वैशम्पाय़न उवाच:
गतेषु लोकपालेषु पार्थः शत्रुनिवर्हणः |
१ क
वैशम्पाय़न उवाच:
चिन्तय़ामास राजेन्द्र देवराजरथागमम् ||
१ ख
वैशम्पाय़न उवाच:
ततश्चिन्तय़मानस्य गुडाकेशस्य धीमतः |
२ क
वैशम्पाय़न उवाच:
रथो मातलिसंय़ुक्त आजगाम महाप्रभः ||
२ ख
वैशम्पाय़न उवाच:
नभो वितिमिरं कुर्वञ्जलदान्पाटय़न्निव |
३ क
वैशम्पाय़न उवाच:
दिशः सम्पूरय़न्नादैर्महामेघरवोपमैः ||
३ ख
वैशम्पाय़न उवाच:
असय़ः शक्तय़ो भीमा गदाश्चोग्रप्रदर्शनाः |
४ क
वैशम्पाय़न उवाच:
दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ||
४ ख
वैशम्पाय़न उवाच:
तथैवाशनय़स्तत्र चक्रय़ुक्ता हुडागुडाः |
५ क
वैशम्पाय़न उवाच:
वाय़ुस्फोटाः सनिर्घाता वर्हिमेघनिभस्वनाः ||
५ ख
वैशम्पाय़न उवाच:
तत्र नागा महाकाय़ा ज्वलितास्याः सुदारुणाः |
६ क
वैशम्पाय़न उवाच:
सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ||
६ ख
वैशम्पाय़न उवाच:
दश वाजिसहस्राणि हरीणां वातरंहसाम् |
७ क
वैशम्पाय़न उवाच:
वहन्ति यं नेत्रमुषं दिव्यं माय़ामय़ं रथम् ||
७ ख
वैशम्पाय़न उवाच:
तत्रापश्यन्महानीलं वैजय़न्तं महाप्रभम् |
८ क
वैशम्पाय़न उवाच:
ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ||
८ ख
वैशम्पाय़न उवाच:
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम् |
९ क
वैशम्पाय़न उवाच:
दृष्ट्वा पार्थो महावाहुर्देवमेवान्वतर्कय़त् ||
९ ख
वैशम्पाय़न उवाच:
तथा तर्कय़तस्तस्य फल्गुनस्याथ मातलिः |
१० क
वैशम्पाय़न उवाच:
संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमव्रवीत् ||
१० ख
वैशम्पाय़न उवाच:
भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति |
११ क
वैशम्पाय़न उवाच:
आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ||
११ ख
वैशम्पाय़न उवाच:
आह माममरश्रेष्ठः पिता तव शतक्रतुः |
१२ क
वैशम्पाय़न उवाच:
कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालय़ाः ||
१२ ख
वैशम्पाय़न उवाच:
एष शक्रः परिवृतो देवैरृषिगणैस्तथा |
१३ क
वैशम्पाय़न उवाच:
गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ||
१३ ख
वैशम्पाय़न उवाच:
अस्माल्लोकाद्देवलोकं पाकशासनशासनात् |
१४ क
वैशम्पाय़न उवाच:
आरोह त्वं मय़ा सार्धं लव्धास्त्रः पुनरेष्यसि ||
१४ ख
अर्जुन उवाच:
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् |
१५ क
अर्जुन उवाच:
राजसूय़ाश्वमेधानां शतैरपि सुदुर्लभम् ||
१५ ख
अर्जुन उवाच:
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः |
१६ क
अर्जुन उवाच:
दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ||
१६ ख
अर्जुन उवाच:
नातप्ततपसा शक्य एष दिव्यो महारथः |
१७ क
अर्जुन उवाच:
द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ||
१७ ख
अर्जुन उवाच:
त्वय़ि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि |
१८ क
अर्जुन उवाच:
पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ||
१८ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः |
१९ क
वैशम्पाय़न उवाच:
आरुरोह रथं शीघ्रं हय़ान्येमे च रश्मिभिः ||
१९ ख
वैशम्पाय़न उवाच:
ततोऽर्जुनो हृष्टमना गङ्गाय़ामाप्लुतः शुचिः |
२० क
वैशम्पाय़न उवाच:
जजाप जप्यं कौन्तेय़ो विधिवत्कुरुनन्दनः ||
२० ख
वैशम्पाय़न उवाच:
ततः पितॄन्यथान्याय़ं तर्पय़ित्वा यथाविधि |
२१ क
वैशम्पाय़न उवाच:
मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ||
२१ ख
वैशम्पाय़न उवाच:
साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् |
२२ क
वैशम्पाय़न उवाच:
त्वं सदा संश्रय़ः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ||
२२ ख
वैशम्पाय़न उवाच:
त्वत्प्रसादात्सदा शैल व्राह्मणाः क्षत्रिय़ा विशः |
२३ क
वैशम्पाय़न उवाच:
स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ||
२३ ख
वैशम्पाय़न उवाच:
अद्रिराज महाशैल मुनिसंश्रय़ तीर्थवन् |
२४ क
वैशम्पाय़न उवाच:
गच्छाम्यामन्त्रय़ामि त्वां सुखमस्म्युषितस्त्वय़ि ||
२४ ख
वैशम्पाय़न उवाच:
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च |
२५ क
वैशम्पाय़न उवाच:
तीर्थानि च सुपुण्यानि मय़ा दृष्टान्यनेकशः ||
२५ ख
वैशम्पाय़न उवाच:
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा |
२६ क
वैशम्पाय़न उवाच:
आरुरोह रथं दिव्यं द्योतय़न्निव भास्करः ||
२६ ख
वैशम्पाय़न उवाच:
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा |
२७ क
वैशम्पाय़न उवाच:
ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ||
२७ ख
वैशम्पाय़न उवाच:
सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम् |
२८ क
वैशम्पाय़न उवाच:
ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ||
२८ ख
वैशम्पाय़न उवाच:
न तत्र सूर्यः सोमो वा द्योतते न च पावकः |
२९ क
वैशम्पाय़न उवाच:
स्वय़ैव प्रभय़ा तत्र द्योतन्ते पुण्यलव्धय़ा ||
२९ ख
वैशम्पाय़न उवाच:
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै |
३० क
वैशम्पाय़न उवाच:
दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि ||
३० ख
वैशम्पाय़न उवाच:
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः |
३१ क
वैशम्पाय़न उवाच:
ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वय़ार्चिषा ||
३१ ख
वैशम्पाय़न उवाच:
तत्र राजर्षय़ः सिद्धा वीराश्च निहता युधि |
३२ क
वैशम्पाय़न उवाच:
तपसा च जितस्वर्गाः सम्पेतुः शतसङ्घशः ||
३२ ख
वैशम्पाय़न उवाच:
गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम् |
३३ क
वैशम्पाय़न उवाच:
गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ||
३३ ख
वैशम्पाय़न उवाच:
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मय़ान्वितः |
३४ क
वैशम्पाय़न उवाच:
पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ||
३४ ख
वैशम्पाय़न उवाच:
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः |
३५ क
वैशम्पाय़न उवाच:
यान्दृष्टवानसि विभो तारारूपाणि भूतले ||
३५ ख
वैशम्पाय़न उवाच:
ततोऽपश्यत्स्थितं द्वारि सितं वैजय़िनं गजम् |
३६ क
वैशम्पाय़न उवाच:
ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ||
३६ ख
वैशम्पाय़न उवाच:
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः |
३७ क
वैशम्पाय़न उवाच:
व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ||
३७ ख
वैशम्पाय़न उवाच:
अतिचक्राम लोकान्स राज्ञां राजीवलोचनः |
३८ क
वैशम्पाय़न उवाच:
ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ||
३८ ख