chevron_left विराट पर्व अध्याय ४५
अश्वत्थामो उवाच:
न च तावज्जिता गावो न च सीमान्तरं गताः |
१ क
अश्वत्थामो उवाच:
न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ||
१ ख
अश्वत्थामो उवाच:
सङ्ग्रामान्सुवहूञ्जित्वा लव्ध्वा च विपुलं धनम् |
२ क
अश्वत्थामो उवाच:
विजित्य च परां भूमिं नाहुः किञ्चन पौरुषम् ||
२ ख
अश्वत्थामो उवाच:
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः |
३ क
अश्वत्थामो उवाच:
तूष्णीं धारय़ते लोकान्वसुधा सचराचरान् ||
३ ख
अश्वत्थामो उवाच:
चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः |
४ क
अश्वत्थामो उवाच:
धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ||
४ ख
अश्वत्थामो उवाच:
अधीत्य व्राह्मणो वेदान्याजय़ेत यजेत च |
५ क
अश्वत्थामो उवाच:
क्षत्रिय़ो धनुराश्रित्य यजेतैव न याजय़ेत् |
५ ख
अश्वत्थामो उवाच:
वैश्योऽधिगम्य द्रव्याणि व्रह्मकर्माणि कारय़ेत् ||
५ ग
अश्वत्थामो उवाच:
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् |
६ क
अश्वत्थामो उवाच:
सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि ||
६ ख
अश्वत्थामो उवाच:
प्राप्य द्यूतेन को राज्यं क्षत्रिय़स्तोष्टुमर्हति |
७ क
अश्वत्थामो उवाच:
तथा नृशंसरूपेण यथान्यः प्राकृतो जनः ||
७ ख
अश्वत्थामो उवाच:
तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः |
८ क
अश्वत्थामो उवाच:
निकृत्या वञ्चनाय़ोगैश्चरन्वैतंसिको यथा ||
८ ख
अश्वत्थामो उवाच:
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जय़म् |
९ क
अश्वत्थामो उवाच:
नकुलं सहदेवं च धनं येषां त्वय़ा हृतम् ||
९ ख
अश्वत्थामो उवाच:
युधिष्ठिरो जितः कस्मिन्भीमश्च वलिनां वरः |
१० क
अश्वत्थामो उवाच:
इन्द्रप्रस्थं त्वय़ा कस्मिन्सङ्ग्रामे निर्जितं पुरा ||
१० ख
अश्वत्थामो उवाच:
तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वय़ा |
११ क
अश्वत्थामो उवाच:
एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला ||
११ ख
अश्वत्थामो उवाच:
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा |
१२ क
अश्वत्थामो उवाच:
कर्म कारय़िथाः शूर तत्र किं विदुरोऽव्रवीत् ||
१२ ख
अश्वत्थामो उवाच:
यथाशक्ति मनुष्याणां शममालक्षय़ामहे |
१३ क
अश्वत्थामो उवाच:
अन्येषां चैव सत्त्वानामपि कीटपिपीलिके ||
१३ ख
अश्वत्थामो उवाच:
द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति |
१४ क
अश्वत्थामो उवाच:
दुःखाय़ धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जय़ः ||
१४ ख
अश्वत्थामो उवाच:
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि |
१५ क
अश्वत्थामो उवाच:
वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ||
१५ ख
अश्वत्थामो उवाच:
नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् |
१६ क
अश्वत्थामो उवाच:
भय़ादिह न युध्येत कुन्तीपुत्रो धनञ्जय़ः ||
१६ ख
अश्वत्थामो उवाच:
यं यमेषोऽभिसङ्क्रुद्धः सङ्ग्रामेऽभिपतिष्यति |
१७ क
अश्वत्थामो उवाच:
वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ||
१७ ख
अश्वत्थामो उवाच:
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् |
१८ क
अश्वत्थामो उवाच:
वासुदेवसमं युद्धे तं पार्थं को न पूजय़ेत् ||
१८ ख
अश्वत्थामो उवाच:
दैवं दैवेन युध्येत मानुषेण च मानुषम् |
१९ क
अश्वत्थामो उवाच:
अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् ||
१९ ख
अश्वत्थामो उवाच:
पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः |
२० क
अश्वत्थामो उवाच:
एतेनापि निमित्तेन प्रिय़ो द्रोणस्य पाण्डवः ||
२० ख
अश्वत्थामो उवाच:
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः |
२१ क
अश्वत्थामो उवाच:
यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ||
२१ ख
अश्वत्थामो उवाच:
अय़ं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः |
२२ क
अश्वत्थामो उवाच:
दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ||
२२ ख
अश्वत्थामो उवाच:
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च |
२३ क
अश्वत्थामो उवाच:
ज्वलतो निशितान्वाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् ||
२३ ख
अश्वत्थामो उवाच:
न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः |
२४ क
अश्वत्थामो उवाच:
अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः ||
२४ ख
अश्वत्थामो उवाच:
अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः |
२५ क
अश्वत्थामो उवाच:
कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जय़ः ||
२५ ख
अश्वत्थामो उवाच:
युध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जय़म् |
२६ क
अश्वत्थामो उवाच:
मत्स्यो ह्यस्माभिराय़ोध्यो यद्यागच्छेद्गवां पदम् ||
२६ ख