वैशम्पाय़न उवाच:
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम् |
१ क
वैशम्पाय़न उवाच:
आय़ुधं सर्वमादाय़ ततः प्राय़ाद्धनञ्जय़ः ||
१ ख
वैशम्पाय़न उवाच:
ध्वजं सिंहं रथात्तस्मादपनीय़ महारथः |
२ क
वैशम्पाय़न उवाच:
प्रणिधाय़ शमीमूले प्राय़ादुत्तरसारथिः ||
२ ख
वैशम्पाय़न उवाच:
दैवीं माय़ां रथे युक्त्वा विहितां विश्वकर्मणा |
३ क
वैशम्पाय़न उवाच:
काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ||
३ ख
वैशम्पाय़न उवाच:
मनसा चिन्तय़ामास प्रसादं पावकस्य च |
४ क
वैशम्पाय़न उवाच:
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदय़त् ||
४ ख
वैशम्पाय़न उवाच:
सपताकं विचित्राङ्गं सोपासङ्गं महारथः |
५ क
वैशम्पाय़न उवाच:
रथमास्थाय़ वीभत्सुः कौन्तेय़ः श्वेतवाहनः ||
५ ख
वैशम्पाय़न उवाच:
वद्धासिः सतनुत्राणः प्रगृहीतशरासनः |
६ क
वैशम्पाय़न उवाच:
ततः प्राय़ादुदीचीं स कपिप्रवरकेतनः ||
६ ख
वैशम्पाय़न उवाच:
स्वनवन्तं महाशङ्खं वलवानरिमर्दनः |
७ क
वैशम्पाय़न उवाच:
प्राधमद्वलमास्थाय़ द्विषतां लोमहर्षणम् ||
७ ख
वैशम्पाय़न उवाच:
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम् |
८ क
वैशम्पाय़न उवाच:
उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् ||
८ ख
वैशम्पाय़न उवाच:
संस्थाप्य चाश्वान्कौन्तेय़ः समुद्यम्य च रश्मिभिः |
९ क
वैशम्पाय़न उवाच:
उत्तरं च परिष्वज्य समाश्वासय़दर्जुनः ||
९ ख
वैशम्पाय़न उवाच:
मा भैस्त्वं राजपुत्राग्र्य क्षत्रिय़ोऽसि परन्तप |
१० क
वैशम्पाय़न उवाच:
कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ||
१० ख
वैशम्पाय़न उवाच:
श्रुतास्ते शङ्खशव्दाश्च भेरीशव्दाश्च पुष्कलाः |
११ क
वैशम्पाय़न उवाच:
कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ||
११ ख
वैशम्पाय़न उवाच:
स त्वं कथमिहानेन शङ्खशव्देन भीषितः |
१२ क
वैशम्पाय़न उवाच:
विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ||
१२ ख
उत्तर उवाच:
श्रुता मे शङ्खशव्दाश्च भेरीशव्दाश्च पुष्कलाः |
१३ क
उत्तर उवाच:
कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ||
१३ ख
उत्तर उवाच:
नैवंविधः शङ्खशव्दः पुरा जातु मय़ा श्रुतः |
१४ क
उत्तर उवाच:
ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् |
१४ ख
उत्तर उवाच:
धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ||
१४ ग
उत्तर उवाच:
अस्य शङ्खस्य शव्देन धनुषो निस्वनेन च |
१५ क
उत्तर उवाच:
रथस्य च निनादेन मनो मुह्यति मे भृशम् ||
१५ ख
उत्तर उवाच:
व्याकुलाश्च दिशः सर्वा हृदय़ं व्यथतीव मे |
१६ क
उत्तर उवाच:
ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे |
१६ ख
उत्तर उवाच:
गाण्डीवस्य च शव्देन कर्णौ मे वधिरीकृतौ ||
१६ ग
अर्जुन उवाच:
एकान्ते रथमास्थाय़ पद्भ्यां त्वमवपीडय़ |
१७ क
अर्जुन उवाच:
दृढं च रश्मीन्संय़च्छ शङ्खं ध्मास्याम्यहं पुनः ||
१७ ख
वैशम्पाय़न उवाच:
तस्य शङ्खस्य शव्देन रथनेमिस्वनेन च |
१८ क
वैशम्पाय़न उवाच:
गाण्डीवस्य च घोषेण पृथिवी समकम्पत ||
१८ ख
द्रोण उवाच:
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते |
१९ क
द्रोण उवाच:
कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ||
१९ ख
द्रोण उवाच:
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः |
२० क
द्रोण उवाच:
अग्नय़श्च न भासन्ते समिद्धास्तन्न शोभनम् ||
२० ख
द्रोण उवाच:
प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः |
२१ क
द्रोण उवाच:
ध्वजेषु च निलीय़न्ते वाय़सास्तन्न शोभनम् |
२१ ख
द्रोण उवाच:
शकुनाश्चापसव्या नो वेदय़न्ति महद्भय़म् ||
२१ ग
द्रोण उवाच:
गोमाय़ुरेष सेनाय़ा रुवन्मध्येऽनुधावति |
२२ क
द्रोण उवाच:
अनाहतश्च निष्क्रान्तो महद्वेदय़ते भय़म् |
२२ ख
द्रोण उवाच:
भवतां रोमकूपाणि प्रहृष्टान्युपलक्षय़े ||
२२ ग
द्रोण उवाच:
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति |
२३ क
द्रोण उवाच:
विवर्णमुखभूय़िष्ठाः सर्वे योधा विचेतसः |
२३ ख
द्रोण उवाच:
गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ||
२३ ग