व्रह्मो उवाच:
मनुष्याणां तु राजन्यः क्षत्रिय़ो मध्यमो गुणः |
१ क
व्रह्मो उवाच:
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम् ||
१ ख
व्रह्मो उवाच:
अविः पशूनां सर्वेषामाखुश्च विलवासिनाम् |
२ क
व्रह्मो उवाच:
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च ||
२ ख
व्रह्मो उवाच:
न्यग्रोधो जम्वुवृक्षश्च पिप्पलः शाल्मलिस्तथा |
३ क
व्रह्मो उवाच:
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः |
३ ख
व्रह्मो उवाच:
एते द्रुमाणां राजानो लोकेऽस्मिन्नात्र संशय़ः ||
३ ग
व्रह्मो उवाच:
हिमवान्पारिय़ात्रश्च सह्यो विन्ध्यस्त्रिकूटवान् |
४ क
व्रह्मो उवाच:
श्वेतो नीलश्च भासश्च काष्ठवांश्चैव पर्वतः ||
४ ख
व्रह्मो उवाच:
शुभस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा |
५ क
व्रह्मो उवाच:
एते पर्वतराजानो गणानां मरुतस्तथा ||
५ ख
व्रह्मो उवाच:
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः |
६ क
व्रह्मो उवाच:
यमः पितॄणामधिपः सरितामथ सागरः ||
६ ख
व्रह्मो उवाच:
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते |
७ क
व्रह्मो उवाच:
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते ||
७ ख
व्रह्मो उवाच:
अग्निर्भूतपतिर्नित्यं व्राह्मणानां वृहस्पतिः |
८ क
व्रह्मो उवाच:
ओषधीनां पतिः सोमो विष्णुर्वलवतां वरः ||
८ ख
व्रह्मो उवाच:
त्वष्टाधिराजो रूपाणां पशूनामीश्वरः शिवः |
९ क
व्रह्मो उवाच:
दक्षिणानां तथा यज्ञो वेदानामृषय़स्तथा ||
९ ख
व्रह्मो उवाच:
दिशामुदीची विप्राणां सोमो राजा प्रतापवान् |
१० क
व्रह्मो उवाच:
कुवेरः सर्वय़क्षाणां देवतानां पुरन्दरः |
१० ख
व्रह्मो उवाच:
एष भूतादिकः सर्गः प्रजानां च प्रजापतिः ||
१० ग
व्रह्मो उवाच:
सर्वेषामेव भूतानामहं व्रह्ममय़ो महान् |
११ क
व्रह्मो उवाच:
भूतं परतरं मत्तो विष्णोर्वापि न विद्यते ||
११ ख
व्रह्मो उवाच:
राजाधिराजः सर्वासां विष्णुर्व्रह्ममय़ो महान् |
१२ क
व्रह्मो उवाच:
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः ||
१२ ख
व्रह्मो उवाच:
नरकिंनरय़क्षाणां गन्धर्वोरगरक्षसाम् |
१३ क
व्रह्मो उवाच:
देवदानवनागानां सर्वेषामीश्वरो हि सः ||
१३ ख
व्रह्मो उवाच:
भगदेवानुय़ातानां सर्वासां वामलोचना |
१४ क
व्रह्मो उवाच:
माहेश्वरी महादेवी प्रोच्यते पार्वतीति या ||
१४ ख
व्रह्मो उवाच:
उमां देवीं विजानीत नारीणामुत्तमां शुभाम् |
१५ क
व्रह्मो उवाच:
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा ||
१५ ख
व्रह्मो उवाच:
धर्मकामाश्च राजानो व्राह्मणा धर्मलक्षणाः |
१६ क
व्रह्मो उवाच:
तस्माद्राजा द्विजातीनां प्रय़तेतेह रक्षणे ||
१६ ख
व्रह्मो उवाच:
राज्ञां हि विषय़े येषामवसीदन्ति साधवः |
१७ क
व्रह्मो उवाच:
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः ||
१७ ख
व्रह्मो उवाच:
राज्ञां तु विषय़े येषां साधवः परिरक्षिताः |
१८ क
व्रह्मो उवाच:
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च |
१८ ख
व्रह्मो उवाच:
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः ||
१८ ग
व्रह्मो उवाच:
अत ऊर्ध्वं प्रवक्ष्यामि निय़तं धर्मलक्षणम् |
१९ क
व्रह्मो उवाच:
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा ||
१९ ख
व्रह्मो उवाच:
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः |
२० क
व्रह्मो उवाच:
शव्दलक्षणमाकाशं वाय़ुस्तु स्पर्शलक्षणः ||
२० ख
व्रह्मो उवाच:
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः |
२१ क
व्रह्मो उवाच:
धरणी सर्वभूतानां पृथिवी गन्धलक्षणा ||
२१ ख
व्रह्मो उवाच:
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा |
२२ क
व्रह्मो उवाच:
मनसो लक्षणं चिन्ता तथोक्ता वुद्धिरन्वय़ात् ||
२२ ख
व्रह्मो उवाच:
मनसा चिन्तय़ानोऽर्थान्वुद्ध्या चैव व्यवस्यति |
२३ क
व्रह्मो उवाच:
वुद्धिर्हि व्यवसाय़ेन लक्ष्यते नात्र संशय़ः ||
२३ ख
व्रह्मो उवाच:
लक्षणं महतो ध्यानमव्यक्तं साधुलक्षणम् |
२४ क
व्रह्मो उवाच:
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ||
२४ ख
व्रह्मो उवाच:
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह वुद्धिमान् |
२५ क
व्रह्मो उवाच:
संन्यासी ज्ञानसंय़ुक्तः प्राप्नोति परमां गतिम् |
२५ ख
व्रह्मो उवाच:
अतीतोऽद्वन्द्वमभ्येति तमोमृत्युजरातिगम् ||
२५ ग
व्रह्मो उवाच:
धर्मलक्षणसंय़ुक्तमुक्तं वो विधिवन्मय़ा |
२६ क
व्रह्मो उवाच:
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम् ||
२६ ख
व्रह्मो उवाच:
पार्थिवो यस्तु गन्धो वै घ्राणेनेह स गृह्यते |
२७ क
व्रह्मो उवाच:
घ्राणस्थश्च तथा वाय़ुर्गन्धज्ञाने विधीय़ते ||
२७ ख
व्रह्मो उवाच:
अपां धातुरसो नित्यं जिह्वय़ा स तु गृह्यते |
२८ क
व्रह्मो उवाच:
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीय़ते ||
२८ ख
व्रह्मो उवाच:
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते |
२९ क
व्रह्मो उवाच:
चक्षुःस्थश्च तथादित्यो रूपज्ञाने विधीय़ते ||
२९ ख
व्रह्मो उवाच:
वाय़व्यस्तु तथा स्पर्शस्त्वचा प्रज्ञाय़ते च सः |
३० क
व्रह्मो उवाच:
त्वक्स्थश्चैव तथा वाय़ुः स्पर्शज्ञाने विधीय़ते ||
३० ख
व्रह्मो उवाच:
आकाशस्य गुणो घोषः श्रोत्रेण स तु गृह्यते |
३१ क
व्रह्मो उवाच:
श्रोत्रस्थाश्च दिशः सर्वाः शव्दज्ञाने प्रकीर्तिताः ||
३१ ख
व्रह्मो उवाच:
मनसस्तु गुणश्चिन्ता प्रज्ञय़ा स तु गृह्यते |
३२ क
व्रह्मो उवाच:
हृदिस्थचेतनाधातुर्मनोज्ञाने विधीय़ते ||
३२ ख
व्रह्मो उवाच:
वुद्धिरध्यवसाय़ेन ध्यानेन च महांस्तथा |
३३ क
व्रह्मो उवाच:
निश्चित्य ग्रहणं नित्यमव्यक्तं नात्र संशय़ः ||
३३ ख
व्रह्मो उवाच:
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः |
३४ क
व्रह्मो उवाच:
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः ||
३४ ख
व्रह्मो उवाच:
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम् |
३५ क
व्रह्मो उवाच:
सदा पश्याम्यहं लीनं विजानामि शृणोमि च ||
३५ ख
व्रह्मो उवाच:
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते |
३६ क
व्रह्मो उवाच:
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति ||
३६ ख
व्रह्मो उवाच:
आदिमध्यावसानान्तं सृज्यमानमचेतनम् |
३७ क
व्रह्मो उवाच:
न गुणा विदुरात्मानं सृज्यमानं पुनः पुनः ||
३७ ख
व्रह्मो उवाच:
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति |
३८ क
व्रह्मो उवाच:
गुणानां गुणभूतानां यत्परं परतो महत् ||
३८ ख
व्रह्मो उवाच:
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित् |
३९ क
व्रह्मो उवाच:
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ ||
३९ ख
व्रह्मो उवाच:
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च |
४० क
व्रह्मो उवाच:
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विभुः ||
४० ख