chevron_left विराट पर्व अध्याय ४२
वैशम्पाय़न उवाच:
अथ दुर्योधनो राजा समरे भीष्ममव्रवीत् |
१ क
वैशम्पाय़न उवाच:
द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ||
१ ख
वैशम्पाय़न उवाच:
उक्तोऽय़मर्थ आचार्यो मय़ा कर्णेन चासकृत् |
२ क
वैशम्पाय़न उवाच:
पुनरेव च वक्ष्यामि न हि तृप्यामि तं व्रुवन् ||
२ ख
वैशम्पाय़न उवाच:
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान् |
३ क
वैशम्पाय़न उवाच:
वने जनपदेऽज्ञातैरेष एव पणो हि नः ||
३ ख
वैशम्पाय़न उवाच:
तेषां न तावन्निर्वृत्तं वर्तते तु त्रय़ोदशम् |
४ क
वैशम्पाय़न उवाच:
अज्ञातवासं वीभत्सुरथास्माभिः समागतः ||
४ ख
वैशम्पाय़न उवाच:
अनिवृत्ते तु निर्वासे यदि वीभत्सुरागतः |
५ क
वैशम्पाय़न उवाच:
पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ||
५ ख
वैशम्पाय़न उवाच:
लोभाद्वा ते न जानीय़ुरस्मान्वा मोह आविशत् |
६ क
वैशम्पाय़न उवाच:
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ||
६ ख
वैशम्पाय़न उवाच:
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशय़ः |
७ क
वैशम्पाय़न उवाच:
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ||
७ ख
वैशम्पाय़न उवाच:
उत्तरं मार्गमाणानां मत्स्यसेनां युय़ुत्सताम् |
८ क
वैशम्पाय़न उवाच:
यदि वीभत्सुराय़ातस्तेषां कः स्यात्पराङ्मुखः ||
८ ख
वैशम्पाय़न उवाच:
त्रिगर्तानां वय़ं हेतोर्मत्स्यान्योद्धुमिहागताः |
९ क
वैशम्पाय़न उवाच:
मत्स्यानां विप्रकारांस्ते वहूनस्मानकीर्तय़न् ||
९ ख
वैशम्पाय़न उवाच:
तेषां भय़ाभिपन्नानां तदस्माभिः प्रतिश्रुतम् |
१० क
वैशम्पाय़न उवाच:
प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ||
१० ख
वैशम्पाय़न उवाच:
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम् |
११ क
वैशम्पाय़न उवाच:
अष्टम्यां पुनरस्माभिरादित्यस्योदय़ं प्रति ||
११ ख
वैशम्पाय़न उवाच:
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः |
१२ क
वैशम्पाय़न उवाच:
अस्मान्वाप्यतिसन्धाय़ कुर्युर्मत्स्येन सङ्गतम् ||
१२ ख
वैशम्पाय़न उवाच:
अथ वा तानुपाय़ातो मत्स्यो जानपदैः सह |
१३ क
वैशम्पाय़न उवाच:
सर्वय़ा सेनय़ा सार्धमस्मान्योद्धुमुपागतः ||
१३ ख
वैशम्पाय़न उवाच:
तेषामेव महावीर्यः कश्चिदेव पुरःसरः |
१४ क
वैशम्पाय़न उवाच:
अस्माञ्जेतुमिहाय़ातो मत्स्यो वापि स्वय़ं भवेत् ||
१४ ख
वैशम्पाय़न उवाच:
यद्येष राजा मत्स्यानां यदि वीभत्सुरागतः |
१५ क
वैशम्पाय़न उवाच:
सर्वैर्योद्धव्यमस्माभिरिति नः समय़ः कृतः ||
१५ ख
वैशम्पाय़न उवाच:
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः |
१६ क
वैशम्पाय़न उवाच:
भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ||
१६ ख
वैशम्पाय़न उवाच:
सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः |
१७ क
वैशम्पाय़न उवाच:
नान्यत्र युद्धाच्छ्रेय़ोऽस्ति तथात्मा प्रणिधीय़ताम् ||
१७ ख
वैशम्पाय़न उवाच:
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा |
१८ क
वैशम्पाय़न उवाच:
यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ||
१८ ख
वैशम्पाय़न उवाच:
शरैरभिप्रणुन्नानां भग्नानां गहने वने |
१९ क
वैशम्पाय़न उवाच:
को हि जीवेत्पदातीनां भवेदश्वेषु संशय़ः |
१९ ख
वैशम्पाय़न उवाच:
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीय़ताम् ||
१९ ग
वैशम्पाय़न उवाच:
जानाति हि मतं तेषामतस्त्रासय़तीव नः |
२० क
वैशम्पाय़न उवाच:
अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षय़े ||
२० ख
वैशम्पाय़न उवाच:
तथा हि दृष्ट्वा वीभत्सुमुपाय़ान्तं प्रशंसति |
२१ क
वैशम्पाय़न उवाच:
यथा सेना न भज्येत तथा नीतिर्विधीय़ताम् ||
२१ ख
वैशम्पाय़न उवाच:
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता |
२२ क
वैशम्पाय़न उवाच:
यथा न विभ्रमेत्सेना तथा नीतिर्विधीय़ताम् ||
२२ ख
वैशम्पाय़न उवाच:
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे |
२३ क
वैशम्पाय़न उवाच:
स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ||
२३ ख
वैशम्पाय़न उवाच:
सदा च वाय़वो वान्ति नित्यं वर्षति वासवः |
२४ क
वैशम्पाय़न उवाच:
स्तनय़ित्नोश्च निर्घोषः श्रूय़ते वहुशस्तथा ||
२४ ख
वैशम्पाय़न उवाच:
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते |
२५ क
वैशम्पाय़न उवाच:
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ||
२५ ख
वैशम्पाय़न उवाच:
आचार्या वै कारुणिकाः प्राज्ञाश्चापाय़दर्शिनः |
२६ क
वैशम्पाय़न उवाच:
नैते महाभय़े प्राप्ते सम्प्रष्टव्याः कथञ्चन ||
२६ ख
वैशम्पाय़न उवाच:
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च |
२७ क
वैशम्पाय़न उवाच:
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ||
२७ ख
वैशम्पाय़न उवाच:
वहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि |
२८ क
वैशम्पाय़न उवाच:
इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः ||
२८ ख
वैशम्पाय़न उवाच:
परेषां विवरज्ञाने मनुष्याचरितेषु च |
२९ क
वैशम्पाय़न उवाच:
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ||
२९ ख
वैशम्पाय़न उवाच:
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः |
३० क
वैशम्पाय़न उवाच:
विधीय़तां तथा नीतिर्यथा वध्येत वै परः ||
३० ख
वैशम्पाय़न उवाच:
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम् |
३१ क
वैशम्पाय़न उवाच:
आरक्षाश्च विधीय़न्तां यत्र योत्स्यामहे परान् ||
३१ ख