वैशम्पाय़न उवाच:
अदृष्ट्वा तु नृपः पुत्रान्दर्शनं प्रतिलव्धवान् |
१ क
वैशम्पाय़न उवाच:
ऋषिप्रसादात्पुत्राणां स्वरूपाणां कुरूद्वह ||
१ ख
वैशम्पाय़न उवाच:
स राजा राजधर्मांश्च व्रह्मोपनिषदं तथा |
२ क
वैशम्पाय़न उवाच:
अवाप्तवान्नरश्रेष्ठो वुद्धिनिश्चय़मेव च ||
२ ख
वैशम्पाय़न उवाच:
विदुरश्च महाप्राज्ञो यय़ौ सिद्धिं तपोवलात् |
३ क
वैशम्पाय़न उवाच:
धृतराष्ट्रः समासाद्य व्यासं चापि तपस्विनम् ||
३ ख
जनमेजय़ उवाच:
ममापि वरदो व्यासो दर्शय़ेत्पितरं यदि |
४ क
जनमेजय़ उवाच:
तद्रूपवेषवय़सं श्रद्दध्यां सर्वमेव ते ||
४ ख
जनमेजय़ उवाच:
प्रिय़ं मे स्यात्कृतार्थश्च स्यामहं कृतनिश्चय़ः |
५ क
जनमेजय़ उवाच:
प्रसादादृषिपुत्रस्य मम कामः समृध्यताम् ||
५ ख
सूत उवाच:
इत्युक्तवचने तस्मिन्नृपे व्यासः प्रतापवान् |
६ क
सूत उवाच:
प्रसादमकरोद्धीमानानय़च्च परिक्षितम् ||
६ ख
सूत उवाच:
ततस्तद्रूपवय़समागतं नृपतिं दिवः |
७ क
सूत उवाच:
श्रीमन्तं पितरं राजा ददर्श जनमेजय़ः ||
७ ख
सूत उवाच:
शमीकं च महात्मानं पुत्रं तं चास्य शृङ्गिणम् |
८ क
सूत उवाच:
अमात्या ये वभूवुश्च राज्ञस्तांश्च ददर्श ह ||
८ ख
सूत उवाच:
ततः सोऽवभृथे राजा मुदितो जनमेजय़ः |
९ क
सूत उवाच:
पितरं स्नापय़ामास स्वय़ं सस्नौ च पार्थिवः ||
९ ख
सूत उवाच:
स्नात्वा च भरतश्रेष्ठः सोऽऽस्तीकमिदमव्रवीत् |
१० क
सूत उवाच:
याय़ावरकुलोत्पन्नं जरत्कारुसुतं तदा ||
१० ख
सूत उवाच:
आस्तीक विविधाश्चर्यो यज्ञोऽय़मिति मे मतिः |
११ क
सूत उवाच:
यदद्याय़ं पिता प्राप्तो मम शोकप्रणाशनः ||
११ ख
आस्तीक उवाच:
ऋषिर्द्वैपाय़नो यत्र पुराणस्तपसो निधिः |
१२ क
आस्तीक उवाच:
यज्ञे कुरुकुलश्रेष्ठ तस्य लोकावुभौ जितौ ||
१२ ख
आस्तीक उवाच:
श्रुतं विचित्रमाख्यानं त्वय़ा पाण्डवनन्दन |
१३ क
आस्तीक उवाच:
सर्पाश्च भस्मसान्नीता गताश्च पदवीं पितुः ||
१३ ख
आस्तीक उवाच:
कथञ्चित्तक्षको मुक्तः सत्यत्वात्तव पार्थिव |
१४ क
आस्तीक उवाच:
ऋषय़ः पूजिताः सर्वे गतिं दृष्ट्वा महात्मनः ||
१४ ख
आस्तीक उवाच:
प्राप्तः सुविपुलो धर्मः श्रुत्वा पापविनाशनम् |
१५ क
आस्तीक उवाच:
विमुक्तो हृदय़ग्रन्थिरुदारजनदर्शनात् ||
१५ ख
आस्तीक उवाच:
ये च पक्षधरा धर्मे सद्वृत्तरुचय़श्च ये |
१६ क
आस्तीक उवाच:
यान्दृष्ट्वा हीय़ते पापं तेभ्यः कार्या नमस्क्रिय़ाः ||
१६ ख
सूत उवाच:
एतच्छ्रुत्वा द्विजश्रेष्ठात्स राजा जनमेजय़ः |
१७ क
सूत उवाच:
पूजय़ामास तमृषिमनुमान्य पुनः पुनः ||
१७ ख
सूत उवाच:
पप्रच्छ तमृषिं चापि वैशम्पाय़नमच्युतम् |
१८ क
सूत उवाच:
कथावशेषं धर्मज्ञो वनवासस्य सत्तम ||
१८ ख