chevron_left द्रोण पर्व अध्याय ४५
धृतराष्ट्र उवाच:
यथा वदसि मे सूत एकस्य वहुभिः सह |
१ क
धृतराष्ट्र उवाच:
सङ्ग्रामं तुमुलं घोरं जय़ं चैव महात्मनः ||
१ ख
धृतराष्ट्र उवाच:
अश्रद्धेय़मिवाश्चर्यं सौभद्रस्याथ विक्रमम् |
२ क
धृतराष्ट्र उवाच:
किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रय़ः ||
२ ख
धृतराष्ट्र उवाच:
दुर्योधनेऽथ विमुखे राजपुत्रशते हते |
३ क
धृतराष्ट्र उवाच:
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ||
३ ख
सञ्जय़ उवाच:
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः |
४ क
सञ्जय़ उवाच:
पलाय़नकृतोत्साहा निरुत्साहा द्विषज्जय़े ||
४ ख
सञ्जय़ उवाच:
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्वन्धिवान्धवान् |
५ क
सञ्जय़ उवाच:
उत्सृज्योत्सृज्य समिय़ुस्त्वरय़न्तो हय़द्विपान् ||
५ ख
सञ्जय़ उवाच:
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्वृहद्वलः |
६ क
सञ्जय़ उवाच:
कृपो दुर्योधनः कर्णः कृतवर्माथ सौवलः ||
६ ख
सञ्जय़ उवाच:
अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम् |
७ क
सञ्जय़ उवाच:
तेऽपि पौत्रेण ते राजन्प्राय़शो विमुखीकृताः ||
७ ख
सञ्जय़ उवाच:
एकस्तु सुखसंवृद्धो वाल्याद्दर्पाच्च निर्भय़ः |
८ क
सञ्जय़ उवाच:
इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् ||
८ ख
सञ्जय़ उवाच:
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत |
९ क
सञ्जय़ उवाच:
अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः ||
९ ख
सञ्जय़ उवाच:
तं तेऽभिषिषिचुर्वाणैर्मेघा गिरिमिवाम्वुभिः |
१० क
सञ्जय़ उवाच:
स च तान्प्रममाथैको विष्वग्वातो यथाम्वुदान् ||
१० ख
सञ्जय़ उवाच:
पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रिय़दर्शनम् |
११ क
सञ्जय़ उवाच:
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ||
११ ख
सञ्जय़ उवाच:
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् |
१२ क
सञ्जय़ उवाच:
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् ||
१२ ख
सञ्जय़ उवाच:
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा |
१३ क
सञ्जय़ उवाच:
शरैः सुनिशितैस्तीक्ष्णैर्वाह्वोरुरसि चार्पितः ||
१३ ख
सञ्जय़ उवाच:
सङ्क्रुद्धो वै महावाहुर्दण्डाहत इवोरगः |
१४ क
सञ्जय़ उवाच:
पौत्रस्तव महाराज तव पौत्रमभाषत ||
१४ ख
सञ्जय़ उवाच:
सुदृष्टः क्रिय़तां लोको अमुं लोकं गमिष्यसि |
१५ क
सञ्जय़ उवाच:
पश्यतां वान्धवानां त्वां नय़ामि यमसादनम् ||
१५ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा |
१६ क
सञ्जय़ उवाच:
उद्ववर्ह महावाहुर्निर्मुक्तोरगसंनिभम् ||
१६ ख
सञ्जय़ उवाच:
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् |
१७ क
सञ्जय़ उवाच:
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् |
१७ ख
सञ्जय़ उवाच:
लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः ||
१७ ग
सञ्जय़ उवाच:
ततो दुर्योधनः क्रुद्धः प्रिय़े पुत्रे निपातिते |
१८ क
सञ्जय़ उवाच:
हतैनमिति चुक्रोश क्षत्रिय़ान्क्षत्रिय़र्षभः ||
१८ ख
सञ्जय़ उवाच:
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो वृहद्वलः |
१९ क
सञ्जय़ उवाच:
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारय़न् ||
१९ ख
सञ्जय़ उवाच:
स तान्विद्ध्वा शितैर्वाणैर्विमुखीकृत्य चार्जुनिः |
२० क
सञ्जय़ उवाच:
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्वलम् ||
२० ख
सञ्जय़ उवाच:
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः |
२१ क
सञ्जय़ उवाच:
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् |
२१ ख
सञ्जय़ उवाच:
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशां पते ||
२१ ग
सञ्जय़ उवाच:
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः |
२२ क
सञ्जय़ उवाच:
यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्वरे ||
२२ ख
सञ्जय़ उवाच:
ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् |
२३ क
सञ्जय़ उवाच:
अथेतरे संनिवृत्ताः पुनर्द्रोणमुखा रथाः |
२३ ख
सञ्जय़ उवाच:
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ||
२३ ग
सञ्जय़ उवाच:
तान्निवार्यार्जुनिर्वाणैः क्राथपुत्रमथार्दय़त् |
२४ क
सञ्जय़ उवाच:
शरौघेणाप्रमेय़ेण त्वरमाणो जिघांसय़ा ||
२४ ख
सञ्जय़ उवाच:
सधनुर्वाणकेय़ूरौ वाहू समुकुटं शिरः |
२५ क
सञ्जय़ उवाच:
छत्रं ध्वजं निय़न्तारमश्वांश्चास्य न्यपातय़त् ||
२५ ख
सञ्जय़ उवाच:
कुलशीलश्रुतवलैः कीर्त्या चास्त्रवलेन च |
२६ क
सञ्जय़ उवाच:
युक्ते तस्मिन्हते वीराः प्राय़शो विमुखाभवन् ||
२६ ख