chevron_left उद्योग पर्व अध्याय ४२
वैशम्पाय़न उवाच:
ततो राजा धृतराष्ट्रो मनीषी; सम्पूज्य वाक्यं विदुरेरितं तत् |
१ क
वैशम्पाय़न उवाच:
सनत्सुजातं रहिते महात्मा; पप्रच्छ वुद्धिं परमां वुभूषन् ||
१ ख
धृतराष्ट्र उवाच:
सनत्सुजात यदीदं शृणोमि; मृत्युर्हि नास्तीति तवोपदेशम् |
२ क
धृतराष्ट्र उवाच:
देवासुरा ह्याचरन्व्रह्मचर्य; ममृत्यवे तत्कतरन्नु सत्यम् ||
२ ख
सनत्सुजात उवाच:
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे |
३ क
सनत्सुजात उवाच:
शृणु मे व्रुवतो राजन्यथैतन्मा विशङ्किथाः ||
३ ख
सनत्सुजात उवाच:
उभे सत्ये क्षत्रिय़ाद्यप्रवृत्ते; मोहो मृत्युः संमतो यः कवीनाम् |
४ क
सनत्सुजात उवाच:
प्रमादं वै मृत्युमहं व्रवीमि; सदाप्रमादममृतत्वं व्रवीमि ||
४ ख
सनत्सुजात उवाच:
प्रमादाद्वै असुराः पराभव; न्नप्रमादाद्व्रह्मभूता भवन्ति |
५ क
सनत्सुजात उवाच:
न वै मृत्युर्व्याघ्र इवात्ति जन्तू; न्न ह्यस्य रूपमुपलभ्यते ह ||
५ ख
सनत्सुजात उवाच:
यमं त्वेके मृत्युमतोऽन्यमाहु; रात्मावसन्नममृतं व्रह्मचर्यम् |
६ क
सनत्सुजात उवाच:
पितृलोके राज्यमनुशास्ति देवः; शिवः शिवानामशिवोऽशिवानाम् ||
६ ख
सनत्सुजात उवाच:
आस्यादेष निःसरते नराणां; क्रोधः प्रमादो मोहरूपश्च मृत्युः |
७ क
सनत्सुजात उवाच:
ते मोहितास्तद्वशे वर्तमाना; इतः प्रेतास्तत्र पुनः पतन्ति ||
७ ख
सनत्सुजात उवाच:
ततस्तं देवा अनु विप्लवन्ते; अतो मृत्युर्मरणाख्यामुपैति |
८ क
सनत्सुजात उवाच:
कर्मोदय़े कर्मफलानुरागा; स्तत्रानु यान्ति न तरन्ति मृत्युम् ||
८ ख
सनत्सुजात उवाच:
योऽभिध्याय़न्नुत्पतिष्णून्निहन्या; दनादरेणाप्रतिवुध्यमानः |
९ क
सनत्सुजात उवाच:
स वै मृत्युर्मृत्युरिवात्ति भूत्वा; एवं विद्वान्यो विनिहन्ति कामान् ||
९ ख
सनत्सुजात उवाच:
कामानुसारी पुरुषः कामाननु विनश्यति |
१० क
सनत्सुजात उवाच:
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ||
१० ख
सनत्सुजात उवाच:
तमोऽप्रकाशो भूतानां नरकोऽय़ं प्रदृश्यते |
११ क
सनत्सुजात उवाच:
गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ||
११ ख
सनत्सुजात उवाच:
अभिध्या वै प्रथमं हन्ति चैनं; कामक्रोधौ गृह्य चैनं तु पश्चात् |
१२ क
सनत्सुजात उवाच:
एते वालान्मृत्यवे प्रापय़न्ति; धीरास्तु धैर्येण तरन्ति मृत्युम् ||
१२ ख
सनत्सुजात उवाच:
अमन्यमानः क्षत्रिय़ किञ्चिदन्य; न्नाधीय़ते तार्ण इवास्य व्याघ्रः |
१३ क
सनत्सुजात उवाच:
क्रोधाल्लोभान्मोहमय़ान्तरात्मा; स वै मृत्युस्त्वच्छरीरे य एषः ||
१३ ख
सनत्सुजात उवाच:
एवं मृत्युं जाय़मानं विदित्वा; ज्ञाने तिष्ठन्न विभेतीह मृत्योः |
१४ क
सनत्सुजात उवाच:
विनश्यते विषय़े तस्य मृत्यु; र्मृत्योर्यथा विषय़ं प्राप्य मर्त्यः ||
१४ ख
धृतराष्ट्र उवाच:
येऽस्मिन्धर्मान्नाचरन्तीह के चि; त्तथा धर्मान्केचिदिहाचरन्ति |
१५ क
धृतराष्ट्र उवाच:
धर्मः पापेन प्रतिहन्यते स्म; उताहो धर्मः प्रतिहन्ति पापम् ||
१५ ख
सनत्सुजात उवाच:
उभय़मेव तत्रोपभुज्यते फलं; धर्मस्यैवेतरस्य च |
१६ क
सनत्सुजात उवाच:
धर्मेणाधर्मं प्रणुदतीह विद्वा; न्धर्मो वलीय़ानिति तस्य विद्धि ||
१६ ख
धृतराष्ट्र उवाच:
यानिमानाहुः स्वस्य धर्मस्य लोका; न्द्विजातीनां पुण्यकृतां सनातनान् |
१७ क
धृतराष्ट्र उवाच:
तेषां परिक्रमान्कथय़न्तस्ततोऽन्या; न्नैतद्विद्वन्नैव कृतं च कर्म ||
१७ ख
सनत्सुजात उवाच:
येषां वले न विस्पर्धा वले वलवतामिव |
१८ क
सनत्सुजात उवाच:
ते व्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ||
१८ ख
सनत्सुजात उवाच:
यत्र मन्येत भूय़िष्ठं प्रावृषीव तृणोलपम् |
१९ क
सनत्सुजात उवाच:
अन्नं पानं च व्राह्मणस्तज्जीवन्नानुसञ्ज्वरेत् ||
१९ ख
सनत्सुजात उवाच:
यत्राकथय़मानस्य प्रय़च्छत्यशिवं भय़म् |
२० क
सनत्सुजात उवाच:
अतिरिक्तमिवाकुर्वन्स श्रेय़ान्नेतरो जनः ||
२० ख
सनत्सुजात उवाच:
यो वाकथय़मानस्य आत्मानं नानुसञ्ज्वरेत् |
२१ क
सनत्सुजात उवाच:
व्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ||
२१ ख
सनत्सुजात उवाच:
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतय़े |
२२ क
सनत्सुजात उवाच:
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ||
२२ ख
सनत्सुजात उवाच:
नित्यमज्ञातचर्या मे इति मन्येत व्राह्मणः |
२३ क
सनत्सुजात उवाच:
ज्ञातीनां तु वसन्मध्ये नैव विद्येत किञ्चन ||
२३ ख
सनत्सुजात उवाच:
को ह्येवमन्तरात्मानं व्राह्मणो हन्तुमर्हति |
२४ क
सनत्सुजात उवाच:
तस्माद्धि किञ्चित्क्षत्रिय़ व्रह्मावसति पश्यति ||
२४ ख
सनत्सुजात उवाच:
अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः |
२५ क
सनत्सुजात उवाच:
शिष्टो न शिष्टवत्स स्याद्व्राह्मणो व्रह्मवित्कविः ||
२५ ख
सनत्सुजात उवाच:
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः |
२६ क
सनत्सुजात उवाच:
ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्व्रह्मणस्तनुम् ||
२६ ख
सनत्सुजात उवाच:
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन |
२७ क
सनत्सुजात उवाच:
न समानो व्राह्मणस्य यस्मिन्प्रय़तते स्वय़म् ||
२७ ख
सनत्सुजात उवाच:
यमप्रय़तमानं तु मानय़न्ति स मानितः |
२८ क
सनत्सुजात उवाच:
न मान्यमानो मन्येत नामानादभिसञ्ज्वरेत् ||
२८ ख
सनत्सुजात उवाच:
विद्वांसो मानय़न्तीह इति मन्येत मानितः |
२९ क
सनत्सुजात उवाच:
अधर्मविदुषो मूढा लोकशास्त्रविशारदाः |
२९ ख
सनत्सुजात उवाच:
न मान्यं मानय़िष्यन्ति इति मन्येदमानितः ||
२९ ग
सनत्सुजात उवाच:
न वै मानं च मौनं च सहितौ चरतः सदा |
३० क
सनत्सुजात उवाच:
अय़ं हि लोको मानस्य असौ मानस्य तद्विदुः ||
३० ख
सनत्सुजात उवाच:
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी |
३१ क
सनत्सुजात उवाच:
व्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय़ ||
३१ ख
सनत्सुजात उवाच:
द्वाराणि तस्या हि वदन्ति सन्तो; वहुप्रकाराणि दुरावराणि |
३२ क
सनत्सुजात उवाच:
सत्यार्जवे ह्रीर्दमशौचविद्याः; षण्मानमोहप्रतिवाधनानि ||
३२ ख