chevron_left कर्ण पर्व अध्याय ४४
धृतराष्ट्र उवाच:
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे |
१ क
धृतराष्ट्र उवाच:
वध्यमाने वले चापि मामके पाण्डुसृञ्जय़ैः ||
१ ख
धृतराष्ट्र उवाच:
द्रवमाणे वलौघे च निराक्रन्दे मुहुर्मुहुः |
२ क
धृतराष्ट्र उवाच:
किमकुर्वन्त कुरवस्तन्ममाचक्ष्व सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
दृष्ट्वा भीमं महावाहुं सूतपुत्रः प्रतापवान् |
३ क
सञ्जय़ उवाच:
क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ||
३ ख
सञ्जय़ उवाच:
तावकं च वलं दृष्ट्वा भीमसेनात्पराङ्मुखम् |
४ क
सञ्जय़ उवाच:
यत्नेन महता राजन्पर्यवस्थापय़द्वली ||
४ ख
सञ्जय़ उवाच:
व्यवस्थाप्य महावाहुस्तव पुत्रस्य वाहिनीम् |
५ क
सञ्जय़ उवाच:
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ||
५ ख
सञ्जय़ उवाच:
प्रत्युद्ययुस्तु राधेय़ं पाण्डवानां महारथाः |
६ क
सञ्जय़ उवाच:
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च साय़कान् ||
६ ख
सञ्जय़ उवाच:
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजय़ः |
७ क
सञ्जय़ उवाच:
धृष्टद्युम्नश्च वलवान्सर्वे चापि प्रभद्रकाः ||
७ ख
सञ्जय़ उवाच:
पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् |
८ क
सञ्जय़ उवाच:
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ||
८ ख
सञ्जय़ उवाच:
तथैव तावका राजन्पाण्डवानामनीकिनीम् |
९ क
सञ्जय़ उवाच:
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ||
९ ख
सञ्जय़ उवाच:
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् |
१० क
सञ्जय़ उवाच:
वभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ||
१० ख
सञ्जय़ उवाच:
शिखण्डी च यय़ौ कर्णं धृष्टद्युम्नः सुतं तव |
११ क
सञ्जय़ उवाच:
दुःशासनं महाराज महत्या सेनय़ा वृतम् ||
११ ख
सञ्जय़ उवाच:
नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः |
१२ क
सञ्जय़ उवाच:
उलूकं समरे राजन्सहदेवः समभ्ययात् ||
१२ ख
सञ्जय़ उवाच:
सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् |
१३ क
सञ्जय़ उवाच:
अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ||
१३ ख
सञ्जय़ उवाच:
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे |
१४ क
सञ्जय़ उवाच:
कृतवर्मा च वलवानुत्तमौजसमाद्रवत् ||
१४ ख
सञ्जय़ उवाच:
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष |
१५ क
सञ्जय़ उवाच:
सहानीकान्महावाहुरेक एवाभ्यवारय़त् ||
१५ ख
सञ्जय़ उवाच:
शिखण्डी च ततः कर्णं विचरन्तमभीतवत् |
१६ क
सञ्जय़ उवाच:
भीष्महन्ता महाराज वारय़ामास पत्रिभिः ||
१६ ख
सञ्जय़ उवाच:
प्रतिरव्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः |
१७ क
सञ्जय़ उवाच:
शिखण्डिनं त्रिभिर्वाणैर्भ्रुवोर्मध्ये व्यताडय़त् ||
१७ ख
सञ्जय़ उवाच:
धारय़ंस्तु स तान्वाणाञ्शिखण्डी वह्वशोभत |
१८ क
सञ्जय़ उवाच:
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ||
१८ ख
सञ्जय़ उवाच:
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संय़ुगे |
१९ क
सञ्जय़ उवाच:
कर्णं विव्याध समरे नवत्या निशितैः शरैः ||
१९ ख
सञ्जय़ उवाच:
तस्य कर्णो हय़ान्हत्वा सारथिं च त्रिभिः शरैः |
२० क
सञ्जय़ उवाच:
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ||
२० ख
सञ्जय़ उवाच:
हताश्वात्तु ततो यानादवप्लुत्य महारथः |
२१ क
सञ्जय़ उवाच:
शक्तिं चिक्षेप कर्णाय़ सङ्क्रुद्धः शत्रुतापनः ||
२१ ख
सञ्जय़ उवाच:
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत साय़कैः |
२२ क
सञ्जय़ उवाच:
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ||
२२ ख
सञ्जय़ उवाच:
कर्णचापच्युतान्वाणान्वर्जय़ंस्तु नरोत्तमः |
२३ क
सञ्जय़ उवाच:
अपय़ातस्ततस्तूर्णं शिखण्डी जय़तां वरः ||
२३ ख
सञ्जय़ उवाच:
ततः कर्णो महाराज पाण्डुसैन्यान्यशातय़त् |
२४ क
सञ्जय़ उवाच:
तूलराशिं समासाद्य यथा वाय़ुर्महाजवः ||
२४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः |
२५ क
सञ्जय़ उवाच:
दुःशासनं त्रिभिर्वाणैरभ्यविध्यत्स्तनान्तरे ||
२५ ख
सञ्जय़ उवाच:
तस्य दुःशासनो वाहुं सव्यं विव्याध मारिष |
२६ क
सञ्जय़ उवाच:
शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ||
२६ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः |
२७ क
सञ्जय़ उवाच:
दुःशासनाय़ सङ्क्रुद्धः प्रेषय़ामास भारत ||
२७ ख
सञ्जय़ उवाच:
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् |
२८ क
सञ्जय़ उवाच:
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ||
२८ ख
सञ्जय़ उवाच:
अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः |
२९ क
सञ्जय़ उवाच:
धृष्टद्युम्नं समासाद्य वाह्वोरुरसि चार्दय़त् ||
२९ ख
सञ्जय़ उवाच:
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष |
३० क
सञ्जय़ उवाच:
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ||
३० ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ पुत्रस्ते भरतर्षभ |
३१ क
सञ्जय़ उवाच:
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारय़त् ||
३१ ख
सञ्जय़ उवाच:
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः |
३२ क
सञ्जय़ उवाच:
व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ||
३२ ख
सञ्जय़ उवाच:
ततः प्रववृते युद्धं तावकानां परैः सह |
३३ क
सञ्जय़ उवाच:
घोरं प्राणभृतां काले घोररूपं परन्तप ||
३३ ख
सञ्जय़ उवाच:
नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिराय़सैः |
३४ क
सञ्जय़ उवाच:
पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ||
३४ ख
सञ्जय़ उवाच:
नकुलस्तु ततः क्रुद्धो वृषसेनं स्मय़न्निव |
३५ क
सञ्जय़ उवाच:
नाराचेन सुतीक्ष्णेन विव्याध हृदय़े दृढम् ||
३५ ख
सञ्जय़ उवाच:
सोऽतिविद्धो वलवता शत्रुणा शत्रुकर्शनः |
३६ क
सञ्जय़ उवाच:
शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ||
३६ ख
सञ्जय़ उवाच:
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ |
३७ क
सञ्जय़ उवाच:
अन्योन्यमाच्छादय़तामथाभज्यत वाहिनी ||
३७ ख
सञ्जय़ उवाच:
दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः |
३८ क
सञ्जय़ उवाच:
निवारय़ामास वलादनुपत्य विशां पते |
३८ ख
सञ्जय़ उवाच:
निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ||
३८ ग
सञ्जय़ उवाच:
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु |
३९ क
सञ्जय़ उवाच:
जुगोप चक्रं त्वरितं राधेय़स्यैव मारिष ||
३९ ख
सञ्जय़ उवाच:
उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः |
४० क
सञ्जय़ उवाच:
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् |
४० ख
सञ्जय़ उवाच:
सारथिं प्रेषय़ामास यमस्य सदनं प्रति ||
४० ग
सञ्जय़ उवाच:
उलूकस्तु ततो यानादवप्लुत्य विशां पते |
४१ क
सञ्जय़ उवाच:
त्रिगर्तानां वलं पूर्णं जगाम पितृनन्दनः ||
४१ ख
सञ्जय़ उवाच:
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः |
४२ क
सञ्जय़ उवाच:
ध्वजं चिच्छेद भल्लेन सौवलस्य हसन्निव ||
४२ ख
सञ्जय़ उवाच:
सौवलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् |
४३ क
सञ्जय़ उवाच:
विदार्य कवचं भूय़ो ध्वजं चिच्छेद काञ्चनम् ||
४३ ख
सञ्जय़ उवाच:
अथैनं निशितैर्वाणैः सात्यकिः प्रत्यविध्यत |
४४ क
सञ्जय़ उवाच:
सारथिं च महाराज त्रिभिरेव समार्दय़त् |
४४ ख
सञ्जय़ उवाच:
अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षय़म् ||
४४ ग
सञ्जय़ उवाच:
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ |
४५ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णमुलूकस्य महारथः |
४५ ख
सञ्जय़ उवाच:
अपोवाहाथ शीघ्रं स शैनेय़ाद्युद्धशालिनः ||
४५ ग
सञ्जय़ उवाच:
सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् |
४६ क
सञ्जय़ उवाच:
अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ||
४६ ख
सञ्जय़ उवाच:
शैनेय़शरनुन्नं तु ततः सैन्यं विशां पते |
४७ क
सञ्जय़ उवाच:
भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ||
४७ ख
सञ्जय़ उवाच:
भीमसेनं तव सुतो वारय़ामास संय़ुगे |
४८ क
सञ्जय़ उवाच:
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् |
४८ ख