chevron_left भीष्म पर्व अध्याय ४१
सञ्जय़ उवाच:
ततो धनञ्जय़ं दृष्ट्वा वाणगाण्डीवधारिणम् |
१ क
सञ्जय़ उवाच:
पुनरेव महानादं व्यसृजन्त महारथाः ||
१ ख
सञ्जय़ उवाच:
पाण्डवाः सोमकाश्चैव ये चैषामनुय़ाय़िनः |
२ क
सञ्जय़ उवाच:
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसम्भवान् ||
२ ख
सञ्जय़ उवाच:
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः |
३ क
सञ्जय़ उवाच:
सहसैवाभ्यहन्यन्त ततः शव्दो महानभूत् ||
३ ख
सञ्जय़ उवाच:
अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर |
४ क
सञ्जय़ उवाच:
सिद्धचारणसङ्घाश्च समीय़ुस्ते दिदृक्षय़ा ||
४ ख
सञ्जय़ उवाच:
ऋषय़श्च महाभागाः पुरस्कृत्य शतक्रतुम् |
५ क
सञ्जय़ उवाच:
समीय़ुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ||
५ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो दृष्ट्वा युद्धाय़ सुसमुद्यते |
६ क
सञ्जय़ उवाच:
ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ||
६ ख
सञ्जय़ उवाच:
विमुच्य कवचं वीरो निक्षिप्य च वराय़ुधम् |
७ क
सञ्जय़ उवाच:
अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः ||
७ ख
सञ्जय़ उवाच:
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः |
८ क
सञ्जय़ उवाच:
वाग्यतः प्रय़यौ येन प्राङ्मुखो रिपुवाहिनीम् ||
८ ख
सञ्जय़ उवाच:
तं प्रय़ान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनञ्जय़ः |
९ क
सञ्जय़ उवाच:
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वय़ात् ||
९ ख
सञ्जय़ उवाच:
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह |
१० क
सञ्जय़ उवाच:
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ||
१० ख
अर्जुन उवाच:
किं ते व्यवसितं राजन्यदस्मानपहाय़ वै |
११ क
अर्जुन उवाच:
पद्भ्यामेव प्रय़ातोऽसि प्राङ्मुखो रिपुवाहिनीम् ||
११ ख
भीमसेन उवाच:
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचाय़ुधः |
१२ क
भीमसेन उवाच:
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ||
१२ ख
नकुल उवाच:
एवङ्गते त्वय़ि ज्येष्ठे मम भ्रातरि भारत |
१३ क
नकुल उवाच:
भीर्मे दुनोति हृदय़ं व्रूहि गन्ता भवान्क्व नु ||
१३ ख
सहदेव उवाच:
अस्मिन्रणसमूहे वै वर्तमाने महाभय़े |
१४ क
सहदेव उवाच:
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ||
१४ ख
सञ्जय़ उवाच:
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन |
१५ क
सञ्जय़ उवाच:
नोवाच वाग्यतः किञ्चिद्गच्छत्येव युधिष्ठिरः ||
१५ ख
सञ्जय़ उवाच:
तानुवाच महाप्राज्ञो वासुदेवो महामनाः |
१६ क
सञ्जय़ उवाच:
अभिप्राय़ोऽस्य विज्ञातो मय़ेति प्रहसन्निव ||
१६ ख
सञ्जय़ उवाच:
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च |
१७ क
सञ्जय़ उवाच:
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ||
१७ ख
सञ्जय़ उवाच:
श्रूय़ते हि पुराकल्पे गुरूनननुमान्य यः |
१८ क
सञ्जय़ उवाच:
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ||
१८ ख
सञ्जय़ उवाच:
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः |
१९ क
सञ्जय़ उवाच:
ध्रुवस्तस्य जय़ो युद्धे भवेदिति मतिर्मम ||
१९ ख
सञ्जय़ उवाच:
एवं व्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति |
२० क
सञ्जय़ उवाच:
हाहाकारो महानासीन्निःशव्दास्त्वपरेऽभवन् ||
२० ख
सञ्जय़ उवाच:
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः |
२१ क
सञ्जय़ उवाच:
मिथः सङ्कथय़ां चक्रुर्नेशोऽस्ति कुलपांसनः ||
२१ ख
सञ्जय़ उवाच:
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् |
२२ क
सञ्जय़ उवाच:
युधिष्ठिरः ससोदर्यः शरणार्थं प्रय़ाचकः ||
२२ ख
सञ्जय़ उवाच:
धनञ्जय़े कथं नाथे पाण्डवे च वृकोदरे |
२३ क
सञ्जय़ उवाच:
नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः ||
२३ ख
सञ्जय़ उवाच:
न नूनं क्षत्रिय़कुले जातः सम्प्रथिते भुवि |
२४ क
सञ्जय़ उवाच:
यथास्य हृदय़ं भीतमल्पसत्त्वस्य संय़ुगे ||
२४ ख
सञ्जय़ उवाच:
ततस्ते क्षत्रिय़ाः सर्वे प्रशंसन्ति स्म कौरवान् |
२५ क
सञ्जय़ उवाच:
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ||
२५ ख
सञ्जय़ उवाच:
व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते |
२६ क
सञ्जय़ उवाच:
युधिष्ठिरं ससोदर्यं सहितं केशवेन ह ||
२६ ख
सञ्जय़ उवाच:
ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् |
२७ क
सञ्जय़ उवाच:
निःशव्दमभवत्तूर्णं पुनरेव विशां पते ||
२७ ख
सञ्जय़ उवाच:
किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति |
२८ क
सञ्जय़ उवाच:
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ||
२८ ख
सञ्जय़ उवाच:
विवक्षितं किमस्येति संशय़ः सुमहानभूत् |
२९ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ो राजन्युधिष्ठिरकृते तदा ||
२९ ख
सञ्जय़ उवाच:
स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् |
३० क
सञ्जय़ उवाच:
भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ||
३० ख
सञ्जय़ उवाच:
तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः |
३१ क
सञ्जय़ उवाच:
भीष्मं शान्तनवं राजा युद्धाय़ समुपस्थितम् ||
३१ ख
युधिष्ठिर उवाच:
आमन्त्रय़े त्वां दुर्धर्ष योत्स्ये तात त्वय़ा सह |
३२ क
युधिष्ठिर उवाच:
अनुजानीहि मां तात आशिषश्च प्रय़ोजय़ ||
३२ ख
भीष्म उवाच:
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते |
३३ क
भीष्म उवाच:
शपेय़ं त्वां महाराज पराभावाय़ भारत ||
३३ ख
भीष्म उवाच:
प्रीतोऽस्मि पुत्र युध्यस्व जय़माप्नुहि पाण्डव |
३४ क
भीष्म उवाच:
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संय़ुगे ||
३४ ख
भीष्म उवाच:
व्रिय़तां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि |
३५ क
भीष्म उवाच:
एवं गते महाराज न तवास्ति पराजय़ः ||
३५ ख
भीष्म उवाच:
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् |
३६ क
भीष्म उवाच:
इति सत्यं महाराज वद्धोऽस्म्यर्थेन कौरवैः ||
३६ ख
भीष्म उवाच:
अतस्त्वां क्लीववद्वाक्यं व्रवीमि कुरुनन्दन |
३७ क
भीष्म उवाच:
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ||
३७ ख
युधिष्ठिर उवाच:
मन्त्रय़स्व महाप्राज्ञ हितैषी मम नित्यशः |
३८ क
युधिष्ठिर उवाच:
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ||
३८ ख
भीष्म उवाच:
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन |
३९ क
भीष्म उवाच:
कामं योत्स्ये परस्यार्थे व्रूहि यत्ते विवक्षितम् ||
३९ ख
युधिष्ठिर उवाच:
कथं जय़ेय़ं सङ्ग्रामे भवन्तमपराजितम् |
४० क
युधिष्ठिर उवाच:
एतन्मे मन्त्रय़ हितं यदि श्रेय़ः प्रपश्यसि ||
४० ख
भीष्म उवाच:
न तं पश्यामि कौन्तेय़ यो मां युध्यन्तमाहवे |
४१ क
भीष्म उवाच:
विजय़ेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः ||
४१ ख
युधिष्ठिर उवाच:
हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते |
४२ क
युधिष्ठिर उवाच:
जय़ोपाय़ं व्रवीहि त्वमात्मनः समरे परैः ||
४२ ख
भीष्म उवाच:
न शत्रुं तात पश्यामि समरे यो जय़ेत माम् |
४३ क
भीष्म उवाच:
न तावन्मृत्युकालो मे पुनरागमनं कुरु ||
४३ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन |
४४ क
सञ्जय़ उवाच:
शिरसा प्रतिजग्राह भूय़स्तमभिवाद्य च ||
४४ ख
सञ्जय़ उवाच:
प्राय़ात्पुनर्महावाहुराचार्यस्य रथं प्रति |
४५ क
सञ्जय़ उवाच:
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ||
४५ ख
सञ्जय़ उवाच:
स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् |
४६ क
सञ्जय़ उवाच:
उवाच वाचा दुर्धर्षमात्मनिःश्रेय़सं वचः ||
४६ ख
सञ्जय़ उवाच:
आमन्त्रय़े त्वां भगवन्योत्स्ये विगतकल्मषः |
४७ क
सञ्जय़ उवाच:
जय़ेय़ं च रिपून्सर्वाननुज्ञातस्त्वय़ा द्विज ||
४७ ख
द्रोण उवाच:
यदि मां नाभिगच्छेथा युद्धाय़ कृतनिश्चय़ः |
४८ क
द्रोण उवाच:
शपेय़ं त्वां महाराज पराभावाय़ सर्वशः ||
४८ ख
द्रोण उवाच:
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वय़ानघ |
४९ क
द्रोण उवाच:
अनुजानामि युध्यस्व विजय़ं समवाप्नुहि ||
४९ ख
द्रोण उवाच:
करवाणि च ते कामं व्रूहि यत्तेऽभिकाङ्क्षितम् |
५० क
द्रोण उवाच:
एवं गते महाराज युद्धादन्यत्किमिच्छसि ||
५० ख