chevron_left शान्ति पर्व अध्याय ४१
वैशम्पाय़न उवाच:
प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम् |
१ क
वैशम्पाय़न उवाच:
श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत ||
१ ख
वैशम्पाय़न उवाच:
धन्याः पाण्डुसुता लोके येषां व्राह्मणपुङ्गवाः |
२ क
वैशम्पाय़न उवाच:
तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः ||
२ ख
वैशम्पाय़न उवाच:
अनुग्राह्या वय़ं नूनं भवतामिति मे मतिः |
३ क
वैशम्पाय़न उवाच:
यत्रैवं गुणसम्पन्नानस्मान्व्रूथ विमत्सराः ||
३ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रो महाराजः पिता नो दैवतं परम् |
४ क
वैशम्पाय़न उवाच:
साशनेऽस्य प्रिय़े चैव स्थेय़ं मत्प्रिय़काङ्क्षिभिः ||
४ ख
वैशम्पाय़न उवाच:
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् |
५ क
वैशम्पाय़न उवाच:
अस्य शुश्रूषणं कार्यं मय़ा नित्यमतन्द्रिणा ||
५ ख
वैशम्पाय़न उवाच:
यदि चाहमनुग्राह्यो भवतां सुहृदां ततः |
६ क
वैशम्पाय़न उवाच:
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ ||
६ ख
वैशम्पाय़न उवाच:
एष नाथो हि जगतो भवतां च मय़ा सह |
७ क
वैशम्पाय़न उवाच:
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च |
७ ख
वैशम्पाय़न उवाच:
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ||
७ ग
वैशम्पाय़न उवाच:
अनुगम्य च राजानं यथेष्टं गम्यतामिति |
८ क
वैशम्पाय़न उवाच:
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः |
८ ख
वैशम्पाय़न उवाच:
यौवराज्येन कौरव्यो भीमसेनमय़ोजय़त् ||
८ ग
वैशम्पाय़न उवाच:
मन्त्रे च निश्चय़े चैव षाड्गुण्यस्य च चिन्तने |
९ क
वैशम्पाय़न उवाच:
विदुरं वुद्धिसम्पन्नं प्रीतिमान्वै समादिशत् ||
९ ख
वैशम्पाय़न उवाच:
कृताकृतपरिज्ञाने तथाय़व्ययचिन्तने |
१० क
वैशम्पाय़न उवाच:
सञ्जय़ं योजय़ामास ऋद्धमृद्धैर्गुणैर्युतम् ||
१० ख
वैशम्पाय़न उवाच:
वलस्य परिमाणे च भक्तवेतनय़ोस्तथा |
११ क
वैशम्पाय़न उवाच:
नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे ||
११ ख
वैशम्पाय़न उवाच:
परचक्रोपरोधे च दृप्तानां चावमर्दने |
१२ क
वैशम्पाय़न उवाच:
युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह ||
१२ ख
वैशम्पाय़न उवाच:
द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि |
१३ क
वैशम्पाय़न उवाच:
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परन्तपः ||
१३ ख
वैशम्पाय़न उवाच:
सहदेवं समीपस्थं नित्यमेव समादिशत् |
१४ क
वैशम्पाय़न उवाच:
तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते ||
१४ ख
वैशम्पाय़न उवाच:
यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु |
१५ क
वैशम्पाय़न उवाच:
तांस्तांस्तेष्वेव युय़ुजे प्रीय़माणो महीपतिः ||
१५ ख
वैशम्पाय़न उवाच:
विदुरं सञ्जय़ं चैव युय़ुत्सुं च महामतिम् |
१६ क
वैशम्पाय़न उवाच:
अव्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः ||
१६ ख
वैशम्पाय़न उवाच:
उत्थाय़ोत्थाय़ यत्कार्यमस्य राज्ञः पितुर्मम |
१७ क
वैशम्पाय़न उवाच:
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् ||
१७ ख
वैशम्पाय़न उवाच:
पौरजानपदानां च यानि कार्याणि नित्यशः |
१८ क
वैशम्पाय़न उवाच:
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः ||
१८ ख