धृतराष्ट्र उवाच:
सनत्सुजात यदिमां परार्थां; व्राह्मीं वाचं प्रवदसि विश्वरूपाम् |
१ क
धृतराष्ट्र उवाच:
परां हि कामेषु सुदुर्लभां कथां; तद्व्रूहि मे वाक्यमेतत्कुमार ||
१ ख
सनत्सुजात उवाच:
नैतद्व्रह्म त्वरमाणेन लभ्यं; यन्मां पृच्छस्यभिहृष्यस्यतीव |
२ क
सनत्सुजात उवाच:
अव्यक्तविद्यामभिधास्ये पुराणीं; वुद्ध्या च तेषां व्रह्मचर्येण सिद्धाम् ||
२ ख
धृतराष्ट्र उवाच:
अव्यक्तविद्यामिति यत्सनातनीं; व्रवीषि त्वं व्रह्मचर्येण सिद्धाम् |
३ क
धृतराष्ट्र उवाच:
अनारभ्या वसतीहार्य काले; कथं व्राह्मण्यममृतत्वं लभेत ||
३ ख
सनत्सुजात उवाच:
येऽस्मिँल्लोके विजय़न्तीह कामा; न्व्राह्मीं स्थितिमनुतितिक्षमाणाः |
४ क
सनत्सुजात उवाच:
त आत्मानं निर्हरन्तीह देहा; न्मुञ्जादिषीकामिव सत्त्वसंस्थाः ||
४ ख
सनत्सुजात उवाच:
शरीरमेतौ कुरुतः पिता माता च भारत |
५ क
सनत्सुजात उवाच:
आचार्यशास्ता या जातिः सा सत्या साजरामरा ||
५ ख
सनत्सुजात उवाच:
आचार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं व्रह्मचर्यं चरन्ति |
६ क
सनत्सुजात उवाच:
इहैव ते शास्त्रकारा भवन्ति; प्रहाय़ देहं परमं यान्ति योगम् ||
६ ख
सनत्सुजात उवाच:
य आवृणोत्यवितथेन कर्णा; वृतं कुर्वन्नमृतं सम्प्रय़च्छन् |
७ क
सनत्सुजात उवाच:
तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् ||
७ ख
सनत्सुजात उवाच:
गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्याय़मिच्छेच्छुचिरप्रमत्तः |
८ क
सनत्सुजात उवाच:
मानं न कुर्यान्न दधीत रोष; मेष प्रथमो व्रह्मचर्यस्य पादः ||
८ ख
सनत्सुजात उवाच:
आचार्यस्य प्रिय़ं कुर्यात्प्राणैरपि धनैरपि |
९ क
सनत्सुजात उवाच:
कर्मणा मनसा वाचा द्वितीय़ः पाद उच्यते ||
९ ख
सनत्सुजात उवाच:
समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत् |
१० क
सनत्सुजात उवाच:
यथोक्तकारी प्रिय़कृत्तृतीय़ः पाद उच्यते ||
१० ख
सनत्सुजात उवाच:
नाचार्याय़ेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि |
११ क
सनत्सुजात उवाच:
इतीव मन्येत न भाषय़ेत; स वै चतुर्थो व्रह्मचर्यस्य पादः ||
११ ख
सनत्सुजात उवाच:
एवं वसन्तं यदुपप्लवेद्धन; माचार्याय़ तदनुप्रय़च्छेत् |
१२ क
सनत्सुजात उवाच:
सतां वृत्तिं वहुगुणामेवमेति; गुरोः पुत्रे भवति च वृत्तिरेषा ||
१२ ख
सनत्सुजात उवाच:
एवं वसन्सर्वतो वर्धतीह; वहून्पुत्राँल्लभते च प्रतिष्ठाम् |
१३ क
सनत्सुजात उवाच:
वर्षन्ति चास्मै प्रदिशो दिशश्च; वसन्त्यस्मिन्व्रह्मचर्ये जनाश्च ||
१३ ख
सनत्सुजात उवाच:
एतेन व्रह्मचर्येण देवा देवत्वमाप्नुवन् |
१४ क
सनत्सुजात उवाच:
ऋषय़श्च महाभागा व्रह्मलोकं मनीषिणः ||
१४ ख
सनत्सुजात उवाच:
गन्धर्वाणामनेनैव रूपमप्सरसामभूत् |
१५ क
सनत्सुजात उवाच:
एतेन व्रह्मचर्येण सूर्यो अह्नाय़ जाय़ते ||
१५ ख
सनत्सुजात उवाच:
य आशय़ेत्पाटय़ेच्चापि राज; न्सर्वं शरीरं तपसा तप्यमानः |
१६ क
सनत्सुजात उवाच:
एतेनासौ वाल्यमत्येति विद्वा; न्मृत्युं तथा रोधय़त्यन्तकाले ||
१६ ख
सनत्सुजात उवाच:
अन्तवन्तः क्षत्रिय़ ते जय़न्ति; लोकाञ्जनाः कर्मणा निर्मितेन |
१७ क
सनत्सुजात उवाच:
व्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अय़नाय़ विद्यते ||
१७ ख
धृतराष्ट्र उवाच:
आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा |
१८ क
धृतराष्ट्र उवाच:
तद्व्राह्मणः पश्यति योऽत्र विद्वा; न्कथंरूपं तदमृतमक्षरं पदम् ||
१८ ख
सनत्सुजात उवाच:
नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमाय़समर्कवर्णम् |
१९ क
सनत्सुजात उवाच:
न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं विभर्ति ||
१९ ख
सनत्सुजात उवाच:
न तारकासु न च विद्युदाश्रितं; न चाभ्रेषु दृश्यते रूपमस्य |
२० क
सनत्सुजात उवाच:
न चापि वाय़ौ न च देवतासु; न तच्चन्द्रे दृश्यते नोत सूर्ये ||
२० ख
सनत्सुजात उवाच:
नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न चैव दृश्यत्यमलेषु सामसु |
२१ क
सनत्सुजात उवाच:
रथन्तरे वार्हते चापि राज; न्महाव्रते नैव दृश्येद्ध्रुवं तत् ||
२१ ख
सनत्सुजात उवाच:
अपारणीय़ं तमसः परस्ता; त्तदन्तकोऽप्येति विनाशकाले |
२२ क
सनत्सुजात उवाच:
अणीय़रूपं क्षुरधारय़ा त; न्महच्च रूपं त्वपि पर्वतेभ्यः ||
२२ ख
सनत्सुजात उवाच:
सा प्रतिष्ठा तदमृतं लोकास्तद्व्रह्म तद्यशः |
२३ क
सनत्सुजात उवाच:
भूतानि जज्ञिरे तस्मात्प्रलय़ं यान्ति तत्र च ||
२३ ख
सनत्सुजात उवाच:
अनामय़ं तन्महदुद्यतं यशो; वाचो विकारान्कवय़ो वदन्ति |
२४ क
सनत्सुजात उवाच:
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति ||
२४ ख