chevron_left द्रोण पर्व अध्याय ४१
धृतराष्ट्र उवाच:
वालमत्यन्तसुखिनमवार्यवलदर्पितम् |
१ क
धृतराष्ट्र उवाच:
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् ||
१ ख
धृतराष्ट्र उवाच:
गाहमानमनीकानि सदश्वैस्तं त्रिहाय़नैः |
२ क
धृतराष्ट्र उवाच:
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी ||
२ ख
सञ्जय़ उवाच:
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ |
३ क
सञ्जय़ उवाच:
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकय़ः |
३ ख
सञ्जय़ उवाच:
धृष्टकेतुश्च संरव्धो मत्स्याश्चान्वपतन्रणे ||
३ ग
सञ्जय़ उवाच:
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः |
४ क
सञ्जय़ उवाच:
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीय़ा विमुखाभवन् ||
४ ख
सञ्जय़ उवाच:
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्वलम् |
५ क
सञ्जय़ उवाच:
जामाता तव तेजस्वी विष्टम्भय़िषुराद्रवत् ||
५ ख
सञ्जय़ उवाच:
सैन्धवस्य महाराज पुत्रो राजा जय़द्रथः |
६ क
सञ्जय़ उवाच:
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारय़त् ||
६ ख
सञ्जय़ उवाच:
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरय़न् |
७ क
सञ्जय़ उवाच:
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् ||
७ ख
धृतराष्ट्र उवाच:
अतिभारमहं मन्ये सैन्धवे सञ्जय़ाहितम् |
८ क
धृतराष्ट्र उवाच:
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारय़त् ||
८ ख
धृतराष्ट्र उवाच:
अत्यद्भुतमिदं मन्ये वलं शौर्यं च सैन्धवे |
९ क
धृतराष्ट्र उवाच:
तदस्य व्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ||
९ ख
धृतराष्ट्र उवाच:
किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः |
१० क
धृतराष्ट्र उवाच:
सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारय़त् ||
१० ख
सञ्जय़ उवाच:
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः |
११ क
सञ्जय़ उवाच:
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ||
११ ख
सञ्जय़ उवाच:
इन्द्रिय़ाणीन्द्रिय़ार्थेभ्यः प्रिय़ेभ्यः संनिवर्त्य सः |
१२ क
सञ्जय़ उवाच:
क्षुत्पिपासातपसहः कृशो धमनिसन्ततः |
१२ ख
सञ्जय़ उवाच:
देवमाराधय़च्छर्वं गृणन्व्रह्म सनातनम् ||
१२ ग
सञ्जय़ उवाच:
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दय़ाम् |
१३ क
सञ्जय़ उवाच:
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् |
१३ ख
सञ्जय़ उवाच:
वरं वृणीष्व प्रीतोऽस्मि जय़द्रथ किमिच्छसि ||
१३ ग
सञ्जय़ उवाच:
एवमुक्तस्तु शर्वेण सिन्धुराजो जय़द्रथः |
१४ क
सञ्जय़ उवाच:
उवाच प्रणतो रुद्रं प्राञ्जलिर्निय़तात्मवान् ||
१४ ख
सञ्जय़ उवाच:
पाण्डवेय़ानहं सङ्ख्ये भीमवीर्यपराक्रमान् |
१५ क
सञ्जय़ उवाच:
एको रणे धारय़ेय़ं समस्तानिति भारत ||
१५ ख
सञ्जय़ उवाच:
एवमुक्तस्तु देवेशो जय़द्रथमथाव्रवीत् |
१६ क
सञ्जय़ उवाच:
ददामि ते वरं सौम्य विना पार्थं धनञ्जय़म् ||
१६ ख
सञ्जय़ उवाच:
धारय़िष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् |
१७ क
सञ्जय़ उवाच:
एवमस्त्विति देवेशमुक्त्वावुध्यत पार्थिवः ||
१७ ख
सञ्जय़ उवाच:
स तेन वरदानेन दिव्येनास्त्रवलेन च |
१८ क
सञ्जय़ उवाच:
एकः सन्धारय़ामास पाण्डवानामनीकिनीम् ||
१८ ख
सञ्जय़ उवाच:
तस्य ज्यातलघोषेण क्षत्रिय़ान्भय़माविशत् |
१९ क
सञ्जय़ उवाच:
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ||
१९ ख
सञ्जय़ उवाच:
दृष्ट्वा तु क्षत्रिय़ा भारं सैन्धवे सर्वमर्पितम् |
२० क
सञ्जय़ उवाच:
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं वलम् ||
२० ख