chevron_left आश्वमेधिक पर्व अध्याय ४५
व्रह्मो उवाच:
वुद्धिसारं मनस्तम्भमिन्द्रिय़ग्रामवन्धनम् |
१ क
व्रह्मो उवाच:
महाभूतारविष्कम्भं निमेषपरिवेष्टनम् ||
१ ख
व्रह्मो उवाच:
जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम् |
२ क
व्रह्मो उवाच:
देशकालविचारीदं श्रमव्याय़ामनिस्वनम् ||
२ ख
व्रह्मो उवाच:
अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम् |
३ क
व्रह्मो उवाच:
सुखदुःखान्तसङ्क्लेशं क्षुत्पिपासावकीलनम् ||
३ ख
व्रह्मो उवाच:
छाय़ातपविलेखं च निमेषोन्मेषविह्वलम् |
४ क
व्रह्मो उवाच:
घोरमोहजनाकीर्णं वर्तमानमचेतनम् ||
४ ख
व्रह्मो उवाच:
मासार्धमासगणितं विषमं लोकसञ्चरम् |
५ क
व्रह्मो उवाच:
तमोनिचय़पङ्कं च रजोवेगप्रवर्तकम् ||
५ ख
व्रह्मो उवाच:
सत्त्वालङ्कारदीप्तं च गुणसङ्घातमण्डलम् |
६ क
व्रह्मो उवाच:
स्वरविग्रहनाभीकं शोकसङ्घातवर्तनम् ||
६ ख
व्रह्मो उवाच:
क्रिय़ाकारणसंय़ुक्तं रागविस्तारमाय़तम् |
७ क
व्रह्मो उवाच:
लोभेप्सापरिसङ्ख्यातं विविक्तज्ञानसम्भवम् ||
७ ख
व्रह्मो उवाच:
भय़मोहपरीवारं भूतसंमोहकारकम् |
८ क
व्रह्मो उवाच:
आनन्दप्रीतिधारं च कामक्रोधपरिग्रहम् ||
८ ख
व्रह्मो उवाच:
महदादिविशेषान्तमसक्तप्रभवाव्ययम् |
९ क
व्रह्मो उवाच:
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ||
९ ख
व्रह्मो उवाच:
एतद्द्वन्द्वसमाय़ुक्तं कालचक्रमचेतनम् |
१० क
व्रह्मो उवाच:
विसृजेत्सङ्क्षिपेच्चापि वोधय़ेत्सामरं जगत् ||
१० ख
व्रह्मो उवाच:
कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः |
११ क
व्रह्मो उवाच:
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ||
११ ख
व्रह्मो उवाच:
विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः |
१२ क
व्रह्मो उवाच:
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ||
१२ ख
व्रह्मो उवाच:
गृहस्थो व्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः |
१३ क
व्रह्मो उवाच:
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ||
१३ ख
व्रह्मो उवाच:
यः कश्चिदिह लोके च ह्यागमः सम्प्रकीर्तितः |
१४ क
व्रह्मो उवाच:
तस्यान्तगमनं श्रेय़ः कीर्तिरेषा सनातनी ||
१४ ख
व्रह्मो उवाच:
संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः |
१५ क
व्रह्मो उवाच:
जातौ गुणविशिष्टाय़ां समावर्तेत वेदवित् ||
१५ ख
व्रह्मो उवाच:
स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रिय़ः |
१६ क
व्रह्मो उवाच:
पञ्चभिश्च महाय़ज्ञैः श्रद्दधानो यजेत ह ||
१६ ख
व्रह्मो उवाच:
देवतातिथिशिष्टाशी निरतो वेदकर्मसु |
१७ क
व्रह्मो उवाच:
इज्याप्रदानय़ुक्तश्च यथाशक्ति यथाविधि ||
१७ ख
व्रह्मो उवाच:
न पाणिपादचपलो न नेत्रचपलो मुनिः |
१८ क
व्रह्मो उवाच:
न च वागङ्गचपल इति शिष्टस्य गोचरः ||
१८ ख
व्रह्मो उवाच:
नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः |
१९ क
व्रह्मो उवाच:
निय़तो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ||
१९ ख
व्रह्मो उवाच:
जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः |
२० क
व्रह्मो उवाच:
वैणवीं धारय़ेद्यष्टिं सोदकं च कमण्डलुम् ||
२० ख
व्रह्मो उवाच:
अधीत्याध्यापनं कुर्यात्तथा यजनय़ाजने |
२१ क
व्रह्मो उवाच:
दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ||
२१ ख
व्रह्मो उवाच:
त्रीणि कर्माणि यानीह व्राह्मणानां तु जीविका |
२२ क
व्रह्मो उवाच:
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ||
२२ ख
व्रह्मो उवाच:
अवशेषाणि चान्यानि त्रीणि कर्माणि यानि तु |
२३ क
व्रह्मो उवाच:
दानमध्ययनं यज्ञो धर्मय़ुक्तानि तानि तु ||
२३ ख
व्रह्मो उवाच:
तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् |
२४ क
व्रह्मो उवाच:
दान्तो मैत्रः क्षमाय़ुक्तः सर्वभूतसमो मुनिः ||
२४ ख
व्रह्मो उवाच:
सर्वमेतद्यथाशक्ति विप्रो निर्वर्तय़ञ्शुचिः |
२५ क
व्रह्मो उवाच:
एवं युक्तो जय़ेत्स्वर्गं गृहस्थः संशितव्रतः ||
२५ ख