सञ्जय़ उवाच:
सैन्धवेन निरुद्धेषु जय़गृद्धिषु पाण्डुषु |
१ क
सञ्जय़ उवाच:
सुघोरमभवद्युद्धं त्वदीय़ानां परैः सह ||
१ ख
सञ्जय़ उवाच:
प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम् |
२ क
सञ्जय़ उवाच:
व्यक्षोभय़त तेजस्वी मकरः सागरं यथा ||
२ ख
सञ्जय़ उवाच:
तं तथा शरवर्षेण क्षोभय़न्तमरिन्दमम् |
३ क
सञ्जय़ उवाच:
यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ||
३ ख
सञ्जय़ उवाच:
तेषां तस्य च संमर्दो दारुणः समपद्यत |
४ क
सञ्जय़ उवाच:
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ||
४ ख
सञ्जय़ उवाच:
रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः |
५ क
सञ्जय़ उवाच:
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ||
५ ख
सञ्जय़ उवाच:
तस्य विव्याध वलवाञ्शरैरश्वानजिह्मगैः |
६ क
सञ्जय़ उवाच:
वाताय़मानैरथ तैरश्वैरपहृतो रणात् ||
६ ख
सञ्जय़ उवाच:
तेनान्तरेणाभिमन्योर्यन्तापासारय़द्रथम् |
७ क
सञ्जय़ उवाच:
रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः ||
७ ख
सञ्जय़ उवाच:
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् |
८ क
सञ्जय़ उवाच:
आरादाय़ान्तमभ्येत्य वसातीय़ोऽभ्ययाद्द्रुतम् ||
८ ख
सञ्जय़ उवाच:
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् |
९ क
सञ्जय़ उवाच:
अव्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ||
९ ख
सञ्जय़ उवाच:
तमय़स्मय़वर्माणमिषुणा आशुपातिना |
१० क
सञ्जय़ उवाच:
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ||
१० ख
सञ्जय़ उवाच:
वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रिय़पुङ्गवाः |
११ क
सञ्जय़ उवाच:
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ||
११ ख
सञ्जय़ उवाच:
विस्फारय़न्तश्चापानि नानारूपाण्यनेकशः |
१२ क
सञ्जय़ उवाच:
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ||
१२ ख
सञ्जय़ उवाच:
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च |
१३ क
सञ्जय़ उवाच:
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ||
१३ ख
सञ्जय़ उवाच:
सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः |
१४ क
सञ्जय़ उवाच:
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ||
१४ ख
सञ्जय़ उवाच:
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः |
१५ क
सञ्जय़ उवाच:
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ||
१५ ख
सञ्जय़ उवाच:
अपस्करैरधिष्ठानैरीषादण्डकवन्धुरैः |
१६ क
सञ्जय़ उवाच:
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च वहुधा युगैः ||
१६ ख
सञ्जय़ उवाच:
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः |
१७ क
सञ्जय़ उवाच:
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ||
१७ ख
सञ्जय़ उवाच:
निहतैः क्षत्रिय़ैः शूरैर्नानाजनपदेश्वरैः |
१८ क
सञ्जय़ उवाच:
जय़गृद्धैर्वृता भूमिर्दारुणा समपद्यत ||
१८ ख
सञ्जय़ उवाच:
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा |
१९ क
सञ्जय़ उवाच:
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीय़त ||
१९ ख
सञ्जय़ उवाच:
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च |
२० क
सञ्जय़ उवाच:
धनुषश्च शराणां च तदपश्याम केवलम् ||
२० ख
सञ्जय़ उवाच:
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् |
२१ क
सञ्जय़ उवाच:
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ||
२१ ख