सञ्जय़ उवाच:
राजञ्शतसहस्राणि तत्र तत्र तदा तदा |
१ क
सञ्जय़ उवाच:
निर्मर्यादं प्रय़ुद्धानि तत्ते वक्ष्यामि भारत ||
१ ख
सञ्जय़ उवाच:
न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् |
२ क
सञ्जय़ उवाच:
न भ्राता भ्रातरं तत्र स्वस्रीय़ं न च मातुलः ||
२ ख
सञ्जय़ उवाच:
मातुलं न च स्वस्रीय़ो न सखाय़ं सखा तथा |
३ क
सञ्जय़ उवाच:
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ||
३ ख
सञ्जय़ उवाच:
रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः |
४ क
सञ्जय़ उवाच:
अभज्यन्त युगैरेव युगानि भरतर्षभ ||
४ ख
सञ्जय़ उवाच:
रथेषाश्च रथेषाभिः कूवरा रथकूवरैः |
५ क
सञ्जय़ उवाच:
संहताः संहतैः केचित्परस्परजिघांसवः ||
५ ख
सञ्जय़ उवाच:
न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः |
६ क
सञ्जय़ उवाच:
प्रभिन्नास्तु महाकाय़ाः संनिपत्य गजा गजैः ||
६ ख
सञ्जय़ उवाच:
वहुधादारय़न्क्रुद्धा विषाणैरितरेतरम् |
७ क
सञ्जय़ उवाच:
सतोमरपताकैश्च वारणाः परवारणैः ||
७ ख
सञ्जय़ उवाच:
अभिसृत्य महाराज वेगवद्भिर्महागजैः |
८ क
सञ्जय़ उवाच:
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ||
८ ख
सञ्जय़ उवाच:
अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः |
९ क
सञ्जय़ उवाच:
सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा यय़ुः ||
९ ख
सञ्जय़ उवाच:
प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः |
१० क
सञ्जय़ उवाच:
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः ||
१० ख
सञ्जय़ उवाच:
सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः |
११ क
सञ्जय़ उवाच:
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ||
११ ख
सञ्जय़ उवाच:
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः |
१२ क
सञ्जय़ उवाच:
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ||
१२ ख
सञ्जय़ उवाच:
गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः |
१३ क
सञ्जय़ उवाच:
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ||
१३ ख
सञ्जय़ उवाच:
गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः |
१४ क
सञ्जय़ उवाच:
आय़सैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः ||
१४ ख
सञ्जय़ उवाच:
प्रगृहीतैः सुसंरव्धा धावमानास्ततस्ततः |
१५ क
सञ्जय़ उवाच:
व्यदृश्यन्त महाराज परस्परजिघांसवः ||
१५ ख
सञ्जय़ उवाच:
राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः |
१६ क
सञ्जय़ उवाच:
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ||
१६ ख
सञ्जय़ उवाच:
अवक्षिप्तावधूतानामसीनां वीरवाहुभिः |
१७ क
सञ्जय़ उवाच:
सञ्जज्ञे तुमुलः शव्दः पततां परमर्मसु ||
१७ ख
सञ्जय़ उवाच:
गदामुसलरुग्णानां भिन्नानां च वरासिभिः |
१८ क
सञ्जय़ उवाच:
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ||
१८ ख
सञ्जय़ उवाच:
तत्र तत्र नरौघाणां क्रोशतामितरेतरम् |
१९ क
सञ्जय़ उवाच:
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ||
१९ ख
सञ्जय़ उवाच:
हय़ैरपि हय़ारोहाश्चामरापीडधारिभिः |
२० क
सञ्जय़ उवाच:
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः ||
२० ख
सञ्जय़ उवाच:
तैर्विमुक्ता महाप्रासा जाम्वूनदविभूषणाः |
२१ क
सञ्जय़ उवाच:
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ||
२१ ख
सञ्जय़ उवाच:
अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् |
२२ क
सञ्जय़ उवाच:
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ||
२२ ख
सञ्जय़ उवाच:
वहूनपि हय़ारोहान्भल्लैः संनतपर्वभिः |
२३ क
सञ्जय़ उवाच:
रथी जघान सम्प्राप्य वाणगोचरमागतान् ||
२३ ख
सञ्जय़ उवाच:
नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः |
२४ क
सञ्जय़ उवाच:
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः ||
२४ ख
सञ्जय़ उवाच:
पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः |
२५ क
सञ्जय़ उवाच:
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ||
२५ ख
सञ्जय़ उवाच:
साश्वारोहान्हय़ान्केचिदुन्मथ्य वरवारणाः |
२६ क
सञ्जय़ उवाच:
सहसा चिक्षिपुस्तत्र सङ्कुले भैरवे सति ||
२६ ख
सञ्जय़ उवाच:
साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः |
२७ क
सञ्जय़ उवाच:
रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः ||
२७ ख
सञ्जय़ उवाच:
पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः |
२८ क
सञ्जय़ उवाच:
साश्वारोहान्हय़ाञ्जघ्नुः करैः सचरणैस्तथा ||
२८ ख
सञ्जय़ उवाच:
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः |
२९ क
सञ्जय़ उवाच:
विकर्षन्तो दिशः सर्वाः समीय़ुः सर्वशव्दगाः ||
२९ ख
सञ्जय़ उवाच:
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः |
३० क
सञ्जय़ उवाच:
नराश्वकाय़ान्निर्भिद्य लौहानि कवचानि च ||
३० ख
सञ्जय़ उवाच:
निपेतुर्विमलाः शक्त्यो वीरवाहुभिरर्पिताः |
३१ क
सञ्जय़ उवाच:
महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते ||
३१ ख
सञ्जय़ उवाच:
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशय़ैरपि |
३२ क
सञ्जय़ उवाच:
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे ||
३२ ख
सञ्जय़ उवाच:
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् |
३३ क
सञ्जय़ उवाच:
विदर्शय़न्तः सम्पेतुः खड्गचर्मपरश्वधैः ||
३३ ख
सञ्जय़ उवाच:
शक्तिभिर्दारिताः केचित्सञ्छिन्नाश्च परश्वधैः |
३४ क
सञ्जय़ उवाच:
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरङ्गमैः ||
३४ ख
सञ्जय़ उवाच:
रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः |
३५ क
सञ्जय़ उवाच:
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म वान्धवान् ||
३५ ख
सञ्जय़ उवाच:
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह वान्धवैः |
३६ क
सञ्जय़ उवाच:
मातुलान्भागिनेय़ांश्च परानपि च संय़ुगे ||
३६ ख
सञ्जय़ उवाच:
विकीर्णान्त्राः सुवहवो भग्नसक्थाश्च भारत |
३७ क
सञ्जय़ उवाच:
वाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः |
३७ ख
सञ्जय़ उवाच:
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ||
३७ ग
सञ्जय़ उवाच:
तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते |
३८ क
सञ्जय़ उवाच:
भूमौ निपतिताः सङ्ख्ये जलमेव यय़ाचिरे ||
३८ ख
सञ्जय़ उवाच:
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत |
३९ क
सञ्जय़ उवाच:
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सङ्गतान् ||
३९ ख
सञ्जय़ उवाच:
अपरे क्षत्रिय़ाः शूराः कृतवैराः परस्परम् |
४० क
सञ्जय़ उवाच:
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष |
४० ख
सञ्जय़ उवाच:
तर्जय़न्ति च संहृष्टास्तत्र तत्र परस्परम् ||
४० ग
सञ्जय़ उवाच:
निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् |
४१ क
सञ्जय़ उवाच:
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् ||
४१ ख
सञ्जय़ उवाच:
अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः |
४२ क
सञ्जय़ उवाच:
निष्कूजाः समपद्यन्त दृढसत्त्वा महावलाः ||
४२ ख
सञ्जय़ उवाच:
अन्ये तु विरथाः शूरा रथमन्यस्य संय़ुगे |
४३ क
सञ्जय़ उवाच:
प्रार्थय़ाना निपतिताः सङ्क्षुण्णा वरवारणैः |
४३ ख
सञ्जय़ उवाच:
अशोभन्त महाराज पुष्पिता इव किंशुकाः ||
४३ ग
सञ्जय़ उवाच:
सम्वभूवुरनीकेषु वहवो भैरवस्वनाः |
४४ क
सञ्जय़ उवाच:
वर्तमाने महाभीमे तस्मिन्वीरवरक्षय़े ||
४४ ख
सञ्जय़ उवाच:
अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे |
४५ क
सञ्जय़ उवाच:
स्वस्रीय़ो मातुलं चापि स्वस्रीय़ं चापि मातुलः ||
४५ ख
सञ्जय़ उवाच:
सखाय़ं च सखा राजन्सम्वन्धी वान्धवं तथा |
४६ क
सञ्जय़ उवाच:
एवं युय़ुधिरे तत्र कुरवः पाण्डवैः सह ||
४६ ख
सञ्जय़ उवाच:
वर्तमाने भय़े तस्मिन्निर्मर्यादे महाहवे |
४७ क
सञ्जय़ उवाच:
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ||
४७ ख
सञ्जय़ उवाच:
केतुना पञ्चतारेण तालेन भरतर्षभ |
४८ क
सञ्जय़ उवाच:
राजतेन महावाहुरुच्छ्रितेन महारथे |
४८ ख
सञ्जय़ उवाच:
वभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ||
४८ ग