chevron_left भीष्म पर्व अध्याय ४५
सञ्जय़ उवाच:
गतपूर्वाह्णभूय़िष्ठे तस्मिन्नहनि दारुणे |
१ क
सञ्जय़ उवाच:
वर्तमाने महारौद्रे महावीरवरक्षय़े ||
१ ख
सञ्जय़ उवाच:
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः |
२ क
सञ्जय़ उवाच:
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ||
२ ख
सञ्जय़ उवाच:
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ |
३ क
सञ्जय़ उवाच:
पाण्डवानामनीकानि विजगाहे महारथः ||
३ ख
सञ्जय़ उवाच:
चेदिकाशिकरूषेषु पाञ्चालेषु च भारत |
४ क
सञ्जय़ उवाच:
भीष्मस्य वहुधा तालश्चरन्केतुरदृश्यत ||
४ ख
सञ्जय़ उवाच:
शिरांसि च तदा भीष्मो वाहूंश्चापि सहाय़ुधान् |
५ क
सञ्जय़ उवाच:
निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ||
५ ख
सञ्जय़ उवाच:
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ |
६ क
सञ्जय़ उवाच:
केचिदार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ||
६ ख
सञ्जय़ उवाच:
अभिमन्युः सुसङ्क्रुद्धः पिशङ्गैस्तुरगोत्तमैः |
७ क
सञ्जय़ उवाच:
संय़ुक्तं रथमास्थाय़ प्राय़ाद्भीष्मरथं प्रति ||
७ ख
सञ्जय़ उवाच:
जाम्वूनदविचित्रेण कर्णिकारेण केतुना |
८ क
सञ्जय़ उवाच:
अभ्यवर्षत भीष्मं च तांश्चैव रथसत्तमान् ||
८ ख
सञ्जय़ उवाच:
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा |
९ क
सञ्जय़ उवाच:
भीष्मेण युय़ुधे वीरस्तस्य चानुचरैः सह ||
९ ख
सञ्जय़ उवाच:
कृतवर्माणमेकेन शल्यं पञ्चभिराय़सैः |
१० क
सञ्जय़ उवाच:
विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ||
१० ख
सञ्जय़ उवाच:
पूर्णाय़तविसृष्टेन सम्यक्प्रणिहितेन च |
११ क
सञ्जय़ उवाच:
ध्वजमेकेन विव्याध जाम्वूनदविभूषितम् ||
११ ख
सञ्जय़ उवाच:
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना |
१२ क
सञ्जय़ उवाच:
जहार सारथेः काय़ाच्छिरः संनतपर्वणा ||
१२ ख
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् |
१३ क
सञ्जय़ उवाच:
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ||
१३ ख
सञ्जय़ उवाच:
जघान परमक्रुद्धो नृत्यन्निव महारथः |
१४ क
सञ्जय़ उवाच:
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ||
१४ ख
सञ्जय़ उवाच:
लव्धलक्ष्यतय़ा कर्ष्णेः सर्वे भीष्ममुखा रथाः |
१५ क
सञ्जय़ उवाच:
सत्त्ववन्तममन्यन्त साक्षादिव धनञ्जय़म् ||
१५ ख
सञ्जय़ उवाच:
तस्य लाघवमार्गस्थमलातसदृशप्रभम् |
१६ क
सञ्जय़ उवाच:
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ||
१६ ख
सञ्जय़ उवाच:
तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः |
१७ क
सञ्जय़ उवाच:
विव्याध समरे तूर्णमार्जुनिं परवीरहा ||
१७ ख
सञ्जय़ उवाच:
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः |
१८ क
सञ्जय़ उवाच:
सारथिं च त्रिभिर्वाणैराजघान यतव्रतः ||
१८ ख
सञ्जय़ उवाच:
तथैव कृतवर्मा च कृपः शल्यश्च मारिष |
१९ क
सञ्जय़ उवाच:
विद्ध्वा नाकम्पय़त्कार्ष्णिं मैनाकमिव पर्वतम् ||
१९ ख
सञ्जय़ उवाच:
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः |
२० क
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ||
२० ख
सञ्जय़ उवाच:
ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः |
२१ क
सञ्जय़ उवाच:
ननाद वलवान्कार्ष्णिर्भीष्माय़ विसृजञ्शरान् ||
२१ ख
सञ्जय़ उवाच:
तत्रास्य सुमहद्राजन्वाह्वोर्वलमदृश्यत |
२२ क
सञ्जय़ उवाच:
यतमानस्य समरे भीष्ममर्दय़तः शरैः ||
२२ ख
सञ्जय़ उवाच:
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् |
२३ क
सञ्जय़ उवाच:
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ||
२३ ख
सञ्जय़ उवाच:
ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः |
२४ क
सञ्जय़ उवाच:
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ||
२४ ख
सञ्जय़ उवाच:
स राजतो महास्कन्धस्तालो हेमविभूषितः |
२५ क
सञ्जय़ उवाच:
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ||
२५ ख
सञ्जय़ उवाच:
ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ |
२६ क
सञ्जय़ उवाच:
दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षय़न् ||
२६ ख
सञ्जय़ उवाच:
अथ भीष्मो महास्त्राणि दिव्यानि च वहूनि च |
२७ क
सञ्जय़ उवाच:
प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महावलः ||
२७ ख
सञ्जय़ उवाच:
ततः शतसहस्रेण सौभद्रं प्रपितामहः |
२८ क
सञ्जय़ उवाच:
अवाकिरदमेय़ात्मा शराणां नतपर्वणाम् ||
२८ ख
सञ्जय़ उवाच:
ततो दश महेष्वासाः पाण्डवानां महारथाः |
२९ क
सञ्जय़ उवाच:
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ||
२९ ख
सञ्जय़ उवाच:
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः |
३० क
सञ्जय़ उवाच:
भीमश्च केकय़ाश्चैव सात्यकिश्च विशां पते ||
३० ख
सञ्जय़ उवाच:
जवेनापततां तेषां भीष्मः शान्तनवो रणे |
३१ क
सञ्जय़ उवाच:
पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ||
३१ ख
सञ्जय़ उवाच:
पूर्णाय़तविसृष्टेन क्षुरेण निशितेन च |
३२ क
सञ्जय़ उवाच:
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ||
३२ ख
सञ्जय़ उवाच:
जाम्वूनदमय़ः केतुः केसरी नरसत्तम |
३३ क
सञ्जय़ उवाच:
पपात भीमसेनस्य भीष्मेण मथितो रथात् ||
३३ ख
सञ्जय़ उवाच:
भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे |
३४ क
सञ्जय़ उवाच:
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ||
३४ ख
सञ्जय़ उवाच:
प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना |
३५ क
सञ्जय़ उवाच:
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ||
३५ ख
सञ्जय़ उवाच:
तस्य वारणराजस्य जवेनापततो रथी |
३६ क
सञ्जय़ उवाच:
शल्यो निवारय़ामास वेगमप्रतिमं रणे ||
३६ ख
सञ्जय़ उवाच:
तस्य क्रुद्धः स नागेन्द्रो वृहतः साधुवाहिनः |
३७ क
सञ्जय़ उवाच:
पदा युगमधिष्ठाय़ जघान चतुरो हय़ान् ||
३७ ख
सञ्जय़ उवाच:
स हताश्वे रथे तिष्ठन्मद्राधिपतिराय़सीम् |
३८ क
सञ्जय़ उवाच:
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ||
३८ ख
सञ्जय़ उवाच:
तय़ा भिन्नतनुत्राणः प्रविश्य विपुलं तमः |
३९ क
सञ्जय़ उवाच:
स पपात गजस्कन्धात्प्रमुक्ताङ्कुशतोमरः ||
३९ ख
सञ्जय़ उवाच:
समादाय़ च शल्योऽसिमवप्लुत्य रथोत्तमात् |
४० क
सञ्जय़ उवाच:
वारणेन्द्रस्य विक्रम्य चिच्छेदाथ महाकरम् ||
४० ख
सञ्जय़ उवाच:
भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः |
४१ क
सञ्जय़ उवाच:
भीममार्तस्वरं कृत्वा पपात च ममार च ||
४१ ख
सञ्जय़ उवाच:
एतदीदृशकं कृत्वा मद्रराजो महारथः |
४२ क
सञ्जय़ उवाच:
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ||
४२ ख
सञ्जय़ उवाच:
उत्तरं निहतं दृष्ट्वा वैराटिर्भ्रातरं शुभम् |
४३ क
सञ्जय़ उवाच:
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् |
४३ ख
सञ्जय़ उवाच:
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ||
४३ ग
सञ्जय़ उवाच:
स विस्फार्य महच्चापं कार्तस्वरविभूषितम् |
४४ क
सञ्जय़ उवाच:
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं वली ||
४४ ख
सञ्जय़ उवाच:
महता रथवंशेन समन्तात्परिवारितः |
४५ क
सञ्जय़ उवाच:
सृजन्वाणमय़ं वर्षं प्राय़ाच्छल्यरथं प्रति ||
४५ ख
सञ्जय़ उवाच:
तमापतन्तं सम्प्रेक्ष्य मत्तवारणविक्रमम् |
४६ क
सञ्जय़ उवाच:
तावकानां रथाः सप्त समन्तात्पर्यवारय़न् |
४६ ख
सञ्जय़ उवाच:
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ||
४६ ग
सञ्जय़ उवाच:
ततो भीष्मो महावाहुर्विनद्य जलदो यथा |
४७ क
सञ्जय़ उवाच:
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ||
४७ ख
सञ्जय़ उवाच:
तमुद्यतमुदीक्ष्याथ महेष्वासं महावलम् |
४८ क
सञ्जय़ उवाच:
सन्त्रस्ता पाण्डवी सेना वातवेगहतेव नौः ||
४८ ख
सञ्जय़ उवाच:
तत्रार्जुनः सन्त्वरितः शङ्खस्यासीत्पुरःसरः |
४९ क
सञ्जय़ उवाच:
भीष्माद्रक्ष्योऽय़मद्येति ततो युद्धमवर्तत ||
४९ ख