chevron_left अनुशासन पर्व अध्याय ४४
युधिष्ठिर उवाच:
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च |
१ क
युधिष्ठिर उवाच:
पितृदेवातिथीनां च तन्मे व्रूहि पितामह ||
१ ख
भीष्म उवाच:
अय़ं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः |
२ क
भीष्म उवाच:
कीदृशाय़ प्रदेय़ा स्यात्कन्येति वसुधाधिप ||
२ ख
भीष्म उवाच:
शीलवृत्ते समाज्ञाय़ विद्यां योनिं च कर्म च |
३ क
भीष्म उवाच:
अद्भिरेव प्रदातव्या कन्या गुणवते वरे |
३ ख
भीष्म उवाच:
व्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ||
३ ग
भीष्म उवाच:
आवाह्यमावहेदेवं यो दद्यादनुकूलतः |
४ क
भीष्म उवाच:
शिष्टानां क्षत्रिय़ाणां च धर्म एष सनातनः ||
४ ख
भीष्म उवाच:
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः |
५ क
भीष्म उवाच:
अभिप्रेता च या यस्य तस्मै देय़ा युधिष्ठिर |
५ ख
भीष्म उवाच:
गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ||
५ ग
भीष्म उवाच:
धनेन वहुना क्रीत्वा सम्प्रलोभ्य च वान्धवान् |
६ क
भीष्म उवाच:
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ||
६ ख
भीष्म उवाच:
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् |
७ क
भीष्म उवाच:
प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ||
७ ख
भीष्म उवाच:
पञ्चानां तु त्रय़ो धर्म्या द्वावधर्म्यौ युधिष्ठिर |
८ क
भीष्म उवाच:
पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन ||
८ ख
भीष्म उवाच:
व्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ |
९ क
भीष्म उवाच:
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशय़ः ||
९ ख
भीष्म उवाच:
तिस्रो भार्या व्राह्मणस्य द्वे भार्ये क्षत्रिय़स्य तु |
१० क
भीष्म उवाच:
वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ||
१० ख
भीष्म उवाच:
व्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिय़ा क्षत्रिय़स्य तु |
११ क
भीष्म उवाच:
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ||
११ ख
भीष्म उवाच:
अपत्यजन्म शूद्राय़ां न प्रशंसन्ति साधवः |
१२ क
भीष्म उवाच:
शूद्राय़ां जनय़न्विप्रः प्राय़श्चित्ती विधीय़ते ||
१२ ख
भीष्म उवाच:
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् |
१३ क
भीष्म उवाच:
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुय़ात् ||
१३ ख
भीष्म उवाच:
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ |
१४ क
भीष्म उवाच:
नोपय़च्छेत तां जातु पुत्रिकाधर्मिणी हि सा ||
१४ ख
भीष्म उवाच:
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती |
१५ क
भीष्म उवाच:
चतुर्थे त्वथ सम्प्राप्ते स्वय़ं भर्तारमर्जय़ेत् ||
१५ ख
भीष्म उवाच:
प्रजनो हीय़ते तस्या रतिश्च भरतर्षभ |
१६ क
भीष्म उवाच:
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ||
१६ ख
भीष्म उवाच:
असपिण्डा च या मातुरसगोत्रा च या पितुः |
१७ क
भीष्म उवाच:
इत्येतामनुगच्छेत तं धर्मं मनुरव्रवीत् ||
१७ ख
युधिष्ठिर उवाच:
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः |
१८ क
युधिष्ठिर उवाच:
वलादन्यः प्रभाषेत धनमन्यः प्रदर्शय़ेत् ||
१८ ख
युधिष्ठिर उवाच:
पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह |
१९ क
युधिष्ठिर उवाच:
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ||
१९ ख
भीष्म उवाच:
यत्किञ्चित्कर्म मानुष्यं संस्थानाय़ प्रकृष्यते |
२० क
भीष्म उवाच:
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ||
२० ख
भीष्म उवाच:
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय़ एव च |
२१ क
भीष्म उवाच:
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ||
२१ ख
भीष्म उवाच:
न ह्यकामेन संवादं मनुरेवं प्रशंसति |
२२ क
भीष्म उवाच:
अय़शस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ||
२२ ख
भीष्म उवाच:
नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते |
२३ क
भीष्म उवाच:
धर्मतो यां प्रय़च्छन्ति यां च क्रीणन्ति भारत ||
२३ ख
भीष्म उवाच:
वन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रय़ोजय़ेत् |
२४ क
भीष्म उवाच:
तथा सिध्यन्ति ते मन्त्रा नादत्ताय़ाः कथञ्चन ||
२४ ख
भीष्म उवाच:
यस्त्वत्र मन्त्रसमय़ो भार्यापत्योर्मिथः कृतः |
२५ क
भीष्म उवाच:
तमेवाहुर्गरीय़ांसं यश्चासौ ज्ञातिभिः कृतः ||
२५ ख
भीष्म उवाच:
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् |
२६ क
भीष्म उवाच:
सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ||
२६ ख
युधिष्ठिर उवाच:
कन्याय़ां प्राप्तशुल्काय़ां ज्याय़ांश्चेदाव्रजेद्वरः |
२७ क
युधिष्ठिर उवाच:
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ||
२७ ख
युधिष्ठिर उवाच:
तस्मिन्नुभय़तो दोषे कुर्वञ्छ्रेय़ः समाचरेत् |
२८ क
युधिष्ठिर उवाच:
अय़ं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ||
२८ ख
युधिष्ठिर उवाच:
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् |
२९ क
युधिष्ठिर उवाच:
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ||
२९ ख
भीष्म उवाच:
न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् |
३० क
भीष्म उवाच:
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ||
३० ख
भीष्म उवाच:
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति वान्धवाः |
३१ क
भीष्म उवाच:
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ||
३१ ख
भीष्म उवाच:
तच्च तां च ददात्येव न शुल्कं विक्रय़ो न सः |
३२ क
भीष्म उवाच:
प्रतिगृह्य भवेद्देय़मेष धर्मः सनातनः ||
३२ ख
भीष्म उवाच:
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् |
३३ क
भीष्म उवाच:
ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ||
३३ ख
भीष्म उवाच:
तस्मादा ग्रहणात्पाणेर्याचय़न्ति परस्परम् |
३४ क
भीष्म उवाच:
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ||
३४ ख
भीष्म उवाच:
नानिष्टाय़ प्रदातव्या कन्या इत्यृषिचोदितम् |
३५ क
भीष्म उवाच:
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ||
३५ ख
भीष्म उवाच:
समीक्ष्य च वहून्दोषान्संवासाद्विद्विषाणय़ोः |
३६ क
भीष्म उवाच:
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ||
३६ ख
भीष्म उवाच:
अहं विचित्रवीर्याय़ द्वे कन्ये समुदावहम् |
३७ क
भीष्म उवाच:
जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् |
३७ ख
भीष्म उवाच:
गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ||
३७ ग
भीष्म उवाच:
पाणौ गृहीता तत्रैव विसृज्या इति मे पिता |
३८ क
भीष्म उवाच:
अव्रवीदितरां कन्यामावहत्स तु कौरवः ||
३८ ख
भीष्म उवाच:
अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः |
३९ क
भीष्म उवाच:
अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ||
३९ ख
भीष्म उवाच:
ततोऽहमव्रुवं राजन्नाचारेप्सुरिदं वचः |
४० क
भीष्म उवाच:
आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ||
४० ख
भीष्म उवाच:
ततो मय़ैवमुक्ते तु वाक्ये धर्मभृतां वरः |
४१ क
भीष्म उवाच:
पिता मम महाराज वाह्लीको वाक्यमव्रवीत् ||
४१ ख
भीष्म उवाच:
यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा |
४२ क
भीष्म उवाच:
लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ||
४२ ख
भीष्म उवाच:
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् |
४३ क
भीष्म उवाच:
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ||
४३ ख
भीष्म उवाच:
प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः |
४४ क
भीष्म उवाच:
ये मन्यन्ते क्रय़ं शुल्कं न ते धर्मविदो जनाः ||
४४ ख
भीष्म उवाच:
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा |
४५ क
भीष्म उवाच:
न ह्येव भार्या क्रेतव्या न विक्रेय़ा कथञ्चन ||
४५ ख
भीष्म उवाच:
ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः |
४६ क
भीष्म उवाच:
भवेत्तेषां तथा निष्ठा लुव्धानां पापचेतसाम् ||
४६ ख
भीष्म उवाच:
अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः |
४७ क
भीष्म उवाच:
कन्याय़ाः प्राप्तशुल्काय़ाः शुल्कदः प्रशमं गतः ||
४७ ख
भीष्म उवाच:
पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशय़ः |
४८ क
भीष्म उवाच:
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः |
४८ ख
भीष्म उवाच:
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ||
४८ ग