chevron_left कर्ण पर्व अध्याय ४५
सञ्जय़ उवाच:
न च पश्यामि समरे कर्णस्य प्रपलाय़ितम् ||
४८ ख
सञ्जय़ उवाच:
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जय़पराजय़ौ |
४९ क
सञ्जय़ उवाच:
जितस्य तु हृषीकेश वध एव कुतो जय़ः ||
४९ ख
सञ्जय़ उवाच:
ततो जनार्दनः प्राय़ाद्द्रष्टुमिच्छन्युधिष्ठिरम् |
५० क
सञ्जय़ उवाच:
श्रमेण ग्राहय़िष्यंश्च कर्णं युद्धेन मारिष ||
५० ख
सञ्जय़ उवाच:
अर्जुनं चाव्रवीत्कृष्णो भृशं राजा परिक्षतः |
५१ क
सञ्जय़ उवाच:
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ||
५१ ख
सञ्जय़ उवाच:
ततो धनञ्जय़ो द्रष्टुं राजानं वाणपीडितम् |
५२ क
सञ्जय़ उवाच:
रथेन प्रय़यौ क्षिप्रं सङ्ग्रामे केशवाज्ञय़ा ||
५२ ख
सञ्जय़ उवाच:
गच्छन्नेव तु कौन्तेय़ो धर्मराजदिदृक्षय़ा |
५३ क
सञ्जय़ उवाच:
सैन्यमालोकय़ामास नापश्यत्तत्र चाग्रजम् ||
५३ ख
सञ्जय़ उवाच:
युद्धं कृत्वा तु कौन्तेय़ो द्रोणपुत्रेण भारत |
५४ क
सञ्जय़ उवाच:
दुःसहं वज्रिणा सङ्ख्ये पराजिग्ये भृगोः सुतम् ||
५४ ख
सञ्जय़ उवाच:
द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म |
५५ क
सञ्जय़ उवाच:
आलोकय़ामास ततः स्वसैन्यं; धनञ्जय़ः शत्रुभिरप्रधृष्यः ||
५५ ख
सञ्जय़ उवाच:
स युध्यमानः पृतनामुखस्था; ञ्शूराञ्शूरो हर्षय़न्सव्यसाची |
५६ क
सञ्जय़ उवाच:
पूर्वापदानैः प्रथितैः प्रशंस; न्स्थिरांश्चकारात्मरथाननीके ||
५६ ख
सञ्जय़ उवाच:
अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम् |
५७ क
सञ्जय़ उवाच:
उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन् ||
५७ ख
भीम उवाच:
अपय़ात इतो राजा धर्मपुत्रो युधिष्ठिरः |
५८ क
भीम उवाच:
कर्णवाणविभुग्नाङ्गो यदि जीवेत्कथञ्चन ||
५८ ख
अर्जुन उवाच:
तस्माद्भवाञ्शीघ्रमितः प्रय़ातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य |
५९ क
अर्जुन उवाच:
नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिविरं गतोऽसौ ||
५९ ख
अर्जुन उवाच:
यः सम्प्रहारे निशि सम्प्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी |
६० क
अर्जुन उवाच:
तस्थौ च तत्रापि जय़प्रतीक्षो; द्रोणेन यावन्न हतः किलासीत् ||
६० ख
अर्जुन उवाच:
स संशय़ं गमितः पाण्डवाग्र्यः; सङ्ख्येऽद्य कर्णेन महानुभावः |
६१ क
अर्जुन उवाच:
ज्ञातुं प्रय़ाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य ||
६१ ख
भीम उवाच:
त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य |
६२ क
भीम उवाच:
अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः ||
६२ ख
भीम उवाच:
ततोऽव्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे |
६३ क
भीम उवाच:
एतानहत्वा न मय़ा तु शक्य; मितोऽपय़ातुं रिपुसङ्घगोष्ठात् ||
६३ ख
भीम उवाच:
अथाव्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर |
६४ क
भीम उवाच:
संशप्तकान्प्रतिय़ोत्स्यामि सङ्ख्ये; सर्वानहं याहि धनञ्जय़ेति ||
६४ ख
भीम उवाच:
तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये |
६५ क
भीम उवाच:
द्रष्टुं कुरुश्रेष्ठमभिप्रय़ातुं; प्रोवाच वृष्णिप्रवरं तदानीम् ||
६५ ख
भीम उवाच:
चोदय़ाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् |
६६ क
भीम उवाच:
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ||
६६ ख
भीम उवाच:
ततो हय़ान्सर्वदाशार्हमुख्यः; प्राचोदय़द्भीममुवाच चेदम् |
६७ क
भीम उवाच:
नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसङ्घान् ||
६७ ख
भीम उवाच:
ततो यय़ौ हृषीकेशो यत्र राजा युधिष्ठिरः |
६८ क
भीम उवाच:
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ||
६८ ख
भीम उवाच:
प्रत्यनीके व्यवस्थाप्य भीमसेनमरिन्दमम् |
६९ क
भीम उवाच:
सन्दिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ||
६९ ख
भीम उवाच:
ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शय़ानमेकम् |
७० क
भीम उवाच:
रथादुभौ प्रत्यवरुह्य तस्मा; द्ववन्दतुर्धर्मराजस्य पादौ ||
७० ख
भीम उवाच:
तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ |
७१ क
भीम उवाच:
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ||
७१ ख
भीम उवाच:
तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव |
७२ क
भीम उवाच:
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ||
७२ ख
भीम उवाच:
मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः |
७३ क
भीम उवाच:
हर्षगद्गदय़ा वाचा प्रीतः प्राह परन्तपौ ||
७३ ख