chevron_left भीष्म पर्व अध्याय ७६
सञ्जय़ उवाच:
अथ शूरा महाराज परस्परकृतागसः |
१ क
सञ्जय़ उवाच:
जग्मुः स्वशिविराण्येव रुधिरेण समुक्षिताः ||
१ ख
सञ्जय़ उवाच:
विश्रम्य च यथान्याय़ं पूजय़ित्वा परस्परम् |
२ क
सञ्जय़ उवाच:
संनद्धाः समदृश्यन्त भूय़ो युद्धचिकीर्षय़ा ||
२ ख
सञ्जय़ उवाच:
ततस्तव सुतो राजंश्चिन्तय़ाभिपरिप्लुतः |
३ क
सञ्जय़ उवाच:
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ||
३ ख
सञ्जय़ उवाच:
सैन्यानि रौद्राणि भय़ानकानि; व्यूढानि सम्यग्वहुलध्वजानि |
४ क
सञ्जय़ उवाच:
विदार्य हत्वा च निपीड्य शूरा; स्ते पाण्डवानां त्वरिता रथौघाः ||
४ ख
सञ्जय़ उवाच:
संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम् |
५ क
सञ्जय़ उवाच:
प्रविश्य भीमेन निवर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः ||
५ ख
सञ्जय़ उवाच:
क्रुद्धं तमुद्वीक्ष्य भय़ेन राज; न्संमूर्छितो नालभं शान्तिमद्य |
६ क
सञ्जय़ उवाच:
इच्छे प्रसादात्तव सत्यसन्ध; प्राप्तुं जय़ं पाण्डवेय़ांश्च हन्तुम् ||
६ ख
सञ्जय़ उवाच:
तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वा |
७ क
सञ्जय़ उवाच:
तं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ||
७ ख
सञ्जय़ उवाच:
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र |
८ क
सञ्जय़ उवाच:
इच्छामि दातुं विजय़ं सुखं च; न चात्मानं छादय़ेऽहं त्वदर्थे ||
८ ख
सञ्जय़ उवाच:
एते तु रौद्रा वहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राः |
९ क
सञ्जय़ उवाच:
ये पाण्डवानां समरे सहाय़ा; जितक्लमाः क्रोधविषं वमन्ति ||
९ ख
सञ्जय़ उवाच:
ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वय़ा च |
१० क
सञ्जय़ उवाच:
अहं ह्येतान्प्रतिय़ोत्स्यामि राज; न्सर्वात्मना जीवितं त्यज्य वीर ||
१० ख
सञ्जय़ उवाच:
रणे तवार्थाय़ महानुभाव; न जीवितं रक्ष्यतमं ममाद्य |
११ क
सञ्जय़ उवाच:
सर्वांस्तवार्थाय़ सदेवदैत्याँ; ल्लोकान्दहेय़ं किमु शत्रूंस्तवेह ||
११ ख
सञ्जय़ उवाच:
तत्पाण्डवान्योधय़िष्यामि राज; न्प्रिय़ं च ते सर्वमहं करिष्ये |
१२ क
सञ्जय़ उवाच:
श्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना वभूव ||
१२ ख
सञ्जय़ उवाच:
सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान् |
१३ क
सञ्जय़ उवाच:
तदाज्ञय़ा तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजाय़ुतानि ||
१३ ख
सञ्जय़ उवाच:
प्रहर्षय़ुक्तानि तु तानि राज; न्महान्ति नानाविधशस्त्रवन्ति |
१४ क
सञ्जय़ उवाच:
स्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्वलानि ||
१४ ख
सञ्जय़ उवाच:
वृन्दैः स्थिताश्चापि सुसम्प्रय़ुक्ता; श्चकाशिरे दन्तिगणाः समन्तात् |
१५ क
सञ्जय़ उवाच:
शस्त्रास्त्रविद्भिर्नरदेव योधै; रधिष्ठिताः सैन्यगणास्त्वदीय़ाः ||
१५ ख
सञ्जय़ उवाच:
रथैश्च पादातगजाश्वसङ्घैः; प्रय़ाद्भिराजौ विधिवत्प्रणुन्नैः |
१६ क
सञ्जय़ उवाच:
समुद्धतं वै तरुणार्कवर्णं; रजो वभौ छादय़त्सूर्यरश्मीन् ||
१६ ख
सञ्जय़ उवाच:
रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात् |
१७ क
सञ्जय़ उवाच:
नानारङ्गाः समरे तत्र राज; न्मेघैर्युक्ता विद्युतः खे यथैव ||
१७ ख
सञ्जय़ उवाच:
धनूंषि विस्फारय़तां नृपाणां; वभूव शव्दस्तुमुलोऽतिघोरः |
१८ क
सञ्जय़ उवाच:
विमथ्यतो देवमहासुरौघै; र्यथार्णवस्यादिय़ुगे तदानीम् ||
१८ ख
सञ्जय़ उवाच:
तदुग्रनादं वहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम् |
१९ क
सञ्जय़ उवाच:
वभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् ||
१९ ख