युधिष्ठिर उवाच:
किमिदं परमाश्चर्यं ध्याय़स्यमितविक्रम |
१ क
युधिष्ठिर उवाच:
कच्चिल्लोकत्रय़स्यास्य स्वस्ति लोकपराय़ण ||
१ ख
युधिष्ठिर उवाच:
चतुर्थं ध्यानमार्गं त्वमालम्व्य पुरुषोत्तम |
२ क
युधिष्ठिर उवाच:
अपक्रान्तो यतो देव तेन मे विस्मितं मनः ||
२ ख
युधिष्ठिर उवाच:
निगृहीतो हि वाय़ुस्ते पञ्चकर्मा शरीरगः |
३ क
युधिष्ठिर उवाच:
इन्द्रिय़ाणि च सर्वाणि मनसि स्थापितानि ते ||
३ ख
युधिष्ठिर उवाच:
इन्द्रिय़ाणि मनश्चैव वुद्धौ संवेशितानि ते |
४ क
युधिष्ठिर उवाच:
सर्वश्चैव गणो देव क्षेत्रज्ञे ते निवेशितः ||
४ ख
युधिष्ठिर उवाच:
नेङ्गन्ति तव रोमाणि स्थिरा वुद्धिस्तथा मनः |
५ क
युधिष्ठिर उवाच:
स्थाणुकुड्यशिलाभूतो निरीहश्चासि माधव ||
५ ख
युधिष्ठिर उवाच:
यथा दीपो निवातस्थो निरिङ्गो ज्वलतेऽच्युत |
६ क
युधिष्ठिर उवाच:
तथासि भगवन्देव निश्चलो दृढनिश्चय़ः ||
६ ख
युधिष्ठिर उवाच:
यदि श्रोतुमिहार्हामि न रहस्यं च ते यदि |
७ क
युधिष्ठिर उवाच:
छिन्धि मे संशय़ं देव प्रपन्नाय़ाभिय़ाचते ||
७ ख
युधिष्ठिर उवाच:
त्वं हि कर्ता विकर्ता च त्वं क्षरं चाक्षरं च हि |
८ क
युधिष्ठिर उवाच:
अनादिनिधनश्चाद्यस्त्वमेव पुरुषोत्तम ||
८ ख
युधिष्ठिर उवाच:
त्वत्प्रपन्नाय़ भक्ताय़ शिरसा प्रणताय़ च |
९ क
युधिष्ठिर उवाच:
ध्यानस्यास्य यथातत्त्वं व्रूहि धर्मभृतां वर ||
९ ख
वैशम्पाय़न उवाच:
ततः स्वगोचरे न्यस्य मनो वुद्धीन्द्रिय़ाणि च |
१० क
वैशम्पाय़न उवाच:
स्मितपूर्वमुवाचेदं भगवान्वासवानुजः ||
१० ख
वैशम्पाय़न उवाच:
शरतल्पगतो भीष्मः शाम्यन्निव हुताशनः |
११ क
वैशम्पाय़न उवाच:
मां ध्याति पुरुषव्याघ्रस्ततो मे तद्गतं मनः ||
११ ख
वैशम्पाय़न उवाच:
यस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः |
१२ क
वैशम्पाय़न उवाच:
न सहेद्देवराजोऽपि तमस्मि मनसा गतः ||
१२ ख
वैशम्पाय़न उवाच:
येनाभिद्रुत्य तरसा समस्तं राजमण्डलम् |
१३ क
वैशम्पाय़न उवाच:
ऊढास्तिस्रः पुरा कन्यास्तमस्मि मनसा गतः ||
१३ ख
वैशम्पाय़न उवाच:
त्रय़ोविंशतिरात्रं यो योधय़ामास भार्गवम् |
१४ क
वैशम्पाय़न उवाच:
न च रामेण निस्तीर्णस्तमस्मि मनसा गतः ||
१४ ख
वैशम्पाय़न उवाच:
यं गङ्गा गर्भविधिना धारय़ामास पार्थिवम् |
१५ क
वैशम्पाय़न उवाच:
वसिष्ठशिष्यं तं तात मनसास्मि गतो नृप ||
१५ ख
वैशम्पाय़न उवाच:
दिव्यास्त्राणि महातेजा यो धारय़ति वुद्धिमान् |
१६ क
वैशम्पाय़न उवाच:
साङ्गांश्च चतुरो वेदांस्तमस्मि मनसा गतः ||
१६ ख
वैशम्पाय़न उवाच:
रामस्य दय़ितं शिष्यं जामदग्न्यस्य पाण्डव |
१७ क
वैशम्पाय़न उवाच:
आधारं सर्वविद्यानां तमस्मि मनसा गतः ||
१७ ख
वैशम्पाय़न उवाच:
एकीकृत्येन्द्रिय़ग्रामं मनः संय़म्य मेधय़ा |
१८ क
वैशम्पाय़न उवाच:
शरणं मामुपागच्छत्ततो मे तद्गतं मनः ||
१८ ख
वैशम्पाय़न उवाच:
स हि भूतं च भव्यं च भवच्च पुरुषर्षभ |
१९ क
वैशम्पाय़न उवाच:
वेत्ति धर्मभृतां श्रेष्ठस्ततो मे तद्गतं मनः ||
१९ ख
वैशम्पाय़न उवाच:
तस्मिन्हि पुरुषव्याघ्रे कर्मभिः स्वैर्दिवं गते |
२० क
वैशम्पाय़न उवाच:
भविष्यति मही पार्थ नष्टचन्द्रेव शर्वरी ||
२० ख
वैशम्पाय़न उवाच:
तद्युधिष्ठिर गाङ्गेय़ं भीष्मं भीमपराक्रमम् |
२१ क
वैशम्पाय़न उवाच:
अभिगम्योपसङ्गृह्य पृच्छ यत्ते मनोगतम् ||
२१ ख
वैशम्पाय़न उवाच:
चातुर्वेद्यं चातुर्होत्रं चातुराश्रम्यमेव च |
२२ क
वैशम्पाय़न उवाच:
चातुर्वर्ण्यस्य धर्मं च पृच्छैनं पृथिवीपते ||
२२ ख
वैशम्पाय़न उवाच:
तस्मिन्नस्तमिते भीष्मे कौरवाणां धुरन्धरे |
२३ क
वैशम्पाय़न उवाच:
ज्ञानान्यल्पीभविष्यन्ति तस्मात्त्वां चोदय़ाम्यहम् ||
२३ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा वासुदेवस्य तथ्यं वचनमुत्तमम् |
२४ क
वैशम्पाय़न उवाच:
साश्रुकण्ठः स धर्मज्ञो जनार्दनमुवाच ह ||
२४ ख
वैशम्पाय़न उवाच:
यद्भवानाह भीष्मस्य प्रभावं प्रति माधव |
२५ क
वैशम्पाय़न उवाच:
तथा तन्नात्र सन्देहो विद्यते मम मानद ||
२५ ख
वैशम्पाय़न उवाच:
महाभाग्यं हि भीष्मस्य प्रभावश्च महात्मनः |
२६ क
वैशम्पाय़न उवाच:
श्रुतं मय़ा कथय़तां व्राह्मणानां महात्मनाम् ||
२६ ख
वैशम्पाय़न उवाच:
भवांश्च कर्ता लोकानां यद्व्रवीत्यरिसूदन |
२७ क
वैशम्पाय़न उवाच:
तथा तदनभिध्येय़ं वाक्यं यादवनन्दन ||
२७ ख
वैशम्पाय़न उवाच:
यतस्त्वनुग्रहकृता वुद्धिस्ते मय़ि माधव |
२८ क
वैशम्पाय़न उवाच:
त्वामग्रतः पुरस्कृत्य भीष्मं पश्यामहे वय़म् ||
२८ ख
वैशम्पाय़न उवाच:
आवृत्ते भगवत्यर्के स हि लोकान्गमिष्यति |
२९ क
वैशम्पाय़न उवाच:
त्वद्दर्शनं महावाहो तस्मादर्हति कौरवः ||
२९ ख
वैशम्पाय़न उवाच:
तव ह्याद्यस्य देवस्य क्षरस्यैवाक्षरस्य च |
३० क
वैशम्पाय़न उवाच:
दर्शनं तस्य लाभः स्यात्त्वं हि व्रह्ममय़ो निधिः ||
३० ख
वैशम्पाय़न उवाच:
श्रुत्वैतद्धर्मराजस्य वचनं मधुसूदनः |
३१ क
वैशम्पाय़न उवाच:
पार्श्वस्थं सात्यकिं प्राह रथो मे युज्यतामिति ||
३१ ख
वैशम्पाय़न उवाच:
सात्यकिस्तूपनिष्क्रम्य केशवस्य समीपतः |
३२ क
वैशम्पाय़न उवाच:
दारुकं प्राह कृष्णस्य युज्यतां रथ इत्युत ||
३२ ख
वैशम्पाय़न उवाच:
स सात्यकेराशु वचो निशम्य; रथोत्तमं काञ्चनभूषिताङ्गम् |
३३ क
वैशम्पाय़न उवाच:
मसारगल्वर्कमय़ैर्विभङ्गै; र्विभूषितं हेमपिनद्धचक्रम् ||
३३ ख
वैशम्पाय़न उवाच:
दिवाकरांशुप्रभमाशुगामिनं; विचित्रनानामणिरत्नभूषितम् |
३४ क
वैशम्पाय़न उवाच:
नवोदितं सूर्यमिव प्रतापिनं; विचित्रतार्क्ष्यध्वजिनं पताकिनम् ||
३४ ख
वैशम्पाय़न उवाच:
सुग्रीवसैन्यप्रमुखैर्वराश्वै; र्मनोजवैः काञ्चनभूषिताङ्गैः |
३५ क
वैशम्पाय़न उवाच:
सुय़ुक्तमावेदय़दच्युताय़; कृताञ्जलिर्दारुको राजसिंह ||
३५ ख