chevron_left आश्रमवासिक पर्व अध्याय ४६
युधिष्ठिर उवाच:
तथा महात्मनस्तस्य तपस्युग्रे च वर्ततः |
१ क
युधिष्ठिर उवाच:
अनाथस्येव निधनं तिष्ठत्स्वस्मासु वन्धुषु ||
१ ख
युधिष्ठिर उवाच:
दुर्विज्ञेय़ा हि गतय़ः पुरुषाणां मता मम |
२ क
युधिष्ठिर उवाच:
यत्र वैचित्रवीर्योऽसौ दग्ध एवं दवाग्निना ||
२ ख
युधिष्ठिर उवाच:
यस्य पुत्रशतं श्रीमदभवद्वाहुशालिनः |
३ क
युधिष्ठिर उवाच:
नागाय़ुतवलो राजा स दग्धो हि दवाग्निना ||
३ ख
युधिष्ठिर उवाच:
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रिय़ः |
४ क
युधिष्ठिर उवाच:
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ||
४ ख
युधिष्ठिर उवाच:
सूतमागधसङ्घैश्च शय़ानो यः प्रवोध्यते |
५ क
युधिष्ठिर उवाच:
धरण्यां स नृपः शेते पापस्य मम कर्मभिः ||
५ ख
युधिष्ठिर उवाच:
न तु शोचामि गान्धारीं हतपुत्रां यशस्विनीम् |
६ क
युधिष्ठिर उवाच:
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ||
६ ख
युधिष्ठिर उवाच:
पृथामेव तु शोचामि या पुत्रैश्वर्यमृद्धिमत् |
७ क
युधिष्ठिर उवाच:
उत्सृज्य सुमहद्दीप्तं वनवासमरोचय़त् ||
७ ख
युधिष्ठिर उवाच:
धिग्राज्यमिदमस्माकं धिग्वलं धिक्पराक्रमम् |
८ क
युधिष्ठिर उवाच:
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वय़म् ||
८ ख
युधिष्ठिर उवाच:
सुसूक्ष्मा किल कालस्य गतिर्द्विजवरोत्तम |
९ क
युधिष्ठिर उवाच:
यत्समुत्सृज्य राज्यं सा वनवासमरोचय़त् ||
९ ख
युधिष्ठिर उवाच:
युधिष्ठिरस्य जननी भीमस्य विजय़स्य च |
१० क
युधिष्ठिर उवाच:
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तय़न् ||
१० ख
युधिष्ठिर उवाच:
वृथा सन्तोषितो वह्निः खाण्डवे सव्यसाचिना |
११ क
युधिष्ठिर उवाच:
उपकारमजानन्स कृतघ्न इति मे मतिः ||
११ ख
युधिष्ठिर उवाच:
यत्रादहत्स भगवान्मातरं सव्यसाचिनः |
१२ क
युधिष्ठिर उवाच:
कृत्वा यो व्राह्मणच्छद्म भिक्षार्थी समुपागतः |
१२ ख
युधिष्ठिर उवाच:
धिगग्निं धिक्च पार्थस्य विश्रुतां सत्यसन्धताम् ||
१२ ग
युधिष्ठिर उवाच:
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे |
१३ क
युधिष्ठिर उवाच:
वृथाग्निना समाय़ोगो यदभूत्पृथिवीपतेः ||
१३ ख
युधिष्ठिर उवाच:
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह |
१४ क
युधिष्ठिर उवाच:
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ||
१४ ख
युधिष्ठिर उवाच:
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने |
१५ क
युधिष्ठिर उवाच:
वृथाग्निना समाय़ुक्तो निष्ठां प्राप्तः पिता मम ||
१५ ख
युधिष्ठिर उवाच:
मन्ये पृथा वेपमाना कृशा धमनिसन्तता |
१६ क
युधिष्ठिर उवाच:
हा तात धर्मराजेति समाक्रन्दन्महाभय़े ||
१६ ख
युधिष्ठिर उवाच:
भीम पर्याप्नुहि भय़ादिति चैवाभिवाशती |
१७ क
युधिष्ठिर उवाच:
समन्ततः परिक्षिप्ता माता मेऽभूद्दवाग्निना ||
१७ ख
युधिष्ठिर उवाच:
सहदेवः प्रिय़स्तस्याः पुत्रेभ्योऽधिक एव तु |
१८ क
युधिष्ठिर उवाच:
न चैनां मोक्षय़ामास वीरो माद्रवतीसुतः ||
१८ ख
युधिष्ठिर उवाच:
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् |
१९ क
युधिष्ठिर उवाच:
पाण्डवाः पञ्च दुःखार्ता भूतानीव युगक्षय़े ||
१९ ख
युधिष्ठिर उवाच:
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः |
२० क
युधिष्ठिर उवाच:
प्रासादाभोगसंरुद्धो अन्वरौत्सीत्स रोदसी ||
२० ख