जनमेजय़ उवाच:
सरस्वत्याः प्रभावोऽय़मुक्तस्ते द्विजसत्तम |
१ क
जनमेजय़ उवाच:
कुमारस्याभिषेकं तु व्रह्मन्व्याख्यातुमर्हसि ||
१ ख
जनमेजय़ उवाच:
यस्मिन्काले च देशे च यथा च वदतां वर |
२ क
जनमेजय़ उवाच:
यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ||
२ ख
जनमेजय़ उवाच:
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् |
३ क
जनमेजय़ उवाच:
तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ||
३ ख
वैशम्पाय़न उवाच:
कुरुवंशस्य सदृशमिदं कौतूहलं तव |
४ क
वैशम्पाय़न उवाच:
हर्षमुत्पादय़त्येतद्वचो मे जनमेजय़ ||
४ ख
वैशम्पाय़न उवाच:
हन्त ते कथय़िष्यामि शृण्वानस्य जनाधिप |
५ क
वैशम्पाय़न उवाच:
अभिषेकं कुमारस्य प्रभावं च महात्मनः ||
५ ख
वैशम्पाय़न उवाच:
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा |
६ क
वैशम्पाय़न उवाच:
तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षय़म् ||
६ ख
वैशम्पाय़न उवाच:
तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः |
७ क
वैशम्पाय़न उवाच:
न चैव धारय़ामास गर्भं तेजोमय़ं तदा ||
७ ख
वैशम्पाय़न उवाच:
स गङ्गामभिसङ्गम्य निय़ोगाद्व्रह्मणः प्रभुः |
८ क
वैशम्पाय़न उवाच:
गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ||
८ ख
वैशम्पाय़न उवाच:
अथ गङ्गापि तं गर्भमसहन्ती विधारणे |
९ क
वैशम्पाय़न उवाच:
उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ||
९ ख
वैशम्पाय़न उवाच:
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः |
१० क
वैशम्पाय़न उवाच:
ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ||
१० ख
वैशम्पाय़न उवाच:
शरस्तम्वे महात्मानमनलात्मजमीश्वरम् |
११ क
वैशम्पाय़न उवाच:
ममाय़मिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ||
११ ख
वैशम्पाय़न उवाच:
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः |
१२ क
वैशम्पाय़न उवाच:
प्रस्नुतानां पय़ः षड्भिर्वदनैरपिवत्तदा ||
१२ ख
वैशम्पाय़न उवाच:
तं प्रभावं समालक्ष्य तस्य वालस्य कृत्तिकाः |
१३ क
वैशम्पाय़न उवाच:
परं विस्मय़मापन्ना देव्यो दिव्यवपुर्धराः ||
१३ ख
वैशम्पाय़न उवाच:
यत्रोत्सृष्टः स भगवान्गङ्गय़ा गिरिमूर्धनि |
१४ क
वैशम्पाय़न उवाच:
स शैलः काञ्चनः सर्वः सम्वभौ कुरुसत्तम ||
१४ ख
वैशम्पाय़न उवाच:
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता |
१५ क
वैशम्पाय़न उवाच:
अतश्च सर्वे संवृत्ता गिरय़ः काञ्चनाकराः ||
१५ ख
वैशम्पाय़न उवाच:
कुमारश्च महावीर्यः कार्त्तिकेय़ इति स्मृतः |
१६ क
वैशम्पाय़न उवाच:
गाङ्गेय़ः पूर्वमभवन्महाय़ोगवलान्वितः ||
१६ ख
वैशम्पाय़न उवाच:
स देवस्तपसा चैव वीर्येण च समन्वितः |
१७ क
वैशम्पाय़न उवाच:
ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रिय़दर्शनः ||
१७ ख
वैशम्पाय़न उवाच:
स तस्मिन्काञ्चने दिव्ये शरस्तम्वे श्रिय़ा वृतः |
१८ क
वैशम्पाय़न उवाच:
स्तूय़मानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ||
१८ ख
वैशम्पाय़न उवाच:
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः |
१९ क
वैशम्पाय़न उवाच:
दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ||
१९ ख
वैशम्पाय़न उवाच:
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा |
२० क
वैशम्पाय़न उवाच:
दधार पृथिवी चैनं विभ्रती रूपमुत्तमम् ||
२० ख
वैशम्पाय़न उवाच:
जातकर्मादिकास्तस्य क्रिय़ाश्चक्रे वृहस्पतिः |
२१ क
वैशम्पाय़न उवाच:
वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ||
२१ ख
वैशम्पाय़न उवाच:
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससङ्ग्रहः |
२२ क
वैशम्पाय़न उवाच:
तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ||
२२ ख
वैशम्पाय़न उवाच:
स ददर्श महावीर्यं देवदेवमुमापतिम् |
२३ क
वैशम्पाय़न उवाच:
शैलपुत्र्या सहासीनं भूतसङ्घशतैर्वृतम् ||
२३ ख
वैशम्पाय़न उवाच:
निकाय़ा भूतसङ्घानां परमाद्भुतदर्शनाः |
२४ क
वैशम्पाय़न उवाच:
विकृता विकृताकारा विकृताभरणध्वजाः ||
२४ ख
वैशम्पाय़न उवाच:
व्याघ्रसिंहर्क्षवदना विडालमकराननाः |
२५ क
वैशम्पाय़न उवाच:
वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ||
२५ ख
वैशम्पाय़न उवाच:
उलूकवदनाः केचिद्गृध्रगोमाय़ुदर्शनाः |
२६ क
वैशम्पाय़न उवाच:
क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ||
२६ ख
वैशम्पाय़न उवाच:
श्वाविच्छल्यकगोधानां खरैडकगवां तथा |
२७ क
वैशम्पाय़न उवाच:
सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारय़न् ||
२७ ख
वैशम्पाय़न उवाच:
केचिच्छैलाम्वुदप्रख्याश्चक्रालातगदाय़ुधाः |
२८ क
वैशम्पाय़न उवाच:
केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ||
२८ ख
वैशम्पाय़न उवाच:
सप्तमातृगणाश्चैव समाजग्मुर्विशां पते |
२९ क
वैशम्पाय़न उवाच:
साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ||
२९ ख
वैशम्पाय़न उवाच:
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः |
३० क
वैशम्पाय़न उवाच:
व्रह्मा स्वय़म्भूर्भगवान्सपुत्रः सह विष्णुना ||
३० ख
वैशम्पाय़न उवाच:
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् |
३१ क
वैशम्पाय़न उवाच:
नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ||
३१ ख
वैशम्पाय़न उवाच:
देवर्षय़श्च सिद्धाश्च वृहस्पतिपुरोगमाः |
३२ क
वैशम्पाय़न उवाच:
ऋभवो नाम वरदा देवानामपि देवताः |
३२ ख
वैशम्पाय़न उवाच:
तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ||
३२ ग
वैशम्पाय़न उवाच:
स तु वालोऽपि भगवान्महाय़ोगवलान्वितः |
३३ क
वैशम्पाय़न उवाच:
अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ||
३३ ख
वैशम्पाय़न उवाच:
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् |
३४ क
वैशम्पाय़न उवाच:
युगपच्छैलपुत्र्याश्च गङ्गाय़ाः पावकस्य च ||
३४ ख
वैशम्पाय़न उवाच:
किं नु पूर्वमय़ं वालो गौरवादभ्युपैष्यति |
३५ क
वैशम्पाय़न उवाच:
अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ||
३५ ख
वैशम्पाय़न उवाच:
तेषामेतमभिप्राय़ं चतुर्णामुपलक्ष्य सः |
३६ क
वैशम्पाय़न उवाच:
युगपद्योगमास्थाय़ ससर्ज विविधास्तनूः ||
३६ ख
वैशम्पाय़न उवाच:
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः |
३७ क
वैशम्पाय़न उवाच:
स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ||
३७ ख
वैशम्पाय़न उवाच:
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः |
३८ क
वैशम्पाय़न उवाच:
यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ||
३८ ख
वैशम्पाय़न उवाच:
विशाखस्तु यय़ौ येन देवी गिरिवरात्मजा |
३९ क
वैशम्पाय़न उवाच:
शाखो यय़ौ च भगवान्वाय़ुमूर्तिर्विभावसुम् |
३९ ख
वैशम्पाय़न उवाच:
नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ||
३९ ग
वैशम्पाय़न उवाच:
सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः |
४० क
वैशम्पाय़न उवाच:
तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ||
४० ख
वैशम्पाय़न उवाच:
हाहाकारो महानासीद्देवदानवरक्षसाम् |
४१ क
वैशम्पाय़न उवाच:
तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ||
४१ ख
वैशम्पाय़न उवाच:
ततो रुद्रश्च देवी च पावकश्च पितामहम् |
४२ क
वैशम्पाय़न उवाच:
गङ्गय़ा सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ||
४२ ख
वैशम्पाय़न उवाच:
प्रणिपत्य ततस्ते तु विधिवद्राजपुङ्गव |
४३ क
वैशम्पाय़न उवाच:
इदमूचुर्वचो राजन्कार्त्तिकेय़प्रिय़ेप्सय़ा ||
४३ ख
वैशम्पाय़न उवाच:
अस्य वालस्य भगवन्नाधिपत्यं यथेप्सितम् |
४४ क
वैशम्पाय़न उवाच:
अस्मत्प्रिय़ार्थं देवेश सदृशं दातुमर्हसि ||
४४ ख
वैशम्पाय़न उवाच:
ततः स भगवान्धीमान्सर्वलोकपितामहः |
४५ क
वैशम्पाय़न उवाच:
मनसा चिन्तय़ामास किमय़ं लभतामिति ||
४५ ख
वैशम्पाय़न उवाच:
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् |
४६ क
वैशम्पाय़न उवाच:
भूतय़क्षविहङ्गानां पन्नगानां च सर्वशः ||
४६ ख
वैशम्पाय़न उवाच:
पूर्वमेवादिदेशासौ निकाय़ेषु महात्मनाम् |
४७ क
वैशम्पाय़न उवाच:
समर्थं च तमैश्वर्ये महामतिरमन्यत ||
४७ ख
वैशम्पाय़न उवाच:
ततो मुहूर्तं स ध्यात्वा देवानां श्रेय़सि स्थितः |
४८ क
वैशम्पाय़न उवाच:
सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ||
४८ ख
वैशम्पाय़न उवाच:
सर्वदेवनिकाय़ानां ये राजानः परिश्रुताः |
४९ क
वैशम्पाय़न उवाच:
तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ||
४९ ख