भीष्म उवाच:
नैषा चेदिपतेर्वुद्धिर्यया त्वाह्वय़तेऽच्युतम् |
१ क
भीष्म उवाच:
नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चय़ः ||
१ ख
भीष्म उवाच:
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः |
२ क
भीष्म उवाच:
क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ||
२ ख
भीष्म उवाच:
एष ह्यस्य महावाहो तेजोंशश्च हरेर्ध्रुवम् |
३ क
भीष्म उवाच:
तमेव पुनरादातुमिच्छत्पृथुय़शा हरिः ||
३ ख
भीष्म उवाच:
येनैष कुरुशार्दूल शार्दूल इव चेदिराट् |
४ क
भीष्म उवाच:
गर्जत्यतीव दुर्वुद्धिः सर्वानस्मानचिन्तय़न् ||
४ ख
वैशम्पाय़न उवाच:
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा |
५ क
वैशम्पाय़न उवाच:
उवाच चैनं सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ||
५ ख
शिशुपाल उवाच:
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः |
६ क
शिशुपाल उवाच:
यस्य संस्तववक्ता त्वं वन्दिवत्सततोत्थितः ||
६ ख
शिशुपाल उवाच:
संस्तवाय़ मनो भीष्म परेषां रमते सदा |
७ क
शिशुपाल उवाच:
यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ||
७ ख
शिशुपाल उवाच:
दरदं स्तुहि वाह्लीकमिमं पार्थिवसत्तमम् |
८ क
शिशुपाल उवाच:
जाय़मानेन येनेय़मभवद्दारिता मही ||
८ ख
शिशुपाल उवाच:
वङ्गाङ्गविषय़ाध्यक्षं सहस्राक्षसमं वले |
९ क
शिशुपाल उवाच:
स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ||
९ ख
शिशुपाल उवाच:
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ |
१० क
शिशुपाल उवाच:
स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ||
१० ख
शिशुपाल उवाच:
यय़ोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् |
११ क
शिशुपाल उवाच:
इमां वसुमतीं कुर्यादशेषामिति मे मतिः ||
११ ख
शिशुपाल उवाच:
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् |
१२ क
शिशुपाल उवाच:
अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ||
१२ ख
शिशुपाल उवाच:
शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् |
१३ क
शिशुपाल उवाच:
स्तवाय़ यदि ते वुद्धिर्वर्तते भीष्म सर्वदा ||
१३ ख
शिशुपाल उवाच:
किं हि शक्यं मय़ा कर्तुं यद्वृद्धानां त्वय़ा नृप |
१४ क
शिशुपाल उवाच:
पुरा कथय़तां नूनं न श्रुतं धर्मवादिनाम् ||
१४ ख
शिशुपाल उवाच:
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः |
१५ क
शिशुपाल उवाच:
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ||
१५ ख
शिशुपाल उवाच:
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः |
१६ क
शिशुपाल उवाच:
केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ||
१६ ख
शिशुपाल उवाच:
कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि |
१७ क
शिशुपाल उवाच:
समावेशय़से सर्वं जगत्केवलकाम्यया ||
१७ ख
शिशुपाल उवाच:
अथ वैषा न ते भक्तिः पकृतिं याति भारत |
१८ क
शिशुपाल उवाच:
मय़ैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ||
१८ ख
शिशुपाल उवाच:
भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे |
१९ क
शिशुपाल उवाच:
भीष्म तस्याः सदा वाचः श्रूय़न्तेऽर्थविगर्हिताः ||
१९ ख
शिशुपाल उवाच:
मा साहसमितीदं सा सततं वाशते किल |
२० क
शिशुपाल उवाच:
साहसं चात्मनातीव चरन्ती नाववुध्यते ||
२० ख
शिशुपाल उवाच:
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः |
२१ क
शिशुपाल उवाच:
दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ||
२१ ख
शिशुपाल उवाच:
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशय़म् |
२२ क
शिशुपाल उवाच:
तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ||
२२ ख
शिशुपाल उवाच:
इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशय़म् |
२३ क
शिशुपाल उवाच:
लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ||
२३ ख
वैशम्पाय़न उवाच:
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः |
२४ क
वैशम्पाय़न उवाच:
उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ||
२४ ख
वैशम्पाय़न उवाच:
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् |
२५ क
वैशम्पाय़न उवाच:
योऽहं न गणय़ाम्येतांस्तृणानीव नराधिपान् ||
२५ ख
वैशम्पाय़न उवाच:
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुधुर्नृपाः |
२६ क
वैशम्पाय़न उवाच:
केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ||
२६ ख
वैशम्पाय़न उवाच:
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः |
२७ क
वैशम्पाय़न उवाच:
पापोऽवलिप्तो वृद्धश्च नाय़ं भीष्मोऽर्हति क्षमाम् ||
२७ ख
वैशम्पाय़न उवाच:
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वय़ं नृपैः |
२८ क
वैशम्पाय़न उवाच:
सर्वैः समेत्य संरव्धैर्दह्यतां वा कटाग्निना ||
२८ ख
वैशम्पाय़न उवाच:
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः |
२९ क
वैशम्पाय़न उवाच:
उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ||
२९ ख
वैशम्पाय़न उवाच:
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षय़े |
३० क
वैशम्पाय़न उवाच:
यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ||
३० ख
वैशम्पाय़न उवाच:
पशुवद्घातनं वा मे दहनं वा कटाग्निना |
३१ क
वैशम्पाय़न उवाच:
क्रिय़तां मूर्ध्नि वो न्यस्तं मय़ेदं सकलं पदम् ||
३१ ख
वैशम्पाय़न उवाच:
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः |
३२ क
वैशम्पाय़न उवाच:
यस्य वस्त्वरते वुद्धिर्मरणाय़ स माधवम् ||
३२ ख
वैशम्पाय़न उवाच:
कृष्णमाह्वय़तामद्य युद्धे शार्ङ्गगदाधरम् |
३३ क
वैशम्पाय़न उवाच:
यावदस्यैव देवस्य देहं विशतु पातितः ||
३३ ख