व्रह्मो उवाच:
यदादिमध्यपर्यन्तं ग्रहणोपाय़मेव च |
१ क
व्रह्मो उवाच:
नामलक्षणसंय़ुक्तं सर्वं वक्ष्यामि तत्त्वतः ||
१ ख
व्रह्मो उवाच:
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादय़ः स्मृताः |
२ क
व्रह्मो उवाच:
श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादय़ः ||
२ ख
व्रह्मो उवाच:
भूमिरादिस्तु गन्धानां रसानामाप एव च |
३ क
व्रह्मो उवाच:
रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वाय़ुरुच्यते |
३ ख
व्रह्मो उवाच:
शव्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ||
३ ग
व्रह्मो उवाच:
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् |
४ क
व्रह्मो उवाच:
आदित्यो ज्योतिषामादिरग्निर्भूतादिरिष्यते ||
४ ख
व्रह्मो उवाच:
सावित्री सर्वविद्यानां देवतानां प्रजापतिः |
५ क
व्रह्मो उवाच:
ओङ्कारः सर्ववेदानां वचसां प्राण एव च |
५ ख
व्रह्मो उवाच:
यद्यस्मिन्निय़तं लोके सर्वं सावित्रमुच्यते ||
५ ग
व्रह्मो उवाच:
गाय़त्री छन्दसामादिः पशूनामज उच्यते |
६ क
व्रह्मो उवाच:
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातय़ः ||
६ ख
व्रह्मो उवाच:
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् |
७ क
व्रह्मो उवाच:
परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ||
७ ख
व्रह्मो उवाच:
कृतमादिर्युगानां च सर्वेषां नात्र संशय़ः |
८ क
व्रह्मो उवाच:
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ||
८ ख
व्रह्मो उवाच:
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते |
९ क
व्रह्मो उवाच:
द्रवाणां चैव सर्वेषां पेय़ानामाप उत्तमाः ||
९ ख
व्रह्मो उवाच:
स्थावराणां च भूतानां सर्वेषामविशेषतः |
१० क
व्रह्मो उवाच:
व्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रथमजः स्मृतः ||
१० ख
व्रह्मो उवाच:
अहं प्रजापतीनां च सर्वेषां नात्र संशय़ः |
११ क
व्रह्मो उवाच:
मम विष्णुरचिन्त्यात्मा स्वय़म्भूरिति स स्मृतः ||
११ ख
व्रह्मो उवाच:
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः |
१२ क
व्रह्मो उवाच:
दिशां च प्रदिशां चोर्ध्वा दिग्जाता प्रथमं तथा ||
१२ ख
व्रह्मो उवाच:
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता |
१३ क
व्रह्मो उवाच:
तथा सरोदपानानां सर्वेषां सागरोऽग्रजः ||
१३ ख
व्रह्मो उवाच:
देवदानवभूतानां पिशाचोरगरक्षसाम् |
१४ क
व्रह्मो उवाच:
नरकिंनरय़क्षाणां सर्वेषामीश्वरः प्रभुः ||
१४ ख
व्रह्मो उवाच:
आदिर्विश्वस्य जगतो विष्णुर्व्रह्ममय़ो महान् |
१५ क
व्रह्मो उवाच:
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते ||
१५ ख
व्रह्मो उवाच:
आश्रमाणां च गार्हस्थ्यं सर्वेषां नात्र संशय़ः |
१६ क
व्रह्मो उवाच:
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ||
१६ ख
व्रह्मो उवाच:
अहान्यस्तमय़ान्तानि उदय़ान्ता च शर्वरी |
१७ क
व्रह्मो उवाच:
सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ||
१७ ख
व्रह्मो उवाच:
सर्वे क्षय़ान्ता निचय़ाः पतनान्ताः समुच्छ्रय़ाः |
१८ क
व्रह्मो उवाच:
संय़ोगा विप्रय़ोगान्ता मरणान्तं हि जीवितम् ||
१८ ख
व्रह्मो उवाच:
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् |
१९ क
व्रह्मो उवाच:
अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ||
१९ ख
व्रह्मो उवाच:
इष्टं दत्तं तपोऽधीतं व्रतानि निय़माश्च ये |
२० क
व्रह्मो उवाच:
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ||
२० ख
व्रह्मो उवाच:
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः |
२१ क
व्रह्मो उवाच:
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः ||
२१ ख