chevron_left शल्य पर्व अध्याय ४२
वैशम्पाय़न उवाच:
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता |
१ क
वैशम्पाय़न उवाच:
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ||
१ ख
वैशम्पाय़न उवाच:
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत |
२ क
वैशम्पाय़न उवाच:
तत्र ते शोणितं सर्वे पिवन्तः सुखमासते ||
२ ख
वैशम्पाय़न उवाच:
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः |
३ क
वैशम्पाय़न उवाच:
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ||
३ ख
वैशम्पाय़न उवाच:
कस्यचित्त्वथ कालस्य ऋषय़ः सतपोधनाः |
४ क
वैशम्पाय़न उवाच:
तीर्थय़ात्रां समाजग्मुः सरस्वत्यां महीपते ||
४ ख
वैशम्पाय़न उवाच:
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुङ्गवाः |
५ क
वैशम्पाय़न उवाच:
प्राप्य प्रीतिं परां चापि तपोलुव्धा विशारदाः |
५ ख
वैशम्पाय़न उवाच:
प्रय़युर्हि ततो राजन्येन तीर्थं हि तत्तथा ||
५ ग
वैशम्पाय़न उवाच:
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा |
६ क
वैशम्पाय़न उवाच:
दृष्ट्वा तोय़ं सरस्वत्याः शोणितेन परिप्लुतम् |
६ ख
वैशम्पाय़न उवाच:
पीय़मानं च रक्षोभिर्वहुभिर्नृपसत्तम ||
६ ग
वैशम्पाय़न उवाच:
तान्दृष्ट्वा राक्षसान्राजन्मुनय़ः संशितव्रताः |
७ क
वैशम्पाय़न उवाच:
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ||
७ ख
वैशम्पाय़न उवाच:
ते तु सर्वे महाभागाः समागम्य महाव्रताः |
८ क
वैशम्पाय़न उवाच:
आहूय़ सरितां श्रेष्ठामिदं वचनमव्रुवन् ||
८ ख
वैशम्पाय़न उवाच:
कारणं व्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् |
९ क
वैशम्पाय़न उवाच:
एवमाकुलतां यातः श्रुत्वा पास्यामहे वय़म् ||
९ ख
वैशम्पाय़न उवाच:
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती |
१० क
वैशम्पाय़न उवाच:
दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ||
१० ख
वैशम्पाय़न उवाच:
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे |
११ क
वैशम्पाय़न उवाच:
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ||
११ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् |
१२ क
वैशम्पाय़न उवाच:
विमोचय़ामहे सर्वे शापादेतां सरस्वतीम् ||
१२ ख
वैशम्पाय़न उवाच:
तेषां तु वचनादेव प्रकृतिस्था सरस्वती |
१३ क
वैशम्पाय़न उवाच:
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि |
१३ ख
वैशम्पाय़न उवाच:
विमुक्ता च सरिच्छ्रेष्ठा विवभौ सा यथा पुरा ||
१३ ग
वैशम्पाय़न उवाच:
दृष्ट्वा तोय़ं सरस्वत्या मुनिभिस्तैस्तथा कृतम् |
१४ क
वैशम्पाय़न उवाच:
कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधय़ार्दिताः |
१४ ख
वैशम्पाय़न उवाच:
ऊचुस्तान्वै मुनीन्सर्वान्कृपाय़ुक्तान्पुनः पुनः ||
१४ ग
वैशम्पाय़न उवाच:
वय़ं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् |
१५ क
वैशम्पाय़न उवाच:
न च नः कामकारोऽय़ं यद्वय़ं पापकारिणः ||
१५ ख
वैशम्पाय़न उवाच:
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा |
१६ क
वैशम्पाय़न उवाच:
पक्षोऽय़ं वर्धतेऽस्माकं यतः स्म व्रह्मराक्षसाः ||
१६ ख
वैशम्पाय़न उवाच:
एवं हि वैश्यशूद्राणां क्षत्रिय़ाणां तथैव च |
१७ क
वैशम्पाय़न उवाच:
ये व्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ||
१७ ख
वैशम्पाय़न उवाच:
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा |
१८ क
वैशम्पाय़न उवाच:
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः |
१८ ख
वैशम्पाय़न उवाच:
योषितां चैव पापानां योनिदोषेण वर्धते ||
१८ ग
वैशम्पाय़न उवाच:
तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः |
१९ क
वैशम्पाय़न उवाच:
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ||
१९ ख
वैशम्पाय़न उवाच:
तेषां ते मुनय़ः श्रुत्वा तुष्टुवुस्तां महानदीम् |
२० क
वैशम्पाय़न उवाच:
मोक्षार्थं रक्षसां तेषामूचुः प्रय़तमानसाः ||
२० ख
वैशम्पाय़न उवाच:
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् |
२१ क
वैशम्पाय़न उवाच:
केशावपन्नमाधूतमारुग्णमपि यद्भवेत् |
२१ ख
वैशम्पाय़न उवाच:
श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ||
२१ ग
वैशम्पाय़न उवाच:
तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जय़ेत् |
२२ क
वैशम्पाय़न उवाच:
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ||
२२ ख
वैशम्पाय़न उवाच:
शोधय़ित्वा ततस्तीर्थमृषय़स्ते तपोधनाः |
२३ क
वैशम्पाय़न उवाच:
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदय़न् ||
२३ ख
वैशम्पाय़न उवाच:
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा |
२४ क
वैशम्पाय़न उवाच:
अरुणामानय़ामास स्वां तनुं पुरुषर्षभ ||
२४ ख
वैशम्पाय़न उवाच:
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः |
२५ क
वैशम्पाय़न उवाच:
अरुणाय़ां महाराज व्रह्महत्यापहा हि सा ||
२५ ख
वैशम्पाय़न उवाच:
एतमर्थमभिज्ञाय़ देवराजः शतक्रतुः |
२६ क
वैशम्पाय़न उवाच:
तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ||
२६ ख
जनमेजय़ उवाच:
किमर्थं भगवाञ्शक्रो व्रह्महत्यामवाप्तवान् |
२७ क
जनमेजय़ उवाच:
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ||
२७ ख
वैशम्पाय़न उवाच:
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर |
२८ क
वैशम्पाय़न उवाच:
यथा विभेद समय़ं नमुचेर्वासवः पुरा ||
२८ ख
वैशम्पाय़न उवाच:
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् |
२९ क
वैशम्पाय़न उवाच:
तेनेन्द्रः सख्यमकरोत्समय़ं चेदमव्रवीत् ||
२९ ख
वैशम्पाय़न उवाच:
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि |
३० क
वैशम्पाय़न उवाच:
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ||
३० ख
वैशम्पाय़न उवाच:
एवं स कृत्वा समय़ं सृष्ट्वा नीहारमीश्वरः |
३१ क
वैशम्पाय़न उवाच:
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ||
३१ ख
वैशम्पाय़न उवाच:
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वय़ात् |
३२ क
वैशम्पाय़न उवाच:
हे मित्रहन्पाप इति व्रुवाणं शक्रमन्तिकात् ||
३२ ख
वैशम्पाय़न उवाच:
एवं स शिरसा तेन चोद्यमानः पुनः पुनः |
३३ क
वैशम्पाय़न उवाच:
पितामहाय़ सन्तप्त एवमर्थं न्यवेदय़त् ||
३३ ख
वैशम्पाय़न उवाच:
तमव्रवील्लोकगुरुररुणाय़ां यथाविधि |
३४ क
वैशम्पाय़न उवाच:
इष्ट्वोपस्पृश देवेन्द्र व्रह्महत्यापहा हि सा ||
३४ ख
वैशम्पाय़न उवाच:
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय़ |
३५ क
वैशम्पाय़न उवाच:
इष्ट्वा यथावद्वलभिदरुणाय़ामुपास्पृशत् ||
३५ ख
वैशम्पाय़न उवाच:
स मुक्तः पाप्मना तेन व्रह्महत्याकृतेन ह |
३६ क
वैशम्पाय़न उवाच:
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ||
३६ ख
वैशम्पाय़न उवाच:
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत |
३७ क
वैशम्पाय़न उवाच:
लोकान्कामदुघान्प्राप्तमक्षय़ान्राजसत्तम ||
३७ ख
वैशम्पाय़न उवाच:
तत्राप्युपस्पृश्य वलो महात्मा; दत्त्वा च दानानि पृथग्विधानि |
३८ क
वैशम्पाय़न उवाच:
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम् ||
३८ ख
वैशम्पाय़न उवाच:
यत्राय़जद्राजसूय़ेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र |
३९ क
वैशम्पाय़न उवाच:
अत्रिर्धीमान्विप्रमुख्यो वभूव; होता यस्मिन्क्रतुमुख्ये महात्मा ||
३९ ख
वैशम्पाय़न उवाच:
यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेय़ानां राक्षसानां च देवैः |
४० क
वैशम्पाय़न उवाच:
स सङ्ग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान ||
४० ख
वैशम्पाय़न उवाच:
सेनापत्यं लव्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता |
४१ क
वैशम्पाय़न उवाच:
साक्षाच्चात्र न्यवसत्कार्त्तिकेय़ः; सदा कुमारो यत्र स प्लक्षराजः ||
४१ ख