सञ्जय़ उवाच:
त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः |
१ क
सञ्जय़ उवाच:
पश्य कौरव्य राजानमपय़ातांश्च पाण्डवान् ||
१ ख
सञ्जय़ उवाच:
कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम् |
२ क
सञ्जय़ उवाच:
असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति ||
२ ख
सञ्जय़ उवाच:
तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः |
३ क
सञ्जय़ उवाच:
पाञ्चालानां सृञ्जय़ानां पाण्डवानां च यन्मुखम् |
३ ख
सञ्जय़ उवाच:
निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुवलं महत् ||
३ ग
सञ्जय़ उवाच:
कौरवान्द्रवतो ह्येष कर्णो धारय़तेऽर्जुन |
४ क
सञ्जय़ उवाच:
अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः ||
४ ख
सञ्जय़ उवाच:
असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः |
५ क
सञ्जय़ उवाच:
तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः ||
५ ख
सञ्जय़ उवाच:
सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने |
६ क
सञ्जय़ उवाच:
ततो राजन्प्रादुरासीन्महाघोरो महारणः ||
६ ख
सञ्जय़ उवाच:
सिंहनादरवाश्चात्र प्रादुरासन्समागमे |
७ क
सञ्जय़ उवाच:
उभय़ोः सेनय़ो राजन्मृत्युं कृत्वा निवर्तनम् ||
७ ख