
२१ क
सञ्जय़ उवाच:
धृष्टद्युम्नस्तव सुतं ताडय़ामास साय़कैः ||
२१ ख
सञ्जय़ उवाच:
तमविध्यदमेय़ात्मा तव पुत्रोऽत्यमर्षणः |
२२ क
सञ्जय़ उवाच:
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ||
२२ ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा पुत्रस्ते पृथिवीपते |
२३ क
सञ्जय़ उवाच:
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ||
२३ ख
सञ्जय़ उवाच:
अथास्य सशरं चापं हस्तावापं च मारिष |
२४ क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संय़ुगे ||
२४ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः |
२५ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन धनुर्भारसहं नवम् ||
२५ ख
सञ्जय़ उवाच:
प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः |
२६ क
सञ्जय़ उवाच:
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ||
२६ ख
सञ्जय़ उवाच:
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव |
२७ क
सञ्जय़ उवाच:
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ||
२७ ख
सञ्जय़ उवाच:
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः |
२८ क
सञ्जय़ उवाच:
विविशुर्वसुधां वेगात्कङ्कवर्हिणवाससः ||
२८ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत |
२९ क
सञ्जय़ उवाच:
वसन्ते पुष्पशवलः सपुष्प इव किंशुकः ||
२९ ख
सञ्जय़ उवाच:
स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः |
३० क
सञ्जय़ उवाच:
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ||
३० ख
सञ्जय़ उवाच:
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः |
३१ क
सञ्जय़ उवाच:
साय़कैर्दशभी राजन्भ्रुवोर्मध्ये समार्दय़त् ||
३१ ख
सञ्जय़ उवाच:
तस्य तेऽशोभय़न्वक्त्रं कर्मारपरिमार्जिताः |
३२ क
सञ्जय़ उवाच:
प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ||
३२ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः |
३३ क
सञ्जय़ उवाच:
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ||
३३ ख
सञ्जय़ उवाच:
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः |
३४ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ||
३४ ख
सञ्जय़ उवाच:
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् |
३५ क
सञ्जय़ उवाच:
भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ||
३५ ख
सञ्जय़ उवाच:
तपनीय़ाङ्गदं चित्रं नागं मणिमय़ं शुभम् |
३६ क
सञ्जय़ उवाच:
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ||
३६ ख
सञ्जय़ उवाच:
दुर्योधनं तु विरथं छिन्नसर्वाय़ुधं रणे |
३७ क
सञ्जय़ उवाच:
भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ||
३७ ख
सञ्जय़ उवाच:
तमारोप्य रथे राजन्दण्डधारो जनाधिपम् |
३८ क
सञ्जय़ उवाच:
अपोवाह च सम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः ||
३८ ख
सञ्जय़ उवाच:
कर्णस्तु सात्यकिं जित्वा राजगृद्धी महावलः |
३९ क
सञ्जय़ उवाच:
द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ||
३९ ख
सञ्जय़ उवाच:
तं पृष्ठतोऽभ्ययात्तूर्णं शैनेय़ो वितुदञ्शरैः |
४० क
सञ्जय़ उवाच:
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ||
४० ख
सञ्जय़ उवाच:
स भारत महानासीद्योधानां सुमहात्मनाम् |
४१ क
सञ्जय़ उवाच:
कर्णपार्षतय़ोर्मध्ये त्वदीय़ानां महारणः ||
४१ ख
सञ्जय़ उवाच:
न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः |
४२ क
सञ्जय़ उवाच:
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो यय़ौ ||
४२ ख
सञ्जय़ उवाच:
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षय़ः |
४३ क
सञ्जय़ उवाच:
प्रादुरासीदुभय़तो राजन्मध्यङ्गतेऽहनि ||
४३ ख
सञ्जय़ उवाच:
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः |
४४ क
सञ्जय़ उवाच:
सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ||
४४ ख
सञ्जय़ उवाच:
तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः |
४५ क
सञ्जय़ उवाच:
विचिन्वन्नेव वाणाग्रैः समासादय़दग्रतः ||
४५ ख
सञ्जय़ उवाच:
व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनञ्जय़म् |
४६ क
सञ्जय़ उवाच:
शुक्लं च रोचमानं च सिंहसेनं च दुर्जय़म् ||
४६ ख
सञ्जय़ उवाच:
ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् |
४७ क
सञ्जय़ उवाच:
सृजन्तं साय़कान्क्रुद्धं कर्णमाहवशोभिनम् ||
४७ ख
सञ्जय़ उवाच:
युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् |
४८ क
सञ्जय़ उवाच:
अष्टाभिरष्टौ राधेय़ो न्यहनन्निशितैः शरैः ||
४८ ख
सञ्जय़ उवाच:
अथापरान्महाराज सूतपुत्रः प्रतापवान् |
४९ क
सञ्जय़ उवाच:
जघान वहुसाहस्रान्योधान्युद्धविशारदः ||
४९ ख
सञ्जय़ उवाच:
विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च |
५० क
सञ्जय़ उवाच:
दण्डं च समरे राजंश्चित्रं चित्राय़ुधं हरिम् ||
५० ख