वैशम्पाय़न उवाच:
एवमुक्त्वा यय़ौ व्यासो धृतराष्ट्राय़ धीमते |
१ क
वैशम्पाय़न उवाच:
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ||
१ ख
वैशम्पाय़न उवाच:
स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः |
२ क
वैशम्पाय़न उवाच:
सञ्जय़ं संशितात्मानमपृच्छद्भरतर्षभ ||
२ ख
वैशम्पाय़न उवाच:
सञ्जय़ेमे महीपालाः शूरा युद्धाभिनन्दिनः |
३ क
वैशम्पाय़न उवाच:
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि ||
३ ख
वैशम्पाय़न उवाच:
पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः |
४ क
वैशम्पाय़न उवाच:
न च शाम्यन्ति निघ्नन्तो वर्धय़न्तो यमक्षय़म् ||
४ ख
वैशम्पाय़न उवाच:
भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् |
५ क
वैशम्पाय़न उवाच:
मन्ये वहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय़ ||
५ ख
वैशम्पाय़न उवाच:
वहूनि च सहस्राणि प्रय़ुतान्यर्वुदानि च |
६ क
वैशम्पाय़न उवाच:
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ||
६ ख
वैशम्पाय़न उवाच:
देशानां च परीमाणं नगराणां च सञ्जय़ |
७ क
वैशम्पाय़न उवाच:
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ||
७ ख
वैशम्पाय़न उवाच:
दिव्यवुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा |
८ क
वैशम्पाय़न उवाच:
प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ||
८ ख
सञ्जय़ उवाच:
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् |
९ क
सञ्जय़ उवाच:
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ||
९ ख
सञ्जय़ उवाच:
द्विविधानीह भूतानि त्रसानि स्थावराणि च |
१० क
सञ्जय़ उवाच:
त्रसानां त्रिविधा योनिरण्डस्वेदजराय़ुजाः ||
१० ख
सञ्जय़ उवाच:
त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जराय़ुजाः |
११ क
सञ्जय़ उवाच:
जराय़ुजानां प्रवरा मानवाः पशवश्च ये ||
११ ख
सञ्जय़ उवाच:
नानारूपाणि विभ्राणास्तेषां भेदाश्चतुर्दश |
१२ क
सञ्जय़ उवाच:
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ||
१२ ख
सञ्जय़ उवाच:
सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा |
१३ क
सञ्जय़ उवाच:
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ||
१३ ख
सञ्जय़ उवाच:
गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः |
१४ क
सञ्जय़ उवाच:
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ||
१४ ख
सञ्जय़ उवाच:
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश |
१५ क
सञ्जय़ उवाच:
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ||
१५ ख
सञ्जय़ उवाच:
ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम् |
१६ क
सञ्जय़ उवाच:
सर्वेषामेव भूतानामन्योन्येनाभिजीवनम् ||
१६ ख
सञ्जय़ उवाच:
उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातय़ः |
१७ क
सञ्जय़ उवाच:
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातय़ः ||
१७ ख
सञ्जय़ उवाच:
एषां विंशतिरेकोना महाभूतेषु पञ्चसु |
१८ क
सञ्जय़ उवाच:
चतुर्विंशतिरुद्दिष्टा गाय़त्री लोकसंमता ||
१८ ख
सञ्जय़ उवाच:
य एतां वेद गाय़त्रीं पुण्यां सर्वगुणान्विताम् |
१९ क
सञ्जय़ उवाच:
तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति ||
१९ ख
सञ्जय़ उवाच:
भूमौ हि जाय़ते सर्वं भूमौ सर्वं प्रणश्यति |
२० क
सञ्जय़ उवाच:
भूमिः प्रतिष्ठा भूतानां भूमिरेव पराय़णम् ||
२० ख
सञ्जय़ उवाच:
यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् |
२१ क
सञ्जय़ उवाच:
तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ||
२१ ख