जनमेजय़ उवाच:
दृष्ट्वा पुत्रांस्तथा पौत्रान्सानुवन्धाञ्जनाधिपः |
१ क
जनमेजय़ उवाच:
धृतराष्ट्रः किमकरोद्राजा चैव युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
तद्दृष्ट्वा महदाश्चर्यं पुत्राणां दर्शनं पुनः |
२ क
वैशम्पाय़न उवाच:
वीतशोकः स राजर्षिः पुनराश्रममागमत् ||
२ ख
वैशम्पाय़न उवाच:
इतरस्तु जनः सर्वस्ते चैव परमर्षय़ः |
३ क
वैशम्पाय़न उवाच:
प्रतिजग्मुर्यथाकामं धृतराष्ट्राभ्यनुज्ञय़ा ||
३ ख
वैशम्पाय़न उवाच:
पाण्डवास्तु महात्मानो लघुभूय़िष्ठसैनिकाः |
४ क
वैशम्पाय़न उवाच:
अनुजग्मुर्महात्मानं सदारं तं महीपतिम् ||
४ ख
वैशम्पाय़न उवाच:
तमाश्रमगतं धीमान्व्रह्मर्षिर्लोकपूजितः |
५ क
वैशम्पाय़न उवाच:
मुनिः सत्यवतीपुत्रो धृतराष्ट्रमभाषत ||
५ ख
वैशम्पाय़न उवाच:
धृतराष्ट्र महावाहो शृणु कौरवनन्दन |
६ क
वैशम्पाय़न उवाच:
श्रुतं ते ज्ञानवृद्धानामृषीणां पुण्यकर्मणाम् ||
६ ख
वैशम्पाय़न उवाच:
ऋद्धाभिजनवृद्धानां वेदवेदाङ्गवेदिनाम् |
७ क
वैशम्पाय़न उवाच:
धर्मज्ञानां पुराणानां वदतां विविधाः कथाः ||
७ ख
वैशम्पाय़न उवाच:
मा स्म शोके मनः कार्षीर्दिष्टेन व्यथते वुधः |
८ क
वैशम्पाय़न उवाच:
श्रुतं देवरहस्यं ते नारदाद्देवदर्शनात् ||
८ ख
वैशम्पाय़न उवाच:
गतास्ते क्षत्रधर्मेण शस्त्रपूतां गतिं शुभाम् |
९ क
वैशम्पाय़न उवाच:
यथा दृष्टास्त्वय़ा पुत्रा यथाकामविहारिणः ||
९ ख
वैशम्पाय़न उवाच:
युधिष्ठिरस्त्वय़ं धीमान्भवन्तमनुरुध्यते |
१० क
वैशम्पाय़न उवाच:
सहितो भ्रातृभिः सर्वैः सदारः ससुहृज्जनः ||
१० ख
वैशम्पाय़न उवाच:
विसर्जय़ैनं यात्वेष स्वराज्यमनुशासताम् |
११ क
वैशम्पाय़न उवाच:
मासः समधिको ह्येषामतीतो वसतां वने ||
११ ख
वैशम्पाय़न उवाच:
एतद्धि नित्यं यत्नेन पदं रक्ष्यं परन्तप |
१२ क
वैशम्पाय़न उवाच:
वहुप्रत्यर्थिकं ह्येतद्राज्यं नाम नराधिप ||
१२ ख
वैशम्पाय़न उवाच:
इत्युक्तः कौरवो राजा व्यासेनामितवुद्धिना |
१३ क
वैशम्पाय़न उवाच:
युधिष्ठिरमथाहूय़ वाग्मी वचनमव्रवीत् ||
१३ ख
वैशम्पाय़न उवाच:
अजातशत्रो भद्रं ते शृणु मे भ्रातृभिः सह |
१४ क
वैशम्पाय़न उवाच:
त्वत्प्रसादान्महीपाल शोको नास्मान्प्रवाधते ||
१४ ख
वैशम्पाय़न उवाच:
रमे चाहं त्वय़ा पुत्र पुरेव गजसाह्वय़े |
१५ क
वैशम्पाय़न उवाच:
नाथेनानुगतो विद्वन्प्रिय़ेषु परिवर्तिना ||
१५ ख
वैशम्पाय़न उवाच:
प्राप्तं पुत्रफलं त्वत्तः प्रीतिर्मे विपुला त्वय़ि |
१६ क
वैशम्पाय़न उवाच:
न मे मन्युर्महावाहो गम्यतां पुत्र मा चिरम् ||
१६ ख
वैशम्पाय़न उवाच:
भवन्तं चेह सम्प्रेक्ष्य तपो मे परिहीय़ते |
१७ क
वैशम्पाय़न उवाच:
तपोय़ुक्तं शरीरं च त्वां दृष्ट्वा धारितं पुनः ||
१७ ख
वैशम्पाय़न उवाच:
मातरौ ते तथैवेमे शीर्णपर्णकृताशने |
१८ क
वैशम्पाय़न उवाच:
मम तुल्यव्रते पुत्र नचिरं वर्तय़िष्यतः ||
१८ ख
वैशम्पाय़न उवाच:
दुर्योधनप्रभृतय़ो दृष्टा लोकान्तरं गताः |
१९ क
वैशम्पाय़न उवाच:
व्यासस्य तपसो वीर्याद्भवतश्च समागमात् ||
१९ ख
वैशम्पाय़न उवाच:
प्रय़ोजनं चिरं वृत्तं जीवितस्य च मेऽनघ |
२० क
वैशम्पाय़न उवाच:
उग्रं तपः समास्थास्ये त्वमनुज्ञातुमर्हसि ||
२० ख
वैशम्पाय़न उवाच:
त्वय़्यद्य पिण्डः कीर्तिश्च कुलं चेदं प्रतिष्ठितम् |
२१ क
वैशम्पाय़न उवाच:
श्वो वाद्य वा महावाहो गम्यतां पुत्र मा चिरम् ||
२१ ख
वैशम्पाय़न उवाच:
राजनीतिः सुवहुशः श्रुता ते भरतर्षभ |
२२ क
वैशम्पाय़न उवाच:
सन्देष्टव्यं न पश्यामि कृतमेतावता विभो ||
२२ ख
वैशम्पाय़न उवाच:
इत्युक्तवचनं तात नृपो राजानमव्रवीत् |
२३ क
वैशम्पाय़न उवाच:
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् ||
२३ ख
वैशम्पाय़न उवाच:
कामं गच्छन्तु मे सर्वे भ्रातरोऽनुचरास्तथा |
२४ क
वैशम्पाय़न उवाच:
भवन्तमहमन्विष्ये मातरौ च यतव्रते ||
२४ ख
वैशम्पाय़न उवाच:
तमुवाचाथ गान्धारी मैवं पुत्र शृणुष्व मे |
२५ क
वैशम्पाय़न उवाच:
त्वय़्यधीनं कुरुकुलं पिण्डश्च श्वशुरस्य मे ||
२५ ख
वैशम्पाय़न उवाच:
गम्यतां पुत्र पर्याप्तमेतावत्पूजिता वय़म् |
२६ क
वैशम्पाय़न उवाच:
राजा यदाह तत्कार्यं त्वय़ा पुत्र पितुर्वचः ||
२६ ख
वैशम्पाय़न उवाच:
इत्युक्तः स तु गान्धार्या कुन्तीमिदमुवाच ह |
२७ क
वैशम्पाय़न उवाच:
स्नेहवाष्पाकुले नेत्रे प्रमृज्य रुदतीं वचः ||
२७ ख
वैशम्पाय़न उवाच:
विसर्जय़ति मां राजा गान्धारी च यशस्विनी |
२८ क
वैशम्पाय़न उवाच:
भवत्यां वद्धचित्तस्तु कथं यास्यामि दुःखितः ||
२८ ख
वैशम्पाय़न उवाच:
न चोत्सहे तपोविघ्नं कर्तुं ते धर्मचारिणि |
२९ क
वैशम्पाय़न उवाच:
तपसो हि परं नास्ति तपसा विन्दते महत् ||
२९ ख
वैशम्पाय़न उवाच:
ममापि न तथा राज्ञि राज्ये वुद्धिर्यथा पुरा |
३० क
वैशम्पाय़न उवाच:
तपस्येवानुरक्तं मे मनः सर्वात्मना तथा ||
३० ख
वैशम्पाय़न उवाच:
शून्येय़ं च मही सर्वा न मे प्रीतिकरी शुभे |
३१ क
वैशम्पाय़न उवाच:
वान्धवा नः परिक्षीणा वलं नो न यथा पुरा ||
३१ ख
वैशम्पाय़न उवाच:
पाञ्चालाः सुभृशं क्षीणाः कन्यामात्रावशेषिताः |
३२ क
वैशम्पाय़न उवाच:
न तेषां कुलकर्तारं कञ्चित्पश्याम्यहं शुभे ||
३२ ख
वैशम्पाय़न उवाच:
सर्वे हि भस्मसान्नीता द्रोणेनैकेन संय़ुगे |
३३ क
वैशम्पाय़न उवाच:
अवशेषास्तु निहता द्रोणपुत्रेण वै निशि ||
३३ ख
वैशम्पाय़न उवाच:
चेदय़श्चैव मत्स्याश्च दृष्टपूर्वास्तथैव नः |
३४ क
वैशम्पाय़न उवाच:
केवलं वृष्णिचक्रं तु वासुदेवपरिग्रहात् |
३४ ख
वैशम्पाय़न उवाच:
यं दृष्ट्वा स्थातुमिच्छामि धर्मार्थं नान्यहेतुकम् ||
३४ ग
वैशम्पाय़न उवाच:
शिवेन पश्य नः सर्वान्दुर्लभं दर्शनं तव |
३५ क
वैशम्पाय़न उवाच:
भविष्यत्यम्व राजा हि तीव्रमारप्स्यते तपः ||
३५ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा महावाहुः सहदेवो युधां पतिः |
३६ क
वैशम्पाय़न उवाच:
युधिष्ठिरमुवाचेदं वाष्पव्याकुललोचनः ||
३६ ख
वैशम्पाय़न उवाच:
नोत्सहेऽहं परित्यक्तुं मातरं पार्थिवर्षभ |
३७ क
वैशम्पाय़न उवाच:
प्रतिय़ातु भवान्क्षिप्रं तपस्तप्स्याम्यहं वने ||
३७ ख
वैशम्पाय़न उवाच:
इहैव शोषय़िष्यामि तपसाहं कलेवरम् |
३८ क
वैशम्पाय़न उवाच:
पादशुश्रूषणे युक्तो राज्ञो मात्रोस्तथानय़ोः ||
३८ ख
वैशम्पाय़न उवाच:
तमुवाच ततः कुन्ती परिष्वज्य महाभुजम् |
३९ क
वैशम्पाय़न उवाच:
गम्यतां पुत्र मैव त्वं वोचः कुरु वचो मम ||
३९ ख
वैशम्पाय़न उवाच:
आगमा वः शिवाः सन्तु स्वस्था भवत पुत्रकाः |
४० क
वैशम्पाय़न उवाच:
उपरोधो भवेदेवमस्माकं तपसः कृते ||
४० ख
वैशम्पाय़न उवाच:
त्वत्स्नेहपाशवद्धा च हीय़ेय़ं तपसः परात् |
४१ क
वैशम्पाय़न उवाच:
तस्मात्पुत्रक गच्छ त्वं शिष्टमल्पं हि नः प्रभो ||
४१ ख
वैशम्पाय़न उवाच:
एवं संस्तम्भितं वाक्यैः कुन्त्या वहुविधैर्मनः |
४२ क
वैशम्पाय़न उवाच:
सहदेवस्य राजेन्द्र राज्ञश्चैव विशेषतः ||
४२ ख
वैशम्पाय़न उवाच:
ते मात्रा समनुज्ञाता राज्ञा च कुरुपुङ्गवाः |
४३ क
वैशम्पाय़न उवाच:
अभिवाद्य कुरुश्रेष्ठमामन्त्रय़ितुमारभन् ||
४३ ख
वैशम्पाय़न उवाच:
राजन्प्रतिगमिष्यामः शिवेन प्रतिनन्दिताः |
४४ क
वैशम्पाय़न उवाच:
अनुज्ञातास्त्वय़ा राजन्गमिष्यामो विकल्मषाः ||
४४ ख
वैशम्पाय़न उवाच:
एवमुक्तः स राजर्षिर्धर्मराज्ञा महात्मना |
४५ क
वैशम्पाय़न उवाच:
अनुजज्ञे जय़ाशीर्भिरभिनन्द्य युधिष्ठिरम् ||
४५ ख
वैशम्पाय़न उवाच:
भीमं च वलिनां श्रेष्ठं सान्त्वय़ामास पार्थिवः |
४६ क
वैशम्पाय़न उवाच:
स चास्य सम्यङ्मेधावी प्रत्यपद्यत वीर्यवान् ||
४६ ख
वैशम्पाय़न उवाच:
अर्जुनं च समाश्लिष्य यमौ च पुरुषर्षभौ |
४७ क
वैशम्पाय़न उवाच:
अनुजज्ञे स कौरव्यः परिष्वज्याभिनन्द्य च ||
४७ ख
वैशम्पाय़न उवाच:
गान्धार्या चाभ्यनुज्ञाताः कृतपादाभिवन्दनाः |
४८ क
वैशम्पाय़न उवाच:
जनन्या समुपाघ्राताः परिष्वक्ताश्च ते नृपम् |
४८ ख
वैशम्पाय़न उवाच:
चक्रुः प्रदक्षिणं सर्वे वत्सा इव निवारणे ||
४८ ग
वैशम्पाय़न उवाच:
पुनः पुनर्निरीक्षन्तः प्रजग्मुस्ते प्रदक्षिणम् |
४९ क
वैशम्पाय़न उवाच:
तथैव द्रौपदी साध्वी सर्वाः कौरवय़ोषितः ||
४९ ख