सनत्सुजात उवाच:
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः |
१ क
सनत्सुजात उवाच:
तद्वै देवा उपासन्ते यस्मादर्को विराजते |
१ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१ ग
सनत्सुजात उवाच:
शुक्राद्व्रह्म प्रभवति व्रह्म शुक्रेण वर्धते |
२ क
सनत्सुजात उवाच:
तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् |
२ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
२ ग
सनत्सुजात उवाच:
आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रिय़ातेऽन्तरिक्षे |
३ क
सनत्सुजात उवाच:
स सध्रीचीः स विषूचीर्वसाना; उभे विभर्ति पृथिवीं दिवं च |
३ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
३ ग
सनत्सुजात उवाच:
उभौ च देवौ पृथिवीं दिवं च; दिशश्च शुक्रं भुवनं विभर्ति |
४ क
सनत्सुजात उवाच:
तस्माद्दिशः सरितश्च स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः |
४ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
४ ग
सनत्सुजात उवाच:
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः |
५ क
सनत्सुजात उवाच:
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि |
५ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
५ ग
सनत्सुजात उवाच:
न सादृश्ये तिष्ठति रूपमस्य; न चक्षुषा पश्यति कश्चिदेनम् |
६ क
सनत्सुजात उवाच:
मनीषय़ाथो मनसा हृदा च; य एवं विदुरमृतास्ते भवन्ति |
६ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
६ ग
सनत्सुजात उवाच:
द्वादशपूगां सरितं देवरक्षितम् |
७ क
सनत्सुजात उवाच:
मधु ईशन्तस्तदा सञ्चरन्ति घोरम् |
७ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
७ ग
सनत्सुजात उवाच:
तदर्धमासं पिवति सञ्चित्य भ्रमरो मधु |
८ क
सनत्सुजात उवाच:
ईशानः सर्वभूतेषु हविर्भूतमकल्पय़त् |
८ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
८ ग
सनत्सुजात उवाच:
हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः |
९ क
सनत्सुजात उवाच:
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् |
९ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
९ ग
सनत्सुजात उवाच:
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे |
१० क
सनत्सुजात उवाच:
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते |
१० ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१० ग
सनत्सुजात उवाच:
तस्माद्वै वाय़ुराय़ातस्तस्मिंश्च प्रय़तः सदा |
११ क
सनत्सुजात उवाच:
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ||
११ ख
सनत्सुजात उवाच:
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः |
१२ क
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१२ ख
सनत्सुजात उवाच:
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः |
१३ क
सनत्सुजात उवाच:
आदित्यो गिरते चन्द्रमादित्यं गिरते परः |
१३ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१३ ग
सनत्सुजात उवाच:
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् |
१४ क
सनत्सुजात उवाच:
तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् |
१४ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१४ ग
सनत्सुजात उवाच:
एवं देवो महात्मा स पावकं पुरुषो गिरन् |
१५ क
सनत्सुजात उवाच:
यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते |
१५ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१५ ग
सनत्सुजात उवाच:
यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत् |
१६ क
सनत्सुजात उवाच:
मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः |
१६ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१६ ग
सनत्सुजात उवाच:
न दर्शने तिष्ठति रूपमस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः |
१७ क
सनत्सुजात उवाच:
हितो मनीषी मनसाभिपश्ये; द्ये तं श्रय़ेय़ुरमृतास्ते भवन्ति |
१७ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१७ ग
सनत्सुजात उवाच:
गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षय़ा स्वेन वृत्तेन मर्त्याः |
१८ क
सनत्सुजात उवाच:
तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहय़न्ते भय़ाय़ |
१८ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१८ ग
सनत्सुजात उवाच:
सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः |
१९ क
सनत्सुजात उवाच:
सत्यानृते सत्यसमानवन्धने; सतश्च योनिरसतश्चैक एव |
१९ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
१९ ग
सनत्सुजात उवाच:
न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु |
२० क
सनत्सुजात उवाच:
समानमेतदमृतस्य विद्या; देवंय़ुक्तो मधु तद्वै परीप्सेत् |
२० ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
२० ग
सनत्सुजात उवाच:
नास्यातिवादा हृदय़ं तापय़न्ति; नानधीतं नाहुतमग्निहोत्रम् |
२१ क
सनत्सुजात उवाच:
मनो व्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते |
२१ ख
सनत्सुजात उवाच:
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ||
२१ ग
सनत्सुजात उवाच:
एवं यः सर्वभूतेषु आत्मानमनुपश्यति |
२२ क
सनत्सुजात उवाच:
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ||
२२ ख
सनत्सुजात उवाच:
यथोदपाने महति सर्वतः सम्प्लुतोदके |
२३ क
सनत्सुजात उवाच:
एवं सर्वेषु वेदेषु व्राह्मणस्य विजानतः ||
२३ ख
सनत्सुजात उवाच:
अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदय़े निविष्टः |
२४ क
सनत्सुजात उवाच:
अजश्चरो दिवारात्रमतन्द्रितश्च; स तं मत्वा कविरास्ते प्रसन्नः ||
२४ ख
सनत्सुजात उवाच:
अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः |
२५ क
सनत्सुजात उवाच:
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ||
२५ ख
सनत्सुजात उवाच:
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत |
२६ क
सनत्सुजात उवाच:
ममैव यूय़मात्मस्था न मे यूय़ं न वोऽप्यहम् ||
२६ ख
सनत्सुजात उवाच:
आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः |
२८ क
सनत्सुजात उवाच:
अणोरणीय़ान्सुमनाः सर्वभूतेषु जागृमि |
२८ ख
सनत्सुजात उवाच:
पितरं सर्वभूतानां पुष्करे निहितं विदुः ||
२८ ग