chevron_left वन पर्व अध्याय ४१
भगवानु उवाच:
नरस्त्वं पूर्वदेहे वै नाराय़णसहाय़वान् |
१ क
भगवानु उवाच:
वदर्यां तप्तवानुग्रं तपो वर्षाय़ुतान्वहून् ||
१ ख
भगवानु उवाच:
त्वय़ि वा परमं तेजो विष्णौ वा पुरुषोत्तमे |
२ क
भगवानु उवाच:
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ||
२ ख
भगवानु उवाच:
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् |
३ क
भगवानु उवाच:
प्रगृह्य दानवाः शस्तास्त्वय़ा कृष्णेन च प्रभो ||
३ ख
भगवानु उवाच:
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् |
४ क
भगवानु उवाच:
माय़ामास्थाय़ यद्ग्रस्तं मय़ा पुरुषसत्तम |
४ ख
भगवानु उवाच:
तूणौ चाप्यक्षय़ौ भूय़स्तव पार्थ यथोचितौ ||
४ ग
भगवानु उवाच:
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम |
५ क
भगवानु उवाच:
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ||
५ ख
भगवानु उवाच:
न त्वय़ा सदृशः कश्चित्पुमान्मर्त्येषु मानद |
६ क
भगवानु उवाच:
दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिन्दम ||
६ ख
अर्जुन उवाच:
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज |
७ क
अर्जुन उवाच:
कामय़े दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ||
७ ख
अर्जुन उवाच:
यत्तद्व्रह्मशिरो नाम रौद्रं भीमपराक्रमम् |
८ क
अर्जुन उवाच:
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ||
८ ख
अर्जुन उवाच:
दहेय़ं येन सङ्ग्रामे दानवान्राक्षसांस्तथा |
९ क
अर्जुन उवाच:
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ||
९ ख
अर्जुन उवाच:
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः |
१० क
अर्जुन उवाच:
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ||
१० ख
अर्जुन उवाच:
युध्येय़ं येन भीष्मेण द्रोणेन च कृपेण च |
११ क
अर्जुन उवाच:
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ||
११ ख
अर्जुन उवाच:
एष मे प्रथमः कामो भगवन्भगनेत्रहन् |
१२ क
अर्जुन उवाच:
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ||
१२ ख
भगवानु उवाच:
ददानि तेऽस्त्रं दय़ितमहं पाशुपतं महत् |
१३ क
भगवानु उवाच:
समर्थो धारणे मोक्षे संहारे चापि पाण्डव ||
१३ ख
भगवानु उवाच:
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् |
१४ क
भगवानु उवाच:
वरुणो वाथ वा वाय़ुः कुतो वेत्स्यन्ति मानवाः ||
१४ ख
भगवानु उवाच:
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् |
१५ क
भगवानु उवाच:
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ||
१५ ख
भगवानु उवाच:
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे |
१६ क
भगवानु उवाच:
मनसा चक्षुषा वाचा धनुषा च निपात्यते ||
१६ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः |
१७ क
वैशम्पाय़न उवाच:
उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽव्रवीत् ||
१७ ख
वैशम्पाय़न उवाच:
ततस्त्वध्यापय़ामास सरहस्य निवर्तनम् |
१८ क
वैशम्पाय़न उवाच:
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ||
१८ ख
वैशम्पाय़न उवाच:
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् |
१९ क
वैशम्पाय़न उवाच:
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ||
१९ ख
वैशम्पाय़न उवाच:
ततश्चचाल पृथिवी सपर्वतवनद्रुमा |
२० क
वैशम्पाय़न उवाच:
ससागरवनोद्देशा सग्रामनगराकरा ||
२० ख
वैशम्पाय़न उवाच:
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः |
२१ क
वैशम्पाय़न उवाच:
तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ||
२१ ख
वैशम्पाय़न उवाच:
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः |
२२ क
वैशम्पाय़न उवाच:
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ||
२२ ख
वैशम्पाय़न उवाच:
स्पृष्टस्य च त्र्यम्वकेन फल्गुनस्यामितौजसः |
२३ क
वैशम्पाय़न उवाच:
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेय़िवत् ||
२३ ख
वैशम्पाय़न उवाच:
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्वकेन तदार्जुनः |
२४ क
वैशम्पाय़न उवाच:
प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ||
२४ ख
वैशम्पाय़न उवाच:
ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः |
२५ क
वैशम्पाय़न उवाच:
धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय़ गाण्डिवम् ||
२५ ख
वैशम्पाय़न उवाच:
ततः शुभं गिरिवरमीश्वरस्तदा; सहोमय़ा सिततटसानुकन्दरम् |
२६ क
वैशम्पाय़न उवाच:
विहाय़ तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ||
२६ ख