सञ्जय़ उवाच:
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते |
१ क
सञ्जय़ उवाच:
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ||
१ ख
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम् |
२ क
सञ्जय़ उवाच:
सिंहानामिव संह्रादो दिवमुर्वीं च नादय़न् ||
२ ख
सञ्जय़ उवाच:
आसीत्किलकिलाशव्दस्तलशङ्खरवैः सह |
३ क
सञ्जय़ उवाच:
जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ||
३ ख
सञ्जय़ उवाच:
तलत्राभिहताश्चैव ज्याशव्दा भरतर्षभ |
४ क
सञ्जय़ उवाच:
पत्तीनां पादशव्दाश्च वाजिनां च महास्वनाः ||
४ ख
सञ्जय़ उवाच:
तोत्त्राङ्कुशनिपाताश्च आय़ुधानां च निस्वनाः |
५ क
सञ्जय़ उवाच:
घण्टाशव्दाश्च नागानामन्योन्यमभिधावताम् ||
५ ख
सञ्जय़ उवाच:
तस्मिन्समुदिते शव्दे तुमुले लोमहर्षणे |
६ क
सञ्जय़ उवाच:
वभूव रथनिर्घोषः पर्जन्यनिनदोपमः ||
६ ख
सञ्जय़ उवाच:
ते मनः क्रूरमाधाय़ समभित्यक्तजीविताः |
७ क
सञ्जय़ उवाच:
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ||
७ ख
सञ्जय़ उवाच:
स्वय़ं शान्तनवो राजन्नभ्यधावद्धनञ्जय़म् |
८ क
सञ्जय़ उवाच:
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ||
८ ख
सञ्जय़ उवाच:
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् |
९ क
सञ्जय़ उवाच:
अभ्यधावत तेजस्वी गाङ्गेय़ं रणमूर्धनि ||
९ ख
सञ्जय़ उवाच:
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ |
१० क
सञ्जय़ उवाच:
गाङ्गेय़स्तु रणे पार्थं विद्ध्वा नाकम्पय़द्वली |
१० ख
सञ्जय़ उवाच:
तथैव पाण्डवो राजन्भीष्मं नाकम्पय़द्युधि ||
१० ग
सञ्जय़ उवाच:
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् |
११ क
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं तुमुलं लोमहर्षणम् ||
११ ख
सञ्जय़ उवाच:
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् |
१२ क
सञ्जय़ उवाच:
आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ||
१२ ख
सञ्जय़ उवाच:
तौ शराचितसर्वाङ्गौ शुशुभाते महावलौ |
१३ क
सञ्जय़ उवाच:
वसन्ते पुष्पशवलौ पुष्पिताविव किंशुकौ ||
१३ ख
सञ्जय़ उवाच:
अभिमन्युर्महेष्वासो वृहद्वलमय़ोधय़त् |
१४ क
सञ्जय़ उवाच:
ततः कोसलको राजा सौभद्रस्य विशां पते |
१४ ख
सञ्जय़ उवाच:
ध्वजं चिच्छेद समरे सारथिं च न्यपातय़त् ||
१४ ग
सञ्जय़ उवाच:
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ |
१५ क
सञ्जय़ उवाच:
वृहद्वलं महाराज विव्याध नवभिः शरैः ||
१५ ख
सञ्जय़ उवाच:
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः |
१६ क
सञ्जय़ उवाच:
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् |
१६ ख
सञ्जय़ उवाच:
अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ||
१६ ग
सञ्जय़ उवाच:
मानिनं समरे दृप्तं कृतवैरं महारथम् |
१७ क
सञ्जय़ उवाच:
भीमसेनस्तव सुतं दुर्योधनमय़ोधय़त् ||
१७ ख
सञ्जय़ उवाच:
तावुभौ नरशार्दूलौ कुरुमुख्यौ महावलौ |
१८ क
सञ्जय़ उवाच:
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ||
१८ ख
सञ्जय़ उवाच:
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रय़ोधिनौ |
१९ क
सञ्जय़ उवाच:
विस्मय़ः सर्वभूतानां समपद्यत भारत ||
१९ ख
सञ्जय़ उवाच:
दुःशासनस्तु नकुलं प्रत्युद्याय़ महारथम् |
२० क
सञ्जय़ उवाच:
अविध्यन्निशितैर्वाणैर्वहुभिर्मर्मभेदिभिः ||
२० ख
सञ्जय़ उवाच:
तस्य माद्रीसुतः केतुं सशरं च शरासनम् |
२१ क
सञ्जय़ उवाच:
चिच्छेद निशितैर्वाणैः प्रहसन्निव भारत |
२१ ख
सञ्जय़ उवाच:
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दय़त् ||
२१ ग
सञ्जय़ उवाच:
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे |
२२ क
सञ्जय़ उवाच:
युगेषां चिच्छिदे वाणैर्ध्वजं चैव न्यपातय़त् ||
२२ ख
सञ्जय़ उवाच:
दुर्मुखः सहदेवं तु प्रत्युद्याय़ महावलम् |
२३ क
सञ्जय़ उवाच:
विव्याध शरवर्षेण यतमानं महाहवे ||
२३ ख
सञ्जय़ उवाच:
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे |
२४ क
सञ्जय़ उवाच:
शरेण भृशतीक्ष्णेन पातय़ामास सारथिम् ||
२४ ख
सञ्जय़ उवाच:
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ |
२५ क
सञ्जय़ उवाच:
त्रासय़ेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ||
२५ ख
सञ्जय़ उवाच:
युधिष्ठिरः स्वय़ं राजा मद्रराजानमभ्ययात् |
२६ क
सञ्जय़ उवाच:
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ||
२६ ख
सञ्जय़ उवाच:
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः |
२७ क
सञ्जय़ उवाच:
अन्यत्कार्मुकमादाय़ वेगवद्वलवत्तरम् ||
२७ ख
सञ्जय़ उवाच:
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः |
२८ क
सञ्जय़ उवाच:
छादय़ामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाव्रवीत् ||
२८ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत |
२९ क
सञ्जय़ उवाच:
तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् |
२९ ख
सञ्जय़ उवाच:
त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ||
२९ ग
सञ्जय़ उवाच:
शरं चैव महाघोरं कालदण्डमिवापरम् |
३० क
सञ्जय़ उवाच:
प्रेषय़ामास समरे सोऽस्य काय़े न्यमज्जत ||
३० ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ साय़कांश्च चतुर्दश |
३१ क
सञ्जय़ उवाच:
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संय़ुगे |
३१ ख
सञ्जय़ उवाच:
तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ||
३१ ग
सञ्जय़ उवाच:
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि |
३२ क
सञ्जय़ उवाच:
प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाव्रवीत् ||
३२ ख
सञ्जय़ उवाच:
तस्य वै दक्षिणं वीरो निर्विभेद रणे भुजम् |
३३ क
सञ्जय़ उवाच:
सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ||
३३ ख
सञ्जय़ उवाच:
तय़ोः समभवद्युद्धं घोररूपं विशां पते |
३४ क
सञ्जय़ उवाच:
दृप्तय़ोः समरे तूर्णं वृत्रवासवय़ोरिव ||
३४ ख
सञ्जय़ उवाच:
वाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते |
३५ क
सञ्जय़ उवाच:
अभ्यद्रवदमेय़ात्मा धृष्टकेतुर्महारथः ||
३५ ख
सञ्जय़ उवाच:
वाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् |
३६ क
सञ्जय़ उवाच:
शरैर्वहुभिरानर्छत्सिंहनादमथानदत् ||
३६ ख
सञ्जय़ उवाच:
चेदिराजस्तु सङ्क्रुद्धो वाह्लीकं नवभिः शरैः |
३७ क
सञ्जय़ उवाच:
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ||
३७ ख
सञ्जय़ उवाच:
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः |
३८ क
सञ्जय़ उवाच:
समीय़तुः सुसङ्क्रुद्धावङ्गारकवुधाविव ||
३८ ख
सञ्जय़ उवाच:
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः |
३९ क
सञ्जय़ उवाच:
अलम्वुसं प्रत्युदिय़ाद्वलं शक्र इवाहवे ||
३९ ख
सञ्जय़ उवाच:
घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महावलम् |
४० क
सञ्जय़ उवाच:
नवत्या साय़कैस्तीक्ष्णैर्दारय़ामास भारत ||
४० ख
सञ्जय़ उवाच:
अलम्वुसस्तु समरे भैमसेनिं महावलम् |
४१ क
सञ्जय़ उवाच:
वहुधा वारय़ामास शरैः संनतपर्वभिः ||
४१ ख
सञ्जय़ उवाच:
व्यभ्राजेतां ततस्तौ तु संय़ुगे शरविक्षतौ |
४२ क
सञ्जय़ उवाच:
यथा देवासुरे युद्धे वलशक्रौ महावलौ ||
४२ ख
सञ्जय़ उवाच:
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ वली |
४३ क
सञ्जय़ उवाच:
अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ||
४३ ख
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पय़त् |
४४ क
सञ्जय़ उवाच:
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडय़त् ||
४४ ख
सञ्जय़ उवाच:
साय़केन सुपीतेन तीक्ष्णेन निशितेन च |
४५ क
सञ्जय़ उवाच:
तौ जघ्नतुस्तदान्योन्यं शरैर्वहुविधैर्मृधे ||
४५ ख
सञ्जय़ उवाच:
भगदत्तं रणे शूरं विराटो वाहिनीपतिः |
४६ क
सञ्जय़ उवाच:
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ||
४६ ख
सञ्जय़ उवाच:
विराटो भगदत्तेन शरवर्षेण ताडितः |
४७ क
सञ्जय़ उवाच:
अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ||
४७ ख