chevron_left आश्रमवासिक पर्व अध्याय ४५
वैशम्पाय़न उवाच:
द्विवर्षोपनिवृत्तेषु पाण्डवेषु यदृच्छय़ा |
१ क
वैशम्पाय़न उवाच:
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ||
१ ख
वैशम्पाय़न उवाच:
तमभ्यर्च्य महावाहुः कुरुराजो युधिष्ठिरः |
२ क
वैशम्पाय़न उवाच:
आसीनं परिविश्वस्तं प्रोवाच वदतां वरः ||
२ ख
वैशम्पाय़न उवाच:
चिरस्य खलु पश्यामि भगवन्तमुपस्थितम् |
३ क
वैशम्पाय़न उवाच:
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ||
३ ख
वैशम्पाय़न उवाच:
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते |
४ क
वैशम्पाय़न उवाच:
तद्व्रूहि द्विजमुख्य त्वमस्माकं च प्रिय़ोऽतिथिः ||
४ ख
नारद उवाच:
चिरदृष्टोऽसि मे राजन्नागतोऽस्मि तपोवनात् |
५ क
नारद उवाच:
परिदृष्टानि तीर्थानि गङ्गा चैव मय़ा नृप ||
५ ख
युधिष्ठिर उवाच:
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः |
६ क
युधिष्ठिर उवाच:
धृतराष्ट्रं महात्मानमास्थितं परमं तपः ||
६ ख
युधिष्ठिर उवाच:
अपि दृष्टस्त्वय़ा तत्र कुशली स कुरूद्वहः |
७ क
युधिष्ठिर उवाच:
गान्धारी च पृथा चैव सूतपुत्रश्च सञ्जय़ः ||
७ ख
युधिष्ठिर उवाच:
कथं च वर्तते चाद्य पिता मम स पार्थिवः |
८ क
युधिष्ठिर उवाच:
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वय़ा नृपः ||
८ ख
नारद उवाच:
स्थिरीभूय़ महाराज शृणु सर्वं यथातथम् |
९ क
नारद उवाच:
यथा श्रुतं च दृष्टं च मय़ा तस्मिंस्तपोवने ||
९ ख
नारद उवाच:
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन |
१० क
नारद उवाच:
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं यय़ौ नृप ||
१० ख
नारद उवाच:
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः |
११ क
नारद उवाच:
सञ्जय़ेन च सूतेन साग्निहोत्रः सय़ाजकः ||
११ ख
नारद उवाच:
आतस्थे स तपस्तीव्रं पिता तव तपोधनः |
१२ क
नारद उवाच:
वीटां मुखे समाधाय़ वाय़ुभक्षोऽभवन्मुनिः ||
१२ ख
नारद उवाच:
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः |
१३ क
नारद उवाच:
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ||
१३ ख
नारद उवाच:
गान्धारी तु जलाहारा कुन्ती मासोपवासिनी |
१४ क
नारद उवाच:
सञ्जय़ः षष्ठभक्तेन वर्तय़ामास भारत ||
१४ ख
नारद उवाच:
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो |
१५ क
नारद उवाच:
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य ह ||
१५ ख
नारद उवाच:
अनिकेतोऽथ राजा स वभूव वनगोचरः |
१६ क
नारद उवाच:
ते चापि सहिते देव्यौ सञ्जय़श्च तमन्वय़ुः ||
१६ ख
नारद उवाच:
सञ्जय़ो नृपतेर्नेता समेषु विषमेषु च |
१७ क
नारद उवाच:
गान्धार्यास्तु पृथा राजंश्चक्षुरासीदनिन्दिता ||
१७ ख
नारद उवाच:
ततः कदाचिद्गङ्गाय़ाः कच्छे स नृपसत्तमः |
१८ क
नारद उवाच:
गङ्गाय़ामाप्लुतो धीमानाश्रमाभिमुखोऽभवत् ||
१८ ख
नारद उवाच:
अथ वाय़ुः समुद्भूतो दावाग्निरभवन्महान् |
१९ क
नारद उवाच:
ददाह तद्वनं सर्वं परिगृह्य समन्ततः ||
१९ ख
नारद उवाच:
दह्यत्सु मृगय़ूथेषु द्विजिह्वेषु समन्ततः |
२० क
नारद उवाच:
वराहाणां च यूथेषु संश्रय़त्सु जलाशय़ान् ||
२० ख
नारद उवाच:
समाविद्धे वने तस्मिन्प्राप्ते व्यसन उत्तमे |
२१ क
नारद उवाच:
निराहारतय़ा राजा मन्दप्राणविचेष्टितः |
२१ ख
नारद उवाच:
असमर्थोऽपसरणे सुकृशौ मातरौ च ते ||
२१ ग
नारद उवाच:
ततः स नृपतिर्दृष्ट्वा वह्निमाय़ान्तमन्तिकात् |
२२ क
नारद उवाच:
इदमाह ततः सूतं सञ्जय़ं पृथिवीपते ||
२२ ख
नारद उवाच:
गच्छ सञ्जय़ यत्राग्निर्न त्वां दहति कर्हिचित् |
२३ क
नारद उवाच:
वय़मत्राग्निना युक्ता गमिष्यामः परां गतिम् ||
२३ ख
नारद उवाच:
तमुवाच किलोद्विग्नः सञ्जय़ो वदतां वरः |
२४ क
नारद उवाच:
राजन्मृत्युरनिष्टोऽय़ं भविता ते वृथाग्निना ||
२४ ख
नारद उवाच:
न चोपाय़ं प्रपश्यामि मोक्षणे जातवेदसः |
२५ क
नारद उवाच:
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ||
२५ ख
नारद उवाच:
इत्युक्तः सञ्जय़ेनेदं पुनराह स पार्थिवः |
२६ क
नारद उवाच:
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वय़म् ||
२६ ख
नारद उवाच:
जलमग्निस्तथा वाय़ुरथ वापि विकर्शनम् |
२७ क
नारद उवाच:
तापसानां प्रशस्यन्ते गच्छ सञ्जय़ माचिरम् ||
२७ ख
नारद उवाच:
इत्युक्त्वा सञ्जय़ं राजा समाधाय़ मनस्तदा |
२८ क
नारद उवाच:
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ||
२८ ख
नारद उवाच:
सञ्जय़स्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् |
२९ क
नारद उवाच:
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ||
२९ ख
नारद उवाच:
ऋषिपुत्रो मनीषी स राजा चक्रेऽस्य तद्वचः |
३० क
नारद उवाच:
संनिरुध्येन्द्रिय़ग्राममासीत्काष्ठोपमस्तदा ||
३० ख
नारद उवाच:
गान्धारी च महाभागा जननी च पृथा तव |
३१ क
नारद उवाच:
दावाग्निना समाय़ुक्ते स च राजा पिता तव ||
३१ ख
नारद उवाच:
सञ्जय़स्तु महामात्रस्तस्माद्दावादमुच्यत |
३२ क
नारद उवाच:
गङ्गाकूले मय़ा दृष्टस्तापसैः परिवारितः ||
३२ ख
नारद उवाच:
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः |
३३ क
नारद उवाच:
प्रय़यौ सञ्जय़ः सूतो हिमवन्तं महीधरम् ||
३३ ख
नारद उवाच:
एवं स निधनं प्राप्तः कुरुराजो महामनाः |
३४ क
नारद उवाच:
गान्धारी च पृथा चैव जनन्यौ ते नराधिप ||
३४ ख
नारद उवाच:
यदृच्छय़ानुव्रजता मय़ा राज्ञः कलेवरम् |
३५ क
नारद उवाच:
तय़ोश्च देव्योरुभय़ोर्दृष्टानि भरतर्षभ ||
३५ ख
नारद उवाच:
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः |
३६ क
नारद उवाच:
श्रुत्वा राज्ञस्तथा निष्ठां न त्वशोचन्गतिं च ते ||
३६ ख
नारद उवाच:
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम |
३७ क
नारद उवाच:
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ||
३७ ख
नारद उवाच:
न शोचितव्यं राजेन्द्र स्वन्तः स पृथिवीपतिः |
३८ क
नारद उवाच:
प्राप्तवानग्निसंय़ोगं गान्धारी जननी च ते ||
३८ ख
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा तु सर्वेषां पाण्डवानां महात्मनाम् |
३९ क
वैशम्पाय़न उवाच:
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ||
३९ ख
वैशम्पाय़न उवाच:
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् |
४० क
वैशम्पाय़न उवाच:
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ||
४० ख
वैशम्पाय़न उवाच:
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः |
४१ क
वैशम्पाय़न उवाच:
ऊर्ध्ववाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः |
४१ ख
वैशम्पाय़न उवाच:
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ||
४१ ग
वैशम्पाय़न उवाच:
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः |
४२ क
वैशम्पाय़न उवाच:
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ||
४२ ख
वैशम्पाय़न उवाच:
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् |
४३ क
वैशम्पाय़न उवाच:
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ||
४३ ख
वैशम्पाय़न उवाच:
तस्मिन्नुपरते शव्दे मुहूर्तादिव भारत |
४४ क
वैशम्पाय़न उवाच:
निगृह्य वाष्पं धैर्येण धर्मराजोऽव्रवीदिदम् ||
४४ ख