chevron_left सभा पर्व अध्याय ४४
शकुनिरु उवाच:
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् |
१ क
शकुनिरु उवाच:
भागधेय़ानि हि स्वानि पाण्डवा भुञ्जते सदा ||
१ ख
शकुनिरु उवाच:
अनेकैरभ्युपाय़ैश्च त्वय़ारव्धाः पुरासकृत् |
२ क
शकुनिरु उवाच:
विमुक्ताश्च नरव्याघ्रा भागधेय़पुरस्कृताः ||
२ ख
शकुनिरु उवाच:
तैर्लव्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह |
३ क
शकुनिरु उवाच:
सहाय़ः पृथिवीलाभे वासुदेवश्च वीर्यवान् ||
३ ख
शकुनिरु उवाच:
लव्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते |
४ क
शकुनिरु उवाच:
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ||
४ ख
शकुनिरु उवाच:
धनञ्जय़ेन गाण्डीवमक्षय़्यौ च महेषुधी |
५ क
शकुनिरु उवाच:
लव्धान्यस्त्राणि दिव्यानि तर्पय़ित्वा हुताशनम् ||
५ ख
शकुनिरु उवाच:
तेन कार्मुकमुख्येन वाहुवीर्येण चात्मनः |
६ क
शकुनिरु उवाच:
कृता वशे महीपालास्तत्र का परिदेवना ||
६ ख
शकुनिरु उवाच:
अग्निदाहान्मय़ं चापि मोक्षय़ित्वा स दानवम् |
७ क
शकुनिरु उवाच:
सभां तां कारय़ामास सव्यसाची परन्तपः ||
७ ख
शकुनिरु उवाच:
तेन चैव मय़ेनोक्ताः किङ्करा नाम राक्षसाः |
८ क
शकुनिरु उवाच:
वहन्ति तां सभां भीमास्तत्र का परिदेवना ||
८ ख
शकुनिरु उवाच:
यच्चासहाय़तां राजन्नुक्तवानसि भारत |
९ क
शकुनिरु उवाच:
तन्मिथ्या भ्रातरो हीमे सहाय़ास्ते महारथाः ||
९ ख
शकुनिरु उवाच:
द्रोणस्तव महेष्वासः सह पुत्रेण धीमता |
१० क
शकुनिरु उवाच:
सूतपुत्रश्च राधेय़ो गौतमश्च महारथः ||
१० ख
शकुनिरु उवाच:
अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् |
११ क
शकुनिरु उवाच:
एतैस्त्वं सहितः सर्वैर्जय़ कृत्स्नां वसुन्धराम् ||
११ ख
दुर्योधन उवाच:
त्वय़ा च सहितो राजन्नेतैश्चान्यैर्महारथैः |
१२ क
दुर्योधन उवाच:
एतानेव विजेष्यामि यदि त्वमनुमन्यसे ||
१२ ख
दुर्योधन उवाच:
एतेषु विजितेष्वद्य भविष्यति मही मम |
१३ क
दुर्योधन उवाच:
सर्वे च पृथिवीपालाः सभा सा च महाधना ||
१३ ख
शकुनिरु उवाच:
धनञ्जय़ो वासुदेवो भीमसेनो युधिष्ठिरः |
१४ क
शकुनिरु उवाच:
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ||
१४ ख
शकुनिरु उवाच:
नैते युधि वलाज्जेतुं शक्याः सुरगणैरपि |
१५ क
शकुनिरु उवाच:
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ||
१५ ख
शकुनिरु उवाच:
अहं तु तद्विजानामि विजेतुं येन शक्यते |
१६ क
शकुनिरु उवाच:
युधिष्ठिरं स्वय़ं राजंस्तन्निवोध जुषस्व च ||
१६ ख
दुर्योधन उवाच:
अप्रमादेन सुहृदामन्येषां च महात्मनाम् |
१७ क
दुर्योधन उवाच:
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ||
१७ ख
शकुनिरु उवाच:
द्यूतप्रिय़श्च कौन्तेय़ो न च जानाति देवितुम् |
१८ क
शकुनिरु उवाच:
समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ||
१८ ख
शकुनिरु उवाच:
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि |
१९ क
शकुनिरु उवाच:
त्रिषु लोकेषु कौन्तेय़ं तं त्वं द्यूते समाह्वय़ ||
१९ ख
शकुनिरु उवाच:
तस्याक्षकुशलो राजन्नादास्येऽहमसंशय़म् |
२० क
शकुनिरु उवाच:
राज्यं श्रिय़ं च तां दीप्तां त्वदर्थं पुरुषर्षभ ||
२० ख
शकुनिरु उवाच:
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय़ |
२१ क
शकुनिरु उवाच:
अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशय़ः ||
२१ ख
दुर्योधन उवाच:
त्वमेव कुरुमुख्याय़ धृतराष्ट्राय़ सौवल |
२२ क
दुर्योधन उवाच:
निवेदय़ यथान्याय़ं नाहं शक्ष्ये निशंसितुम् ||
२२ ख