सञ्जय़ उवाच:
द्रौणिस्तु रथवंशेन महता परिवारितः |
१ क
सञ्जय़ उवाच:
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ||
१ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा शूरः शौरिसहाय़वान् |
२ क
सञ्जय़ उवाच:
दधार सहसा पार्थो वेलेव मकरालय़म् ||
२ ख
सञ्जय़ उवाच:
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् |
३ क
सञ्जय़ उवाच:
अर्जुनं वासुदेवं च छादय़ामास पत्रिभिः ||
३ ख
सञ्जय़ उवाच:
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः |
४ क
सञ्जय़ उवाच:
विस्मय़ं परमं गत्वा प्रैक्षन्त कुरवस्तदा ||
४ ख
सञ्जय़ उवाच:
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव |
५ क
सञ्जय़ उवाच:
तदस्त्रं व्राह्मणो युद्धे वारय़ामास भारत ||
५ ख
सञ्जय़ उवाच:
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसय़ा |
६ क
सञ्जय़ उवाच:
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातय़त् ||
६ ख
सञ्जय़ उवाच:
अस्त्रय़ुद्धे ततो राजन्वर्तमाने भय़ावहे |
७ क
सञ्जय़ उवाच:
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ||
७ ख
सञ्जय़ उवाच:
स दिशो विदिशश्चैव छादय़ित्वा विजिह्मगैः |
८ क
सञ्जय़ उवाच:
वासुदेवं त्रिभिर्वाणैरविध्यद्दक्षिणे भुजे ||
८ ख
सञ्जय़ उवाच:
ततोऽर्जुनो हय़ान्हत्वा सर्वांस्तस्य महात्मनः |
९ क
सञ्जय़ उवाच:
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ||
९ ख
सञ्जय़ उवाच:
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः |
१० क
सञ्जय़ उवाच:
हय़ाश्च पर्यधावन्त मुक्तय़ोक्त्रास्ततस्ततः ||
१० ख
सञ्जय़ उवाच:
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः |
११ क
सञ्जय़ उवाच:
अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ||
११ ख
सञ्जय़ उवाच:
ततोऽर्जुनं महाराज द्रौणिराय़म्य पत्रिणा |
१२ क
सञ्जय़ उवाच:
वक्षोदेशे समासाद्य ताडय़ामास संय़ुगे ||
१२ ख
सञ्जय़ उवाच:
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत |
१३ क
सञ्जय़ उवाच:
आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ||
१३ ख
सञ्जय़ उवाच:
तमापतन्तं परिघं कार्तस्वरविभूषितम् |
१४ क
सञ्जय़ उवाच:
द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ||
१४ ख
सञ्जय़ उवाच:
सोऽनेकधापतद्भूमौ भारद्वाजस्य साय़कैः |
१५ क
सञ्जय़ उवाच:
विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ||
१५ ख
सञ्जय़ उवाच:
ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः |
१६ क
सञ्जय़ उवाच:
सारथिं चास्य भल्लेन रथनीडादपाहरत् ||
१६ ख
सञ्जय़ उवाच:
स सङ्गृह्य स्वय़ं वाहान्कृष्णौ प्राच्छादय़च्छरैः |
१७ क
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ||
१७ ख
सञ्जय़ उवाच:
अय़च्छत्तुरगान्यच्च फल्गुनं चाप्ययोधय़त् |
१८ क
सञ्जय़ उवाच:
तदस्य समरे राजन्सर्वे योधा अपूजय़न् ||
१८ ख
सञ्जय़ उवाच:
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः |
१९ क
सञ्जय़ उवाच:
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जय़ः ||
१९ ख
सञ्जय़ उवाच:
प्राद्रवंस्तुरगास्ते तु शरवेगप्रवाधिताः |
२० क
सञ्जय़ उवाच:
ततोऽभून्निनदो भूय़स्तव सैन्यस्य भारत ||
२० ख
सञ्जय़ उवाच:
पाण्डवास्तु जय़ं लव्ध्वा तव सैन्यमुपाद्रवन् |
२१ क
सञ्जय़ उवाच:
समन्तान्निशितान्वाणान्विमुञ्चन्तो जय़ैषिणः ||
२१ ख
सञ्जय़ उवाच:
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः |
२२ क
सञ्जय़ उवाच:
पुनः पुनरथो वीरैरभज्यत जय़ोद्धतैः ||
२२ ख
सञ्जय़ उवाच:
पश्यतां ते महाराज पुत्राणां चित्रय़ोधिनाम् |
२३ क
सञ्जय़ उवाच:
शकुनेः सौवलेय़स्य कर्णस्य च महात्मनः ||
२३ ख
सञ्जय़ उवाच:
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर |
२४ क
सञ्जय़ उवाच:
नावतिष्ठत सङ्ग्रामे ताड्यमाना समन्ततः ||
२४ ख
सञ्जय़ उवाच:
ततो योधैर्महाराज पलाय़द्भिस्ततस्ततः |
२५ क
सञ्जय़ उवाच:
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्वलम् ||
२५ ख
सञ्जय़ उवाच:
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः |
२६ क
सञ्जय़ उवाच:
नावतिष्ठत सा सेना वध्यमाना महात्मभिः ||
२६ ख
सञ्जय़ उवाच:
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः |
२७ क
सञ्जय़ उवाच:
धार्तराष्ट्रवलं दृष्ट्वा द्रवमाणं समन्ततः ||
२७ ख
सञ्जय़ उवाच:
ततो दुर्योधनः कर्णमव्रवीत्प्रणय़ादिव |
२८ क
सञ्जय़ उवाच:
पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ||
२८ ख
सञ्जय़ उवाच:
त्वय़ि तिष्ठति सन्त्रासात्पलाय़ति समन्ततः |
२९ क
सञ्जय़ उवाच:
एतज्ज्ञात्वा महावाहो कुरु प्राप्तमरिन्दम ||
२९ ख
सञ्जय़ उवाच:
सहस्राणि च योधानां त्वामेव पुरुषर्षभ |
३० क
सञ्जय़ उवाच:
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ||
३० ख
सञ्जय़ उवाच:
एतच्छ्रुत्वा तु राधेय़ो दुर्योधनवचो महत् |
३१ क
सञ्जय़ उवाच:
मद्रराजमिदं वाक्यमव्रवीत्सूतनन्दनः ||
३१ ख
सञ्जय़ उवाच:
पश्य मे भुजय़ोर्वीर्यमस्त्राणां च जनेश्वर |
३२ क
सञ्जय़ उवाच:
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह |
३२ ख
सञ्जय़ उवाच:
वाहय़ाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ||
३२ ग
सञ्जय़ उवाच:
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् |
३३ क
सञ्जय़ उवाच:
प्रगृह्य विजय़ं वीरो धनुःश्रेष्ठं पुरातनम् |
३३ ख
सञ्जय़ उवाच:
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ||
३३ ग
सञ्जय़ उवाच:
संनिवार्य च योधान्स्वान्सत्येन शपथेन च |
३४ क
सञ्जय़ उवाच:
प्राय़ोजय़दमेय़ात्मा भार्गवास्त्रं महावलः ||
३४ ख
सञ्जय़ उवाच:
ततो राजन्सहस्राणि प्रय़ुतान्यर्वुदानि च |
३५ क
सञ्जय़ उवाच:
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ||
३५ ख
सञ्जय़ उवाच:
ज्वलितैस्तैर्महाघोरैः कङ्कवर्हिणवाजितैः |
३६ क
सञ्जय़ उवाच:
सञ्छन्ना पाण्डवी सेना न प्राज्ञाय़त किञ्चन ||
३६ ख
सञ्जय़ उवाच:
हाहाकारो महानासीत्पाञ्चालानां विशां पते |
३७ क
सञ्जय़ उवाच:
पीडितानां वलवता भार्गवास्त्रेण संय़ुगे ||
३७ ख
सञ्जय़ उवाच:
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः |
३८ क
सञ्जय़ उवाच:
रथैश्चापि नरव्याघ्र हय़ैश्चापि समन्ततः ||
३८ ख
सञ्जय़ उवाच:
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः |
३९ क
सञ्जय़ उवाच:
व्याकुलं सर्वमभवत्पाण्डवानां महद्वलम् ||
३९ ख
सञ्जय़ उवाच:
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः |
४० क
सञ्जय़ उवाच:
दहञ्शत्रून्नरव्याघ्र शुशुभे स परन्तपः ||
४० ख
सञ्जय़ उवाच:
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह |
४१ क
सञ्जय़ उवाच:
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः |
४१ ख
सञ्जय़ उवाच:
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ||
४१ ग
सञ्जय़ उवाच:
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि |
४२ क
सञ्जय़ उवाच:
धावतां च दिशो राजन्वित्रस्तानां समन्ततः |
४२ ख
सञ्जय़ उवाच:
आर्तनादो महांस्तत्र प्रेतानामिव सम्प्लवे ||
४२ ग
सञ्जय़ उवाच:
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष |
४३ क
सञ्जय़ उवाच:
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ||
४३ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जय़ाः |
४४ क
सञ्जय़ उवाच:
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः |
४४ ख
सञ्जय़ उवाच:
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ||
४४ ग
सञ्जय़ उवाच:
अथाव्रवीद्वासुदेवं कुन्तीपुत्रो धनञ्जय़ः |
४५ क
सञ्जय़ उवाच:
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ||
४५ ख
सञ्जय़ उवाच:
पश्य कृष्ण महावाहो भार्गवास्त्रस्य विक्रमम् |
४६ क
सञ्जय़ उवाच:
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन ||
४६ ख
सञ्जय़ उवाच:
सूतपुत्रं च संरव्धं पश्य कृष्ण महारणे |
४७ क
सञ्जय़ उवाच:
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ||
४७ ख
सञ्जय़ उवाच:
सुतीक्ष्णं चोदय़न्नश्वान्प्रेक्षते मां मुहुर्मुहुः |
४८ क