सञ्जय़ उवाच:
हाहाकारो महानासीद्योधानां युधि युध्यताम् |
५० क
सञ्जय़ उवाच:
तेजस्तेजसि सम्पृक्तमित्येवं विस्मय़ं यय़ुः ||
५० ख
सञ्जय़ उवाच:
अथ शल्यो गदापाणिरवतीर्य महारथात् |
५१ क
सञ्जय़ उवाच:
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ||
५१ ख
सञ्जय़ उवाच:
स हताश्वाद्रथात्तूर्णं खड्गमादाय़ विद्रुतः |
५२ क
सञ्जय़ उवाच:
वीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ||
५२ ख
सञ्जय़ उवाच:
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः |
५३ क
सञ्जय़ उवाच:
यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ||
५३ ख
सञ्जय़ उवाच:
पाञ्चालानथ मत्स्यांश्च केकय़ांश्च प्रभद्रकान् |
५४ क
सञ्जय़ उवाच:
भीष्मः प्रहरतां श्रेष्ठः पातय़ामास मार्गणैः ||
५४ ख
सञ्जय़ उवाच:
उत्सृज्य समरे तूर्णं पाण्डवं सव्यसाचिनम् |
५५ क
सञ्जय़ उवाच:
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनय़ा वृतम् |
५५ ख
सञ्जय़ उवाच:
प्रिय़ं सम्वन्धिनं राजञ्शरानवकिरन्वहून् ||
५५ ग
सञ्जय़ उवाच:
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये |
५६ क
सञ्जय़ उवाच:
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह |
५६ ख
सञ्जय़ उवाच:
अतिष्ठत रणे भीष्मो विधूम इव पावकः ||
५६ ग
सञ्जय़ उवाच:
मध्यन्दिने यथादित्यं तपन्तमिव तेजसा |
५७ क
सञ्जय़ उवाच:
न शेकुः पाण्डवेय़स्य योधा भीष्मं निरीक्षितुम् ||
५७ ख
सञ्जय़ उवाच:
वीक्षां चक्रुः समन्तात्ते पाण्डवा भय़पीडिताः |
५८ क
सञ्जय़ उवाच:
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ||
५८ ख
सञ्जय़ उवाच:
हतविप्रद्रुते सैन्ये निरुत्साहे विमर्दिते |
५९ क
सञ्जय़ उवाच:
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ||
५९ ख
सञ्जय़ उवाच:
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः |
६० क
सञ्जय़ उवाच:
मुमोच वाणान्दीप्ताग्रानहीनाशीविषानिव ||
६० ख
सञ्जय़ उवाच:
शरैरेकाय़नीकुर्वन्दिशः सर्वा यतव्रतः |
६१ क
सञ्जय़ उवाच:
जघान पाण्डवरथानादिश्यादिश्य भारत ||
६१ ख
सञ्जय़ उवाच:
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः |
६२ क
सञ्जय़ उवाच:
प्राप्ते चास्तं दिनकरे न प्राज्ञाय़त किञ्चन ||
६२ ख
सञ्जय़ उवाच:
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे |
६३ क
सञ्जय़ उवाच:
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ||
६३ ख