धृतराष्ट्र उवाच:
ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः |
१ क
धृतराष्ट्र उवाच:
पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ||
१ ख
सनत्सुजात उवाच:
नैनं सामान्यृचो वापि न यजूंषि विचक्षण |
२ क
सनत्सुजात उवाच:
त्राय़न्ते कर्मणः पापान्न ते मिथ्या व्रवीम्यहम् ||
२ ख
सनत्सुजात उवाच:
न छन्दांसि वृजिनात्तारय़न्ति; माय़ाविनं माय़या वर्तमानम् |
३ क
सनत्सुजात उवाच:
नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ||
३ ख
धृतराष्ट्र उवाच:
न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण |
४ क
धृतराष्ट्र उवाच:
अथ कस्मात्प्रलापोऽय़ं व्राह्मणानां सनातनः ||
४ ख
सनत्सुजात उवाच:
अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते |
५ क
सनत्सुजात उवाच:
व्राह्मणानामिमे लोका ऋद्धे तपसि संय़ताः ||
५ ख
धृतराष्ट्र उवाच:
कथं समृद्धमप्यृद्धं तपो भवति केवलम् |
६ क
धृतराष्ट्र उवाच:
सनत्सुजात तद्व्रूहि यथा विद्याम तद्वय़म् ||
६ ख
सनत्सुजात उवाच:
क्रोधादय़ो द्वादश यस्य दोषा; स्तथा नृशंसादि षडत्र राजन् |
७ क
सनत्सुजात उवाच:
धर्मादय़ो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम् ||
७ ख
सनत्सुजात उवाच:
क्रोधः कामो लोभमोहौ विवित्सा; कृपासूय़ा मानशोकौ स्पृहा च |
८ क
सनत्सुजात उवाच:
ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण ||
८ ख
सनत्सुजात उवाच:
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते |
९ क
सनत्सुजात उवाच:
लिप्समानोऽन्तरं तेषां मृगाणामिव लुव्धकः ||
९ ख
सनत्सुजात उवाच:
विकत्थनः स्पृहय़ालुर्मनस्वी; विभ्रत्कोपं चपलोऽरक्षणश्च |
१० क
सनत्सुजात उवाच:
एते प्राप्ताः षण्नरान्पापधर्मा; न्प्रकुर्वते नोत सन्तः सुदुर्गे ||
१० ख
सनत्सुजात उवाच:
सम्भोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽवलीय़ान् |
११ क
सनत्सुजात उवाच:
वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः ||
११ ख
सनत्सुजात उवाच:
धर्मश्च सत्यं च दमस्तपश्च; अमात्सर्यं ह्रीस्तितिक्षानसूय़ा |
१२ क
सनत्सुजात उवाच:
यज्ञश्च दानं च धृतिः श्रुतं च; महाव्रता द्वादश व्राह्मणस्य ||
१२ ख
सनत्सुजात उवाच:
यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात् |
१३ क
सनत्सुजात उवाच:
त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः ||
१३ ख
सनत्सुजात उवाच:
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् |
१४ क
सनत्सुजात उवाच:
तानि सत्यमुखान्याहुर्व्राह्मणा ये मनीषिणः ||
१४ ख
सनत्सुजात उवाच:
दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते |
१५ क
सनत्सुजात उवाच:
अनृतं चाभ्यसूय़ा च कामार्थौ च तथा स्पृहा ||
१५ ख
सनत्सुजात उवाच:
क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च |
१६ क
सनत्सुजात उवाच:
मत्सरश्च विवित्सा च परितापस्तथा रतिः ||
१६ ख
सनत्सुजात उवाच:
अपस्मारः सातिवादस्तथा सम्भावनात्मनि |
१७ क
सनत्सुजात उवाच:
एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते ||
१७ ख
सनत्सुजात उवाच:
श्रेय़ांस्तु षड्विधस्त्यागः प्रिय़ं प्राप्य न हृष्यति |
१८ क
सनत्सुजात उवाच:
अप्रिय़े तु समुत्पन्ने व्यथां जातु न चार्च्छति ||
१८ ख
सनत्सुजात उवाच:
इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् |
१९ क
सनत्सुजात उवाच:
अर्हते याचमानाय़ प्रदेय़ं तद्वचो भवेत् |
१९ ख
सनत्सुजात उवाच:
अप्यवाच्यं वदत्येव स तृतीय़ो गुणः स्मृतः ||
१९ ग
सनत्सुजात उवाच:
त्यक्तैर्द्रव्यैर्यो भवति नोपय़ुङ्क्ते च कामतः |
२० क
सनत्सुजात उवाच:
न च कर्मसु तद्धीनः शिष्यवुद्धिर्नरो यथा |
२० ख
सनत्सुजात उवाच:
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ||
२० ग
सनत्सुजात उवाच:
अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जय़ेत् |
२१ क
सनत्सुजात उवाच:
इन्द्रिय़ेभ्यश्च पञ्चभ्यो मनसश्चैव भारत |
२१ ख
सनत्सुजात उवाच:
अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् ||
२१ ग
सनत्सुजात उवाच:
दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् |
२२ क
सनत्सुजात उवाच:
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् |
२२ ख
सनत्सुजात उवाच:
यन्मां पृच्छसि राजेन्द्र किं भूय़ः श्रोतुमिच्छसि ||
२२ ग
धृतराष्ट्र उवाच:
आख्यानपञ्चमैर्वेदैर्भूय़िष्ठं कथ्यते जनः |
२३ क
धृतराष्ट्र उवाच:
तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ||
२३ ख
धृतराष्ट्र उवाच:
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे |
२४ क
धृतराष्ट्र उवाच:
तेषां तु कतमः स स्याद्यमहं वेद व्राह्मणम् ||
२४ ख
सनत्सुजात उवाच:
एकस्य वेदस्याज्ञानाद्वेदास्ते वहवोऽभवन् |
२५ क
सनत्सुजात उवाच:
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः |
२५ ख
सनत्सुजात उवाच:
एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ||
२५ ग
सनत्सुजात उवाच:
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते |
२६ क
सनत्सुजात उवाच:
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ||
२६ ख
सनत्सुजात उवाच:
ततो यज्ञः प्रताय़ेत सत्यस्यैवावधारणात् |
२७ क
सनत्सुजात उवाच:
मनसान्यस्य भवति वाचान्यस्योत कर्मणा |
२७ ख
सनत्सुजात उवाच:
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ||
२७ ग
सनत्सुजात उवाच:
अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् |
२८ क
सनत्सुजात उवाच:
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् |
२८ ख
सनत्सुजात उवाच:
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जाय़ते तपः ||
२८ ग
सनत्सुजात उवाच:
विद्याद्वहु पठन्तं तु वहुपाठीति व्राह्मणम् |
२९ क
सनत्सुजात उवाच:
तस्मात्क्षत्रिय़ मा मंस्था जल्पितेनैव व्राह्मणम् |
२९ ख
सनत्सुजात उवाच:
य एव सत्यान्नापैति स ज्ञेय़ो व्राह्मणस्त्वय़ा ||
२९ ग
सनत्सुजात उवाच:
छन्दांसि नाम क्षत्रिय़ तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः |
३० क
सनत्सुजात उवाच:
छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम् ||
३० ख
सनत्सुजात उवाच:
न वेदानां वेदिता कश्चिदस्ति; कश्चिद्वेदान्वुध्यते वापि राजन् |
३१ क
सनत्सुजात उवाच:
यो वेद वेदान्न स वेद वेद्यं; सत्ये स्थितो यस्तु स वेद वेद्यम् ||
३१ ख
सनत्सुजात उवाच:
अभिजानामि व्राह्मणमाख्यातारं विचक्षणम् |
३२ क
सनत्सुजात उवाच:
यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशय़ान् ||
३२ ख
सनत्सुजात उवाच:
तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् |
३३ क
सनत्सुजात उवाच:
नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथञ्चन ||
३३ ख
सनत्सुजात उवाच:
तूष्णीम्भूत उपासीत न चेष्टेन्मनसा अपि |
३४ क
सनत्सुजात उवाच:
अभ्यावर्तेत व्रह्मास्य अन्तरात्मनि वै श्रितम् ||
३४ ख
सनत्सुजात उवाच:
मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः |
३५ क
सनत्सुजात उवाच:
अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते ||
३५ ख
सनत्सुजात उवाच:
सर्वार्थानां व्याकरणाद्वैय़ाकरण उच्यते |
३६ क
सनत्सुजात उवाच:
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ||
३६ ख
सनत्सुजात उवाच:
सत्ये वै व्राह्मणस्तिष्ठन्व्रह्म पश्यति क्षत्रिय़ |
३७ क
सनत्सुजात उवाच:
वेदानां चानुपूर्व्येण एतद्विद्वन्व्रवीमि ते ||
३७ ख