chevron_left आश्वमेधिक पर्व अध्याय ४१
व्रह्मो उवाच:
य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते |
१ क
व्रह्मो उवाच:
अहमित्येव सम्भूतो द्वितीय़ः सर्ग उच्यते ||
१ ख
व्रह्मो उवाच:
अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः |
२ क
व्रह्मो उवाच:
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ||
२ ख
व्रह्मो उवाच:
देवानां प्रभवो देवो मनसश्च त्रिलोककृत् |
३ क
व्रह्मो उवाच:
अहमित्येव तत्सर्वमभिमन्ता स उच्यते ||
३ ख
व्रह्मो उवाच:
अध्यात्मज्ञाननित्यानां मुनीनां भावितात्मनाम् |
४ क
व्रह्मो उवाच:
स्वाध्याय़क्रतुसिद्धानामेष लोकः सनातनः ||
४ ख
व्रह्मो उवाच:
अहङ्कारेणाहरतो गुणानिमा; न्भूतादिरेवं सृजते स भूतकृत् |
५ क
व्रह्मो उवाच:
वैकारिकः सर्वमिदं विचेष्टते; स्वतेजसा रञ्जय़ते जगत्तथा ||
५ ख