वैशम्पाय़न उवाच:
ततस्ते भरतश्रेष्ठाः समाजग्मुः परस्परम् |
१ क
वैशम्पाय़न उवाच:
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ||
१ ख
वैशम्पाय़न उवाच:
विधिं परममास्थाय़ व्रह्मर्षिविहितं शुभम् |
२ क
वैशम्पाय़न उवाच:
सम्प्रीतमनसः सर्वे देवलोक इवामराः ||
२ ख
वैशम्पाय़न उवाच:
पुत्रः पित्रा च मात्रा च भार्या च पतिना सह |
३ क
वैशम्पाय़न उवाच:
भ्राता भ्रात्रा सखा चैव सख्या राजन्समागताः ||
३ ख
वैशम्पाय़न उवाच:
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च |
४ क
वैशम्पाय़न उवाच:
सम्प्रहर्षात्समाजग्मुर्द्रौपदेय़ांश्च सर्वशः ||
४ ख
वैशम्पाय़न उवाच:
ततस्ते प्रीय़माणा वै कर्णेन सह पाण्डवाः |
५ क
वैशम्पाय़न उवाच:
समेत्य पृथिवीपालाः सौहृदेऽवस्थिताभवन् ||
५ ख
वैशम्पाय़न उवाच:
ऋषिप्रसादात्तेऽन्ये च क्षत्रिय़ा नष्टमन्यवः |
६ क
वैशम्पाय़न उवाच:
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ||
६ ख
वैशम्पाय़न उवाच:
एवं समागताः सर्वे गुरुभिर्वान्धवैस्तथा |
७ क
वैशम्पाय़न उवाच:
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च मानवाः ||
७ ख
वैशम्पाय़न उवाच:
तां रात्रिमेकां कृत्स्नां ते विहृत्य प्रीतमानसाः |
८ क
वैशम्पाय़न उवाच:
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ||
८ ख
वैशम्पाय़न उवाच:
नात्र शोको भय़ं त्रासो नारतिर्नाय़शोऽभवत् |
९ क
वैशम्पाय़न उवाच:
परस्परं समागम्य योधानां भरतर्षभ ||
९ ख
वैशम्पाय़न उवाच:
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः |
१० क
वैशम्पाय़न उवाच:
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ||
१० ख
वैशम्पाय़न उवाच:
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः |
११ क
वैशम्पाय़न उवाच:
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतम् ||
११ ख
वैशम्पाय़न उवाच:
ततो विसर्जय़ामास लोकांस्तान्मुनिपुङ्गवः |
१२ क
वैशम्पाय़न उवाच:
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ||
१२ ख
वैशम्पाय़न उवाच:
अवगाह्य महात्मानः पुण्यां त्रिपथगां नदीम् |
१३ क
वैशम्पाय़न उवाच:
सरथाः सध्वजाश्चैव स्वानि स्थानानि भेजिरे ||
१३ ख
वैशम्पाय़न उवाच:
देवलोकं यय़ुः केचित्केचिद्व्रह्मसदस्तथा |
१४ क
वैशम्पाय़न उवाच:
केचिच्च वारुणं लोकं केचित्कौवेरमाप्नुवन् ||
१४ ख
वैशम्पाय़न उवाच:
तथा वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः |
१५ क
वैशम्पाय़न उवाच:
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ||
१५ ख
वैशम्पाय़न उवाच:
विचित्रगतय़ः सर्वे या अवाप्यामरैः सह |
१६ क
वैशम्पाय़न उवाच:
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ||
१६ ख
वैशम्पाय़न उवाच:
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः |
१७ क
वैशम्पाय़न उवाच:
धर्मशीलो महातेजाः कुरूणां हितकृत्सदा |
१७ ख
वैशम्पाय़न उवाच:
ततः प्रोवाच ताः सर्वाः क्षत्रिय़ा निहतेश्वराः ||
१७ ग
वैशम्पाय़न उवाच:
या याः पतिकृताँल्लोकानिच्छन्ति परमस्त्रिय़ः |
१८ क
वैशम्पाय़न उवाच:
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ||
१८ ख
वैशम्पाय़न उवाच:
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः |
१९ क
वैशम्पाय़न उवाच:
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ||
१९ ख
वैशम्पाय़न उवाच:
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह |
२० क
वैशम्पाय़न उवाच:
समाजग्मुस्तदा साध्व्यः सर्वा एव विशां पते ||
२० ख
वैशम्पाय़न उवाच:
एवं क्रमेण सर्वास्ताः शीलवत्यः कुलस्त्रिय़ः |
२१ क
वैशम्पाय़न उवाच:
प्रविश्य तोय़ं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ||
२१ ख
वैशम्पाय़न उवाच:
दिव्यरूपसमाय़ुक्ता दिव्याभरणभूषिताः |
२२ क
वैशम्पाय़न उवाच:
दिव्यमाल्याम्वरधरा यथासां पतय़स्तथा ||
२२ ख
वैशम्पाय़न उवाच:
ताः शीलसत्त्वसम्पन्ना वितमस्का गतक्लमाः |
२३ क
वैशम्पाय़न उवाच:
सर्वाः सर्वगुणैर्युक्ताः स्वं स्वं स्थानं प्रपेदिरे ||
२३ ख
वैशम्पाय़न उवाच:
यस्य यस्य च यः कामस्तस्मिन्कालेऽभवत्तदा |
२४ क
वैशम्पाय़न उवाच:
तं तं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ||
२४ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः |
२५ क
वैशम्पाय़न उवाच:
जहृषुर्मुदिताश्चासन्नन्यदेहगता अपि ||
२५ ख
वैशम्पाय़न उवाच:
प्रिय़ैः समागमं तेषां य इमं शृणुय़ान्नरः |
२६ क
वैशम्पाय़न उवाच:
प्रिय़ाणि लभते नित्यमिह च प्रेत्य चैव ह ||
२६ ख
वैशम्पाय़न उवाच:
इष्टवान्धवसंय़ोगमनाय़ासमनामय़म् |
२७ क
वैशम्पाय़न उवाच:
य इमं श्रावय़ेद्विद्वान्संसिद्धिं प्राप्नुय़ात्पराम् ||
२७ ख
वैशम्पाय़न उवाच:
स्वाध्याय़युक्ताः पुरुषाः क्रिय़ाय़ुक्ताश्च भारत |
२८ क
वैशम्पाय़न उवाच:
अध्यात्मय़ोगय़ुक्ताश्च धृतिमन्तश्च मानवाः |
२८ ख
वैशम्पाय़न उवाच:
श्रुत्वा पर्व त्विदं नित्यमवाप्स्यन्ति परां गतिम् ||
२८ ग