chevron_left आश्वमेधिक पर्व अध्याय ४६
व्रह्मो उवाच:
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि |
१ क
व्रह्मो उवाच:
अधीतवान्यथाशक्ति तथैव व्रह्मचर्यवान् ||
१ ख
व्रह्मो उवाच:
स्वधर्मनिरतो विद्वान्सर्वेन्द्रिय़यतो मुनिः |
२ क
व्रह्मो उवाच:
गुरोः प्रिय़हिते युक्तः सत्यधर्मपरः शुचिः ||
२ ख
व्रह्मो उवाच:
गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सय़न् |
३ क
व्रह्मो उवाच:
हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ||
३ ख
व्रह्मो उवाच:
द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः |
४ क
व्रह्मो उवाच:
धारय़ीत सदा दण्डं वैल्वं पालाशमेव वा ||
४ ख
व्रह्मो उवाच:
क्षौमं कार्पासिकं वापि मृगाजिनमथापि वा |
५ क
व्रह्मो उवाच:
सर्वं काषाय़रक्तं स्याद्वासो वापि द्विजस्य ह ||
५ ख
व्रह्मो उवाच:
मेखला च भवेन्मौञ्जी जटी नित्योदकस्तथा |
६ क
व्रह्मो उवाच:
यज्ञोपवीती स्वाध्याय़ी अलुप्तनिय़तव्रतः ||
६ ख
व्रह्मो उवाच:
पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् |
७ क
व्रह्मो उवाच:
भावेन निय़तः कुर्वन्व्रह्मचारी प्रशस्यते ||
७ ख
व्रह्मो उवाच:
एवं युक्तो जय़ेत्स्वर्गमूर्ध्वरेताः समाहितः |
८ क
व्रह्मो उवाच:
न संसरति जातीषु परमं स्थानमाश्रितः ||
८ ख
व्रह्मो उवाच:
संस्कृतः सर्वसंस्कारैस्तथैव व्रह्मचर्यवान् |
९ क
व्रह्मो उवाच:
ग्रामान्निष्क्रम्य चारण्यं मुनिः प्रव्रजितो वसेत् ||
९ ख
व्रह्मो उवाच:
चर्मवल्कलसंवीतः स्वय़ं प्रातरुपस्पृशेत् |
१० क
व्रह्मो उवाच:
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ||
१० ख
व्रह्मो उवाच:
अर्चय़न्नतिथीन्काले दद्याच्चापि प्रतिश्रय़म् |
११ क
व्रह्मो उवाच:
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तय़न् ||
११ ख
व्रह्मो उवाच:
प्रवृत्तमुदकं वाय़ुं सर्वं वानेय़मा तृणात् |
१२ क
व्रह्मो उवाच:
प्राश्नीय़ादानुपूर्व्येण यथादीक्षमतन्द्रितः ||
१२ ख
व्रह्मो उवाच:
आमूलफलभिक्षाभिरर्चेदतिथिमागतम् |
१३ क
व्रह्मो उवाच:
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ||
१३ ख
व्रह्मो उवाच:
देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः |
१४ क
व्रह्मो उवाच:
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रय़ः ||
१४ ख
व्रह्मो उवाच:
दान्तो मैत्रः क्षमाय़ुक्तः केशश्मश्रु च धारय़न् |
१५ क
व्रह्मो उवाच:
जुह्वन्स्वाध्याय़शीलश्च सत्यधर्मपराय़णः ||
१५ ख
व्रह्मो उवाच:
त्यक्तदेहः सदा दक्षो वननित्यः समाहितः |
१६ क
व्रह्मो उवाच:
एवं युक्तो जय़ेत्स्वर्गं वानप्रस्थो जितेन्द्रिय़ः ||
१६ ख
व्रह्मो उवाच:
गृहस्थो व्रह्मचारी च वानप्रस्थोऽथ वा पुनः |
१७ क
व्रह्मो उवाच:
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रय़ेत् ||
१७ ख
व्रह्मो उवाच:
अभय़ं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् |
१८ क
व्रह्मो उवाच:
सर्वभूतहितो मैत्रः सर्वेन्द्रिय़यतो मुनिः ||
१८ ख
व्रह्मो उवाच:
अय़ाचितमसङ्कॢप्तमुपपन्नं यदृच्छय़ा |
१९ क
व्रह्मो उवाच:
जोषय़ेत सदा भोज्यं ग्रासमागतमस्पृहः ||
१९ ख
व्रह्मो उवाच:
यात्रामात्रं च भुञ्जीत केवलं प्राणय़ात्रिकम् |
२० क
व्रह्मो उवाच:
धर्मलव्धं तथाश्नीय़ान्न काममनुवर्तय़ेत् ||
२० ख
व्रह्मो उवाच:
ग्रासादाच्छादनाच्चान्यन्न गृह्णीय़ात्कथञ्चन |
२१ क
व्रह्मो उवाच:
यावदाहारय़ेत्तावत्प्रतिगृह्णीत नान्यथा ||
२१ ख
व्रह्मो उवाच:
परेभ्यो न प्रतिग्राह्यं न च देय़ं कदाचन |
२२ क
व्रह्मो उवाच:
दैन्यभावाच्च भूतानां संविभज्य सदा वुधः ||
२२ ख
व्रह्मो उवाच:
नाददीत परस्वानि न गृह्णीय़ादय़ाचितम् |
२३ क
व्रह्मो उवाच:
न किञ्चिद्विषय़ं भुक्त्वा स्पृहय़ेत्तस्य वै पुनः ||
२३ ख
व्रह्मो उवाच:
मृदमापस्तथाश्मानं पत्रपुष्पफलानि च |
२४ क
व्रह्मो उवाच:
असंवृतानि गृह्णीय़ात्प्रवृत्तानीह कार्यवान् ||
२४ ख
व्रह्मो उवाच:
न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामय़ेत् |
२५ क
व्रह्मो उवाच:
न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः |
२५ ख
व्रह्मो उवाच:
श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जय़ेत् ||
२५ ग
व्रह्मो उवाच:
मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् |
२६ क
व्रह्मो उवाच:
कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ||
२६ ख
व्रह्मो उवाच:
वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् |
२७ क
व्रह्मो उवाच:
लाभे न च प्रहृष्येत नालाभे विमना भवेत् ||
२७ ख
व्रह्मो उवाच:
मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः |
२८ क
व्रह्मो उवाच:
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः |
२८ ख
व्रह्मो उवाच:
अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ||
२८ ग
व्रह्मो उवाच:
शुक्तान्यम्लानि तिक्तानि कषाय़कटुकानि च |
२९ क
व्रह्मो उवाच:
नास्वादय़ीत भुञ्जानो रसांश्च मधुरांस्तथा |
२९ ख
व्रह्मो उवाच:
यात्रामात्रं च भुञ्जीत केवलं प्राणय़ात्रिकम् ||
२९ ग
व्रह्मो उवाच:
असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् |
३० क
व्रह्मो उवाच:
न चान्यमनुभिक्षेत भिक्षमाणः कथञ्चन ||
३० ख
व्रह्मो उवाच:
न संनिकाशय़ेद्धर्मं विविक्ते विरजाश्चरेत् |
३१ क
व्रह्मो उवाच:
शून्यागारमरण्यं वा वृक्षमूलं नदीं तथा |
३१ ख
व्रह्मो उवाच:
प्रतिश्रय़ार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ||
३१ ग
व्रह्मो उवाच:
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् |
३२ क
व्रह्मो उवाच:
अध्वा सूर्येण निर्दिष्टः कीटवच्च चरेन्महीम् ||
३२ ख
व्रह्मो उवाच:
दय़ार्थं चैव भूतानां समीक्ष्य पृथिवीं चरेत् |
३३ क
व्रह्मो उवाच:
सञ्चय़ांश्च न कुर्वीत स्नेहवासं च वर्जय़ेत् ||
३३ ख
व्रह्मो उवाच:
पूतेन चाम्भसा नित्यं कार्यं कुर्वीत मोक्षवित् |
३४ क
व्रह्मो उवाच:
उपस्पृशेदुद्धृताभिरद्भिश्च पुरुषः सदा ||
३४ ख
व्रह्मो उवाच:
अहिंसा व्रह्मचर्यं च सत्यमार्जवमेव च |
३५ क
व्रह्मो उवाच:
अक्रोधश्चानसूय़ा च दमो नित्यमपैशुनम् ||
३५ ख
व्रह्मो उवाच:
अष्टास्वेतेषु युक्तः स्याद्व्रतेषु निय़तेन्द्रिय़ः |
३६ क
व्रह्मो उवाच:
अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ||
३६ ख
व्रह्मो उवाच:
आशीर्युक्तानि कर्माणि हिंसाय़ुक्तानि यानि च |
३७ क
व्रह्मो उवाच:
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारय़ेत् ||
३७ ख
व्रह्मो उवाच:
सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् |
३८ क
व्रह्मो उवाच:
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ||
३८ ख
व्रह्मो उवाच:
परं नोद्वेजय़ेत्कञ्चिन्न च कस्यचिदुद्विजेत् |
३९ क
व्रह्मो उवाच:
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ||
३९ ख
व्रह्मो उवाच:
अनागतं च न ध्याय़ेन्नातीतमनुचिन्तय़ेत् |
४० क
व्रह्मो उवाच:
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ||
४० ख
व्रह्मो उवाच:
न चक्षुषा न मनसा न वाचा दूषय़ेत्क्वचित् |
४१ क
व्रह्मो उवाच:
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ||
४१ ख
व्रह्मो उवाच:
इन्द्रिय़ाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः |
४२ क
व्रह्मो उवाच:
क्षीणेन्द्रिय़मनोवुद्धिर्निरीक्षेत निरिन्द्रिय़ः ||
४२ ख
व्रह्मो उवाच:
निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च |
४३ क
व्रह्मो उवाच:
निर्ममो निरहङ्कारो निर्योगक्षेम एव च ||
४३ ख
व्रह्मो उवाच:
निराशीः सर्वभूतेषु निरासङ्गो निराश्रय़ः |
४४ क
व्रह्मो उवाच:
सर्वज्ञः सर्वतो मुक्तो मुच्यते नात्र संशय़ः ||
४४ ख
व्रह्मो उवाच:
अपाणिपादपृष्ठं तमशिरस्कमनूदरम् |
४५ क
व्रह्मो उवाच:
प्रहीणगुणकर्माणं केवलं विमलं स्थिरम् ||
४५ ख
व्रह्मो उवाच:
अगन्धरसमस्पर्शमरूपाशव्दमेव च |
४६ क
व्रह्मो उवाच:
अत्वगस्थ्यथ वामज्जममांसमपि चैव ह ||
४६ ख
व्रह्मो उवाच:
निश्चिन्तमव्ययं नित्यं हृदिस्थमपि नित्यदा |
४७ क
व्रह्मो उवाच:
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ||
४७ ख
व्रह्मो उवाच:
न तत्र क्रमते वुद्धिर्नेन्द्रिय़ाणि न देवताः |
४८ क
व्रह्मो उवाच:
वेदा यज्ञाश्च लोकाश्च न तपो न पराक्रमः |
४८ ख