chevron_left शान्ति पर्व अध्याय ४२
वैशम्पाय़न उवाच:
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे |
१ क
वैशम्पाय़न उवाच:
श्राद्धानि कारय़ामास तेषां पृथगुदारधीः ||
१ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् |
२ क
वैशम्पाय़न उवाच:
सर्वकामगुणोपेतमन्नं गाश्च धनानि च |
२ ख
वैशम्पाय़न उवाच:
रत्नानि च विचित्राणि महार्हाणि महाय़शाः ||
२ ग
वैशम्पाय़न उवाच:
युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः |
३ क
वैशम्पाय़न उवाच:
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्वस्य च रक्षसः ||
३ ख
वैशम्पाय़न उवाच:
विराटप्रभृतीनां च सुहृदामुपकारिणाम् |
४ क
वैशम्पाय़न उवाच:
द्रुपदद्रौपदेय़ानां द्रौपद्या सहितो ददौ ||
४ ख
वैशम्पाय़न उवाच:
व्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् |
५ क
वैशम्पाय़न उवाच:
धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पय़त् ||
५ ख
वैशम्पाय़न उवाच:
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः |
६ क
वैशम्पाय़न उवाच:
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ||
६ ख
वैशम्पाय़न उवाच:
सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः |
७ क
वैशम्पाय़न उवाच:
सुहृदां कारय़ामास सर्वेषामौर्ध्वदैहिकम् ||
७ ख
वैशम्पाय़न उवाच:
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् |
८ क
वैशम्पाय़न उवाच:
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालय़न् ||
८ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा |
९ क
वैशम्पाय़न उवाच:
सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजय़त् ||
९ ख
वैशम्पाय़न उवाच:
याश्च तत्र स्त्रिय़ः काश्चिद्धतवीरा हतात्मजाः |
१० क
वैशम्पाय़न उवाच:
सर्वास्ताः कौरवो राजा सम्पूज्यापालय़द्घृणी ||
१० ख
वैशम्पाय़न उवाच:
दीनान्धकृपणानां च गृहाच्छादनभोजनैः |
११ क
वैशम्पाय़न उवाच:
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ||
११ ख
वैशम्पाय़न उवाच:
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु |
१२ क
वैशम्पाय़न उवाच:
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ||
१२ ख