chevron_left कर्ण पर्व अध्याय ४२
सञ्जय़ उवाच:
ततः पुनः समाजग्मुरभीताः कुरुसृञ्जय़ाः |
१ क
सञ्जय़ उवाच:
युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वय़म् ||
१ ख
सञ्जय़ उवाच:
ततः प्रववृते भीमः सङ्ग्रामो लोमहर्षणः |
२ क
सञ्जय़ उवाच:
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ||
२ ख
सञ्जय़ उवाच:
तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले शोणितोदके |
३ क
सञ्जय़ उवाच:
संशप्तकेषु शूरेषु किञ्चिच्छिष्टेषु भारत ||
३ ख
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः |
४ क
सञ्जय़ उवाच:
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ||
४ ख
सञ्जय़ उवाच:
आगच्छमानांस्तान्सङ्ख्ये प्रहृष्टान्विजय़ैषिणः |
५ क
सञ्जय़ उवाच:
दधारैको रणे कर्णो जलौघानिव पर्वतः ||
५ ख
सञ्जय़ उवाच:
तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः |
६ क
सञ्जय़ उवाच:
यथाचलं समासाद्य जलौघाः सर्वतोदिशम् |
६ ख
सञ्जय़ उवाच:
तय़ोरासीन्महाराज सङ्ग्रामो लोमहर्षणः ||
६ ग
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु राधेय़ं शरेण नतपर्वणा |
७ क
सञ्जय़ उवाच:
ताडय़ामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाव्रवीत् ||
७ ख
सञ्जय़ उवाच:
विजय़ं तु धनुःश्रेष्ठं विधुन्वानो महारथः |
८ क
सञ्जय़ उवाच:
पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् |
८ ख
सञ्जय़ उवाच:
ताडय़ामास सङ्क्रुद्धः पार्षतं नवभिः शरैः ||
८ ग
सञ्जय़ उवाच:
ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः |
९ क
सञ्जय़ उवाच:
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ||
९ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः |
१० क
सञ्जय़ उवाच:
अन्यद्धनुरुपादाय़ शरांश्चाशीविषोपमान् |
१० ख
सञ्जय़ उवाच:
कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ||
१० ग
सञ्जय़ उवाच:
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् |
११ क
सञ्जय़ उवाच:
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ||
११ ख
सञ्जय़ उवाच:
तस्य कर्णो महाराज शरं कनकभूषणम् |
१२ क
सञ्जय़ उवाच:
प्रेषय़ामास सङ्क्रुद्धो मृत्युदण्डमिवापरम् ||
१२ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा घोररूपं विशां पते |
१३ क
सञ्जय़ उवाच:
चिच्छेद सप्तधा राजञ्शैनेय़ः कृतहस्तवत् ||
१३ ख
सञ्जय़ उवाच:
दृष्ट्वा विनिहितं वाणं शरैः कर्णो विशां पते |
१४ क
सञ्जय़ उवाच:
सात्यकिं शरवर्षेण समन्तात्पर्यवारय़त् ||
१४ ख
सञ्जय़ उवाच:
विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः |
१५ क
सञ्जय़ उवाच:
तं प्रत्यविध्यच्छैनेय़ः शरैर्हेमविभूषितैः ||
१५ ख
सञ्जय़ उवाच:
ततो युद्धमतीवासीच्चक्षुःश्रोत्रभय़ावहम् |
१६ क
सञ्जय़ उवाच:
राजन्घोरं च चित्रं च प्रेक्षणीय़ं समन्ततः ||
१६ ख
सञ्जय़ उवाच:
सर्वेषां तत्र भूतानां लोमहर्षो व्यजाय़त |
१७ क
सञ्जय़ उवाच:
तद्दृष्ट्वा समरे कर्म कर्णशैनेय़योर्नृप ||
१७ ख
सञ्जय़ उवाच:
एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहावलम् |
१८ क
सञ्जय़ उवाच:
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ||
१८ ख
सञ्जय़ उवाच:
अभ्यभाषत सङ्क्रुद्धो द्रौणिर्दूरे धनञ्जय़े |
१९ क
सञ्जय़ उवाच:
तिष्ठ तिष्ठाद्य व्रह्मघ्न न मे जीवन्विमोक्ष्यसे ||
१९ ख
सञ्जय़ उवाच:
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः |
२० क
सञ्जय़ उवाच:
पार्षतं छादय़ामास घोररूपैः सुतेजनैः |
२० ख
सञ्जय़ उवाच:
यतमानं परं शक्त्या यतमानो महारथः ||
२० ग
सञ्जय़ उवाच:
यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष |
२१ क
सञ्जय़ उवाच:
तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा |
२१ ख
सञ्जय़ उवाच:
नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ||
२१ ग
सञ्जय़ उवाच:
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् |
२२ क
सञ्जय़ उवाच:
क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् |
२२ ख
सञ्जय़ उवाच:
तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ||
२२ ग
सञ्जय़ उवाच:
अथाव्रवीन्महाराज द्रोणपुत्रः प्रतापवान् |
२३ क
सञ्जय़ उवाच:
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते |
२३ ख
सञ्जय़ उवाच:
पाञ्चालापसदाद्य त्वां प्रेषय़िष्यामि मृत्यवे ||
२३ ग
सञ्जय़ उवाच:
पापं हि यत्त्वय़ा कर्म घ्नता द्रोणं पुरा कृतम् |
२४ क
सञ्जय़ उवाच:
अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ||
२४ ख
सञ्जय़ उवाच:
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संय़ुगे |
२५ क
सञ्जय़ उवाच:
नापक्रमसि वा मूढ सत्यमेतद्व्रवीमि ते ||
२५ ख
सञ्जय़ उवाच:
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् |
२६ क
सञ्जय़ उवाच:
प्रतिवाक्यं स एवासिर्मामको दास्यते तव |
२६ ख
सञ्जय़ उवाच:
येनैव ते पितुर्दत्तं यतमानस्य संय़ुगे ||
२६ ग
सञ्जय़ उवाच:
यदि तावन्मय़ा द्रोणो निहतो व्राह्मणव्रुवः |
२७ क
सञ्जय़ उवाच:
त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ||
२७ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज सेनापतिरमर्षणः |
२८ क
सञ्जय़ उवाच:
निशितेनाथ वाणेन द्रौणिं विव्याध पार्षतः ||
२८ ख
सञ्जय़ उवाच:
ततो द्रोणिः सुसङ्क्रुद्धः शरैः संनतपर्वभिः |
२९ क
सञ्जय़ उवाच:
प्राच्छादय़द्दिशो राजन्धृष्टद्युम्नस्य संय़ुगे ||
२९ ख
सञ्जय़ उवाच:
नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः |
३० क
सञ्जय़ उवाच:
दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ||
३० ख
सञ्जय़ उवाच:
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् |
३१ क
सञ्जय़ उवाच:
शरैः सञ्छादय़ामास सूतपुत्रस्य पश्यतः ||
३१ ख
सञ्जय़ उवाच:
राधेय़ोऽपि महाराज पाञ्चालान्सह पाण्डवैः |
३२ क
सञ्जय़ उवाच:
द्रौपदेय़ान्युधामन्युं सात्यकिं च महारथम् |
३२ ख
सञ्जय़ उवाच:
एकः स वारय़ामास प्रेक्षणीय़ः समन्ततः ||
३२ ग
सञ्जय़ उवाच:
धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् |
३३ क
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् |
३३ ख
सञ्जय़ उवाच:
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ||
३३ ग
सञ्जय़ उवाच:
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् |
३४ क
सञ्जय़ उवाच:
हय़ान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ||
३४ ख
सञ्जय़ उवाच:
स छिन्नधन्वा विरथो हताश्वो हतसारथिः |
३५ क
सञ्जय़ उवाच:
खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ||
३५ ख
सञ्जय़ उवाच:
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः |
३६ क
सञ्जय़ उवाच:
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढाय़ुधः |
३६ ख
सञ्जय़ उवाच:
रथादनवरूढस्य तदद्भुतमिवाभवत् ||
३६ ग
सञ्जय़ उवाच:
धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् |
३७ क
सञ्जय़ उवाच:
शरैश्च वहुधा विद्धमस्त्रैश्च शकलीकृतम् |
३७ ख
सञ्जय़ उवाच:
नातरद्भरतश्रेष्ठ यतमानो महारथः ||
३७ ग
सञ्जय़ उवाच:
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् |
३८ क
सञ्जय़ उवाच:
अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ||
३८ ख
सञ्जय़ उवाच:
आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः |
३९ क
सञ्जय़ उवाच:
गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ||
३९ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु माधवोऽर्जुनमव्रवीत् |
४० क
सञ्जय़ उवाच:
पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति |
४० ख
सञ्जय़ उवाच:
यत्नं करोति विपुलं हन्याच्चैनमसंशय़म् ||
४० ग
सञ्जय़ उवाच:
तं मोचय़ महावाहो पार्षतं शत्रुतापनम् |
४१ क
सञ्जय़ उवाच:
द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ||
४१ ख
सञ्जय़ उवाच:
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् |
४२ क
सञ्जय़ उवाच:
प्रैषय़त्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ||
४२ ख
सञ्जय़ उवाच:
ते हय़ाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः |
४३ क
सञ्जय़ उवाच:
पिवन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ||
४३ ख
सञ्जय़ उवाच:
दृष्ट्वाय़ान्तौ महावीर्यावुभौ कृष्णधनञ्जय़ौ |
४४ क