धृतराष्ट्र उवाच:
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च |
१ क
धृतराष्ट्र उवाच:
के पूर्वं प्राहरंस्तत्र कुरवः पाण्डवास्तथा ||
१ ख
सञ्जय़ उवाच:
भ्रातृभिः सहितो राजन्पुत्रो दुर्योधनस्तव |
२ क
सञ्जय़ उवाच:
भीष्मं प्रमुखतः कृत्वा प्रय़यौ सह सेनय़ा ||
२ ख
सञ्जय़ उवाच:
तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः |
३ क
सञ्जय़ उवाच:
भीष्मेण युद्धमिच्छन्तः प्रय़युर्हृष्टमानसाः ||
३ ख
सञ्जय़ उवाच:
क्ष्वेडाः किलकिलाशव्दाः क्रकचा गोविषाणिकाः |
४ क
सञ्जय़ उवाच:
भेरीमृदङ्गमुरजा हय़कुञ्जरनिस्वनाः ||
४ ख
सञ्जय़ उवाच:
उभय़ोः सेनय़ो राजंस्ततस्तेऽस्मान्समाद्रवन् |
५ क
सञ्जय़ उवाच:
वय़ं प्रतिनदन्तश्च तदासीत्तुमुलं महत् ||
५ ख
सञ्जय़ उवाच:
महान्त्यनीकानि महासमुच्छ्रय़े; समागमे पाण्डवधार्तराष्ट्रय़ोः |
६ क
सञ्जय़ उवाच:
चकम्पिरे शङ्खमृदङ्गनिस्वनैः; प्रकम्पितानीव वनानि वाय़ुना ||
६ ख
सञ्जय़ उवाच:
नरेन्द्रनागाश्वरथाकुलाना; मभ्याय़तीनामशिवे मुहूर्ते |
७ क
सञ्जय़ उवाच:
वभूव घोषस्तुमुलश्चमूनां; वातोद्धुतानामिव सागराणाम् ||
७ ख
सञ्जय़ उवाच:
तस्मिन्समुत्थिते शव्दे तुमुले लोमहर्षणे |
८ क
सञ्जय़ उवाच:
भीमसेनो महावाहुः प्राणदद्गोवृषो यथा ||
८ ख
सञ्जय़ उवाच:
शङ्खदुन्दुभिनिर्घोषं वारणानां च वृंहितम् |
९ क
सञ्जय़ उवाच:
सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत् ||
९ ख
सञ्जय़ उवाच:
हय़ानां हेषमाणानामनीकेषु सहस्रशः |
१० क
सञ्जय़ उवाच:
सर्वानभ्यभवच्छव्दान्भीमसेनस्य निस्वनः ||
१० ख
सञ्जय़ उवाच:
तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः |
११ क
सञ्जय़ उवाच:
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ||
११ ख
सञ्जय़ उवाच:
वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः |
१२ क
सञ्जय़ उवाच:
शव्देन तस्य वीरस्य सिंहस्येवेतरे मृगाः ||
१२ ख
सञ्जय़ उवाच:
दर्शय़न्घोरमात्मानं महाभ्रमिव नादय़न् |
१३ क
सञ्जय़ उवाच:
विभीषय़ंस्तव सुतांस्तव सेनां समभ्ययात् ||
१३ ख
सञ्जय़ उवाच:
तमाय़ान्तं महेष्वासं सोदर्याः पर्यवारय़न् |
१४ क
सञ्जय़ उवाच:
छादय़न्तः शरव्रातैर्मेघा इव दिवाकरम् ||
१४ ख
सञ्जय़ उवाच:
दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः |
१५ क
सञ्जय़ उवाच:
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृप ||
१५ ख
सञ्जय़ उवाच:
विविंशतिश्चित्रसेनो विकर्णश्च महारथः |
१६ क
सञ्जय़ उवाच:
पुरुमित्रो जय़ो भोजः सौमदत्तिश्च वीर्यवान् ||
१६ ख
सञ्जय़ उवाच:
महाचापानि धुन्वन्तो जलदा इव विद्युतः |
१७ क
सञ्जय़ उवाच:
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ||
१७ ख
सञ्जय़ उवाच:
अथ तान्द्रौपदीपुत्राः सौभद्रश्च महारथः |
१८ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ||
१८ ख
सञ्जय़ उवाच:
धार्तराष्ट्रान्प्रतिय़युरर्दय़न्तः शितैः शरैः |
१९ क
सञ्जय़ उवाच:
वज्रैरिव महावेगैः शिखराणि धराभृताम् ||
१९ ख
सञ्जय़ उवाच:
तस्मिन्प्रथमसंमर्दे भीमज्यातलनिस्वने |
२० क
सञ्जय़ उवाच:
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ||
२० ख
सञ्जय़ उवाच:
लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ |
२१ क
सञ्जय़ उवाच:
निमित्तवेधिनां राजञ्शरानुत्सृजतां भृशम् ||
२१ ख
सञ्जय़ उवाच:
नोपशाम्यति निर्घोषो धनुषां कूजतां तथा |
२२ क
सञ्जय़ उवाच:
विनिश्चेरुः शरा दीप्ता ज्योतींषीव नभस्तलात् ||
२२ ख
सञ्जय़ उवाच:
सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत |
२३ क
सञ्जय़ उवाच:
ददृशुर्दर्शनीय़ं तं भीमं ज्ञातिसमागमम् ||
२३ ख
सञ्जय़ उवाच:
ततस्ते जातसंरम्भाः परस्परकृतागसः |
२४ क
सञ्जय़ उवाच:
अन्योन्यस्पर्धय़ा राजन्व्याय़च्छन्त महारथाः ||
२४ ख
सञ्जय़ उवाच:
कुरुपाण्डवसेने ते हस्त्यश्वरथसङ्कुले |
२५ क
सञ्जय़ उवाच:
शुशुभाते रणेऽतीव पटे चित्रगते इव ||
२५ ख
सञ्जय़ उवाच:
ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः |
२६ क
सञ्जय़ उवाच:
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ||
२६ ख
सञ्जय़ उवाच:
युधिष्ठिरेण चादिष्टाः पार्थिवास्ते सहस्रशः |
२७ क
सञ्जय़ उवाच:
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ||
२७ ख
सञ्जय़ उवाच:
उभय़ोः सेनय़ोस्तीव्रः सैन्यानां स समागमः |
२८ क
सञ्जय़ उवाच:
अन्तर्धीय़त चादित्यः सैन्येन रजसावृतः ||
२८ ख
सञ्जय़ उवाच:
प्रय़ुद्धानां प्रभग्नानां पुनरावर्ततामपि |
२९ क
सञ्जय़ उवाच:
नात्र स्वेषां परेषां वा विशेषः समजाय़त ||
२९ ख
सञ्जय़ उवाच:
तस्मिंस्तु तुमुले युद्धे वर्तमाने महाभय़े |
३० क
सञ्जय़ उवाच:
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ||
३० ख