chevron_left द्रोण पर्व अध्याय ४४
सञ्जय़ उवाच:
आददानस्तु शूराणामाय़ूंष्यभवदार्जुनिः |
१ क
सञ्जय़ उवाच:
अन्तकः सर्वभूतानां प्राणान्काल इवागते ||
१ ख
सञ्जय़ उवाच:
स शक्र इव विक्रान्तः शक्रसूनोः सुतो वली |
२ क
सञ्जय़ उवाच:
अभिमन्युस्तदानीकं लोडय़न्वह्वशोभत ||
२ ख
सञ्जय़ उवाच:
प्रविश्यैव तु राजेन्द्र क्षत्रिय़ेन्द्रान्तकोपमः |
३ क
सञ्जय़ उवाच:
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्वणम् ||
३ ख
सञ्जय़ उवाच:
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः |
४ क
सञ्जय़ उवाच:
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ||
४ ख
सञ्जय़ उवाच:
अहं पूर्वमहं पूर्वमिति क्षत्रिय़पुङ्गवाः |
५ क
सञ्जय़ उवाच:
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ||
५ ख
सञ्जय़ उवाच:
क्षत्रिय़ाणामनीकानि प्रद्रुतान्यभिधावताम् |
६ क
सञ्जय़ उवाच:
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे ||
६ ख
सञ्जय़ उवाच:
ये केचन गतास्तस्य समीपमपलाय़िनः |
७ क
सञ्जय़ उवाच:
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ||
७ ख
सञ्जय़ उवाच:
महाग्राहगृहीतेव वातवेगभय़ार्दिता |
८ क
सञ्जय़ उवाच:
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ||
८ ख
सञ्जय़ उवाच:
अथ रुक्मरथो नाम मद्रेश्वरसुतो वली |
९ क
सञ्जय़ उवाच:
त्रस्तामाश्वासय़न्सेनामत्रस्तो वाक्यमव्रवीत् ||
९ ख
सञ्जय़ उवाच:
अलं त्रासेन वः शूरा नैष कश्चिन्मय़ि स्थिते |
१० क
सञ्जय़ उवाच:
अहमेनं ग्रहीष्यामि जीवग्राहं न संशय़ः ||
१० ख
सञ्जय़ उवाच:
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् |
११ क
सञ्जय़ उवाच:
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ||
११ ख
सञ्जय़ उवाच:
सोऽभिमन्युं त्रिभिर्वाणैर्विद्ध्वा वक्षस्यथानदत् |
१२ क
सञ्जय़ उवाच:
त्रिभिश्च दक्षिणे वाहौ सव्ये च निशितैस्त्रिभिः ||
१२ ख
सञ्जय़ उवाच:
स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ |
१३ क
सञ्जय़ उवाच:
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातय़त् ||
१३ ख
सञ्जय़ उवाच:
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् |
१४ क
सञ्जय़ उवाच:
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ||
१४ ख
सञ्जय़ उवाच:
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः |
१५ क
सञ्जय़ उवाच:
वय़स्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ||
१५ ख
सञ्जय़ उवाच:
तालमात्राणि चापानि विकर्षन्तो महारथाः |
१६ क
सञ्जय़ उवाच:
आर्जुनिं शरवर्षेण समन्तात्पर्यवारय़न् ||
१६ ख
सञ्जय़ उवाच:
शूरैः शिक्षावलोपेतैस्तरुणैरत्यमर्षणैः |
१७ क
सञ्जय़ उवाच:
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ||
१७ ख
सञ्जय़ उवाच:
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् |
१८ क
सञ्जय़ उवाच:
वैवस्वतस्य भवनं गतमेनममन्यत ||
१८ ख
सञ्जय़ उवाच:
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः |
१९ क
सञ्जय़ उवाच:
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ||
१९ ख
सञ्जय़ उवाच:
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष |
२० क
सञ्जय़ उवाच:
आचितं समपश्याम श्वाविधं शललैरिव ||
२० ख
सञ्जय़ उवाच:
स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः |
२१ क
सञ्जय़ उवाच:
गान्धर्वमस्त्रमाय़च्छद्रथमाय़ां च योजय़त् ||
२१ ख
सञ्जय़ उवाच:
अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् |
२२ क
सञ्जय़ उवाच:
तुम्वुरुप्रमुखेभ्यो वै तेनामोहय़ताहितान् ||
२२ ख
सञ्जय़ उवाच:
एकः स शतधा राजन्दृश्यते स्म सहस्रधा |
२३ क
सञ्जय़ उवाच:
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शय़न् ||
२३ ख
सञ्जय़ उवाच:
रथचर्यास्त्रमाय़ाभिर्मोहय़ित्वा परन्तपः |
२४ क
सञ्जय़ उवाच:
विभेद शतधा राजञ्शरीराणि महीक्षिताम् ||
२४ ख
सञ्जय़ उवाच:
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः |
२५ क
सञ्जय़ उवाच:
राजन्प्रापुरमुं लोकं शरीराण्यवनिं यय़ुः ||
२५ ख
सञ्जय़ उवाच:
धनूंष्यश्वान्निय़न्तॄंश्च ध्वजान्वाहूंश्च साङ्गदान् |
२६ क
सञ्जय़ उवाच:
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः ||
२६ ख
सञ्जय़ उवाच:
चूतारामो यथा भग्नः पञ्चवर्षफलोपगः |
२७ क
सञ्जय़ उवाच:
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् ||
२७ ख
सञ्जय़ उवाच:
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् |
२८ क
सञ्जय़ उवाच:
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ||
२८ ख
सञ्जय़ उवाच:
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् |
२९ क
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनः क्षिप्रमुपाय़ात्तममर्षितः ||
२९ ख
सञ्जय़ उवाच:
तय़ोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत |
३० क
सञ्जय़ उवाच:
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः ||
३० ख