सञ्जय़ उवाच:
कृतेऽवहारे सैन्यानां प्रथमे भरतर्षभ |
१ क
सञ्जय़ उवाच:
भीष्मे च युधि संरव्धे हृष्टे दुर्योधने तथा ||
१ ख
सञ्जय़ उवाच:
धर्मराजस्ततस्तूर्णमभिगम्य जनार्दनम् |
२ क
सञ्जय़ उवाच:
भ्रातृभिः सहितः सर्वैः सर्वैश्चैव जनेश्वरैः ||
२ ख
सञ्जय़ उवाच:
शुचा परमय़ा युक्तश्चिन्तय़ानः पराजय़म् |
३ क
सञ्जय़ उवाच:
वार्ष्णेय़मव्रवीद्राजन्दृष्ट्वा भीष्मस्य विक्रमम् ||
३ ख
सञ्जय़ उवाच:
कृष्ण पश्य महेष्वासं भीष्मं भीमपराक्रमम् |
४ क
सञ्जय़ उवाच:
शरैर्दहन्तं सैन्यं मे ग्रीष्मे कक्षमिवानलम् ||
४ ख
सञ्जय़ उवाच:
कथमेनं महात्मानं शक्ष्यामः प्रतिवीक्षितुम् |
५ क
सञ्जय़ उवाच:
लेलिह्यमानं सैन्यं मे हविष्मन्तमिवानलम् ||
५ ख
सञ्जय़ उवाच:
एतं हि पुरुषव्याघ्रं धनुष्मन्तं महावलम् |
६ क
सञ्जय़ उवाच:
दृष्ट्वा विप्रद्रुतं सैन्यं मदीय़ं मार्गणाहतम् ||
६ ख
सञ्जय़ उवाच:
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च संय़ुगे |
७ क
सञ्जय़ उवाच:
वरुणः पाशभृच्चापि कुवेरो वा गदाधरः ||
७ ख
सञ्जय़ उवाच:
न तु भीष्मो महातेजाः शक्यो जेतुं महावलः |
८ क
सञ्जय़ उवाच:
सोऽहमेवं गते मग्नो भीष्मागाधजलेऽप्लवः ||
८ ख
सञ्जय़ उवाच:
आत्मनो वुद्धिदौर्वल्याद्भीष्ममासाद्य केशव |
९ क
सञ्जय़ उवाच:
वनं यास्यामि गोविन्द श्रेय़ो मे तत्र जीवितुम् ||
९ ख
सञ्जय़ उवाच:
न त्विमान्पृथिवीपालान्दातुं भीष्माय़ मृत्यवे |
१० क
सञ्जय़ उवाच:
क्षपय़िष्यति सेनां मे कृष्ण भीष्मो महास्त्रवित् ||
१० ख
सञ्जय़ उवाच:
यथानलं प्रज्वलितं पतङ्गाः समभिद्रुताः |
११ क
सञ्जय़ उवाच:
विनाशाय़ैव गच्छन्ति तथा मे सैनिको जनः ||
११ ख
सञ्जय़ उवाच:
क्षय़ं नीतोऽस्मि वार्ष्णेय़ राज्यहेतोः पराक्रमी |
१२ क
सञ्जय़ उवाच:
भ्रातरश्चैव मे वीराः कर्शिताः शरपीडिताः ||
१२ ख
सञ्जय़ उवाच:
मत्कृते भ्रातृसौहार्दाद्राज्याद्भ्रष्टास्तथा सुखात् |
१३ क
सञ्जय़ उवाच:
जीवितं वहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ||
१३ ख
सञ्जय़ उवाच:
जीवितस्य हि शेषेण तपस्तप्स्यामि दुश्चरम् |
१४ क
सञ्जय़ उवाच:
न घातय़िष्यामि रणे मित्राणीमानि केशव ||
१४ ख
सञ्जय़ उवाच:
रथान्मे वहुसाहस्रान्दिव्यैरस्त्रैर्महावलः |
१५ क
सञ्जय़ उवाच:
घातय़त्यनिशं भीष्मः प्रवराणां प्रहारिणाम् ||
१५ ख
सञ्जय़ उवाच:
किं नु कृत्वा कृतं मे स्याद्व्रूहि माधव माचिरम् |
१६ क
सञ्जय़ उवाच:
मध्यस्थमिव पश्यामि समरे सव्यसाचिनम् ||
१६ ख
सञ्जय़ उवाच:
एको भीमः परं शक्त्या युध्यत्येष महाभुजः |
१७ क
सञ्जय़ उवाच:
केवलं वाहुवीर्येण क्षत्रधर्ममनुस्मरन् ||
१७ ख
सञ्जय़ उवाच:
गदय़ा वीरघातिन्या यथोत्साहं महामनाः |
१८ क
सञ्जय़ उवाच:
करोत्यसुकरं कर्म गजाश्वरथपत्तिषु ||
१८ ख
सञ्जय़ उवाच:
नालमेष क्षय़ं कर्तुं परसैन्यस्य मारिष |
१९ क
सञ्जय़ उवाच:
आर्जवेनैव युद्धेन वीर वर्षशतैरपि ||
१९ ख
सञ्जय़ उवाच:
एकोऽस्त्रवित्सखा तेऽय़ं सोऽप्यस्मान्समुपेक्षते |
२० क
सञ्जय़ उवाच:
निर्दह्यमानान्भीष्मेण द्रोणेन च महात्मना ||
२० ख
सञ्जय़ उवाच:
दिव्यान्यस्त्राणि भीष्मस्य द्रोणस्य च महात्मनः |
२१ क
सञ्जय़ उवाच:
धक्ष्यन्ति क्षत्रिय़ान्सर्वान्प्रय़ुक्तानि पुनः पुनः ||
२१ ख
सञ्जय़ उवाच:
कृष्ण भीष्मः सुसंरव्धः सहितः सर्वपार्थिवैः |
२२ क
सञ्जय़ उवाच:
क्षपय़िष्यति नो नूनं यादृशोऽस्य पराक्रमः ||
२२ ख
सञ्जय़ उवाच:
स त्वं पश्य महेष्वासं योगीष्वर महारथम् |
२३ क
सञ्जय़ उवाच:
यो भीष्मं शमय़ेत्सङ्ख्ये दावाग्निं जलदो यथा ||
२३ ख
सञ्जय़ उवाच:
तव प्रसादाद्गोविन्द पाण्डवा निहतद्विषः |
२४ क
सञ्जय़ उवाच:
स्वराज्यमनुसम्प्राप्ता मोदिष्यन्ति सवान्धवाः ||
२४ ख
सञ्जय़ उवाच:
एवमुक्त्वा ततः पार्थो ध्याय़न्नास्ते महामनाः |
२५ क
सञ्जय़ उवाच:
चिरमन्तर्मना भूत्वा शोकोपहतचेतनः ||
२५ ख
सञ्जय़ उवाच:
शोकार्तं पाण्डवं ज्ञात्वा दुःखेन हतचेतसम् |
२६ क
सञ्जय़ उवाच:
अव्रवीत्तत्र गोविन्दो हर्षय़न्सर्वपाण्डवान् ||
२६ ख
सञ्जय़ उवाच:
मा शुचो भरतश्रेष्ठ न त्वं शोचितुमर्हसि |
२७ क
सञ्जय़ उवाच:
यस्य ते भ्रातरः शूराः सर्वलोकस्य धन्विनः ||
२७ ख
सञ्जय़ उवाच:
अहं च प्रिय़कृद्राजन्सात्यकिश्च महारथः |
२८ क
सञ्जय़ उवाच:
विराटद्रुपदौ वृद्धौ धृष्टद्युम्नश्च पार्षतः ||
२८ ख
सञ्जय़ उवाच:
तथैव सवलाः सर्वे राजानो राजसत्तम |
२९ क
सञ्जय़ उवाच:
त्वत्प्रसादं प्रतीक्षन्ते त्वद्भक्ताश्च विशां पते ||
२९ ख
सञ्जय़ उवाच:
एष ते पार्षतो नित्यं हितकामः प्रिय़े रतः |
३० क
सञ्जय़ उवाच:
सेनापत्यमनुप्राप्तो धृष्टद्युम्नो महावलः |
३० ख
सञ्जय़ उवाच:
शिखण्डी च महावाहो भीष्मस्य निधनं किल ||
३० ग
सञ्जय़ उवाच:
एतच्छ्रुत्वा ततो राजा धृष्टद्युम्नं महारथम् |
३१ क
सञ्जय़ उवाच:
अव्रवीत्समितौ तस्यां वासुदेवस्य शृण्वतः ||
३१ ख
सञ्जय़ उवाच:
धृष्टद्युम्न निवोधेदं यत्त्वा वक्ष्यामि मारिष |
३२ क
सञ्जय़ उवाच:
नातिक्रम्यं भवेत्तच्च वचनं मम भाषितम् ||
३२ ख
सञ्जय़ उवाच:
भवान्सेनापतिर्मह्यं वासुदेवेन संमतः |
३३ क
सञ्जय़ उवाच:
कार्त्तिकेय़ो यथा नित्यं देवानामभवत्पुरा |
३३ ख
सञ्जय़ उवाच:
तथा त्वमपि पाण्डूनां सेनानीः पुरुषर्षभ ||
३३ ग
सञ्जय़ उवाच:
स त्वं पुरुषशार्दूल विक्रम्य जहि कौरवान् |
३४ क
सञ्जय़ उवाच:
अहं च त्वानुय़ास्यामि भीमः कृष्णश्च मारिष ||
३४ ख
सञ्जय़ उवाच:
माद्रीपुत्रौ च सहितौ द्रौपदेय़ाश्च दंशिताः |
३५ क
सञ्जय़ उवाच:
ये चान्ये पृथिवीपालाः प्रधानाः पुरुषर्षभ ||
३५ ख
सञ्जय़ उवाच:
तत उद्धर्षय़न्सर्वान्धृष्टद्युम्नोऽभ्यभाषत |
३६ क
सञ्जय़ उवाच:
अहं द्रोणान्तकः पार्थ विहितः शम्भुना पुरा ||
३६ ख
सञ्जय़ उवाच:
रणे भीष्मं तथा द्रोणं कृपं शल्यं जय़द्रथम् |
३७ क
सञ्जय़ उवाच:
सर्वानद्य रणे दृप्तान्प्रतिय़ोत्स्यामि पार्थिव ||
३७ ख
सञ्जय़ उवाच:
अथोत्क्रुष्टं महेष्वासैः पाण्डवैर्युद्धदुर्मदैः |
३८ क
सञ्जय़ उवाच:
समुद्यते पार्थिवेन्द्रे पार्षते शत्रुसूदने ||
३८ ख
सञ्जय़ उवाच:
तमव्रवीत्ततः पार्थः पार्षतं पृतनापतिम् |
३९ क
सञ्जय़ उवाच:
व्यूहः क्रौञ्चारुणो नाम सर्वशत्रुनिवर्हणः ||
३९ ख
सञ्जय़ उवाच:
यं वृहस्पतिरिन्द्राय़ तदा देवासुरेऽव्रवीत् |
४० क
सञ्जय़ उवाच:
तं यथावत्प्रतिव्यूह परानीकविनाशनम् |
४० ख
सञ्जय़ उवाच:
अदृष्टपूर्वं राजानः पश्यन्तु कुरुभिः सह ||
४० ग
सञ्जय़ उवाच:
तथोक्तः स नृदेवेन विष्णुर्वज्रभृता इव |
४१ क
सञ्जय़ उवाच:
प्रभाते सर्वसैन्यानामग्रे चक्रे धनञ्जय़म् ||
४१ ख
सञ्जय़ उवाच:
आदित्यपथगः केतुस्तस्याद्भुतमनोरमः |
४२ क
सञ्जय़ उवाच:
शासनात्पुरुहूतस्य निर्मितो विश्वकर्मणा ||
४२ ख
सञ्जय़ उवाच:
इन्द्राय़ुधसवर्णाभिः पताकाभिरलङ्कृतः |
४३ क
सञ्जय़ उवाच:
आकाशग इवाकाशे गन्धर्वनगरोपमः |
४३ ख
सञ्जय़ उवाच:
नृत्यमान इवाभाति रथचर्यासु मारिष ||
४३ ग
सञ्जय़ उवाच:
तेन रत्नवता पार्थः स च गाण्डीवधन्वना |
४४ क
सञ्जय़ उवाच:
वभूव परमोपेतः स्वय़म्भूरिव भानुना ||
४४ ख
सञ्जय़ उवाच:
शिरोऽभूद्द्रुपदो राजा महत्या सेनय़ा वृतः |
४५ क
सञ्जय़ उवाच:
कुन्तिभोजश्च चैद्यश्च चक्षुष्यास्तां जनेश्वर ||
४५ ख
सञ्जय़ उवाच:
दाशार्णकाः प्रय़ागाश्च दाशेरकगणैः सह |
४६ क
सञ्जय़ उवाच:
अनूपगाः किराताश्च ग्रीवाय़ां भरतर्षभ ||
४६ ख
सञ्जय़ उवाच:
पटच्चरैश्च हुण्डैश्च राजन्पौरवकैस्तथा |
४७ क
सञ्जय़ उवाच:
निषादैः सहितश्चापि पृष्ठमासीद्युधिष्ठिरः ||
४७ ख
सञ्जय़ उवाच:
पक्षौ तु भीमसेनश्च धृष्टद्युम्नश्च पार्षतः |
४८ क
सञ्जय़ उवाच:
द्रौपदेय़ाभिमन्युश्च सात्यकिश्च महारथः ||
४८ ख