धौम्य उवाच:
दक्षिणस्यां तु पुण्यानि शृणु तीर्थानि भारत |
१ क
धौम्य उवाच:
विस्तरेण यथावुद्धि कीर्त्यमानानि भारत ||
१ ख
धौम्य उवाच:
यस्यामाख्याय़ते पुण्या दिशि गोदावरी नदी |
२ क
धौम्य उवाच:
वह्वारामा वहुजला तापसाचरिता शुभा ||
२ ख
धौम्य उवाच:
वेण्णा भीमरथी चोभे नद्यौ पापभय़ापहे |
३ क
धौम्य उवाच:
मृगद्विजसमाकीर्णे तापसालय़भूषिते ||
३ ख
धौम्य उवाच:
राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ |
४ क
धौम्य उवाच:
रम्यतीर्था वहुजला पय़ोष्णी द्विजसेविता ||
४ ख
धौम्य उवाच:
अपि चात्र महाय़ोगी मार्कण्डेय़ो महातपाः |
५ क
धौम्य उवाच:
अनुवंष्यां जगौ गाथां नृगस्य धरणीपतेः ||
५ ख
धौम्य उवाच:
नृगस्य यजमानस्य प्रत्यक्षमिति नः श्रुतम् |
६ क
धौम्य उवाच:
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातय़ः ||
६ ख
धौम्य उवाच:
माठरस्य वनं पुण्यं वहुमूलफलं शिवम् |
७ क
धौम्य उवाच:
यूपश्च भरतश्रेष्ठ वरुणस्रोतसे गिरौ ||
७ ख
धौम्य उवाच:
प्रवेण्युत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा |
८ क
धौम्य उवाच:
तापसानामरण्यानि कीर्तितानि यथाश्रुति ||
८ ख
धौम्य उवाच:
वेदी शूर्पारके तात जमदग्नेर्महात्मनः |
९ क
धौम्य उवाच:
रम्या पाषाणतीर्था च पुरश्चन्द्रा च भारत ||
९ ख
धौम्य उवाच:
अशोकतीर्थं मर्त्येषु कौन्तेय़ वहुलाश्रमम् |
१० क
धौम्य उवाच:
अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर ||
१० ख
धौम्य उवाच:
कुमार्यः कथिताः पुण्याः पाण्ड्येष्वेव नरर्षभ |
११ क
धौम्य उवाच:
ताम्रपर्णीं तु कौन्तेय़ कीर्तय़िष्यामि तां शृणु ||
११ ख
धौम्य उवाच:
यत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे |
१२ क
धौम्य उवाच:
गोकर्णमिति विख्यातं त्रिषु लोकेषु भारत ||
१२ ख
धौम्य उवाच:
शीततोय़ो वहुजलः पुण्यस्तात शिवश्च सः |
१३ क
धौम्य उवाच:
ह्रदः परमदुष्प्रापो मानुषैरकृतात्मभिः ||
१३ ख
धौम्य उवाच:
तत्रैव तृणसोमाग्नेः सम्पन्नफलमूलवान् |
१४ क
धौम्य उवाच:
आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसभे गिरौ ||
१४ ख
धौम्य उवाच:
वैडूर्यपर्वतस्तत्र श्रीमान्मणिमय़ः शिवः |
१५ क
धौम्य उवाच:
अगस्त्यस्याश्रमश्चैव वहुमूलफलोदकः ||
१५ ख
धौम्य उवाच:
सुराष्ट्रेष्वपि वक्ष्यामि पुण्यान्याय़तनानि च |
१६ क
धौम्य उवाच:
आश्रमान्सरितः शैलान्सरांसि च नराधिप ||
१६ ख
धौम्य उवाच:
चमसोन्मज्जनं विप्रास्तत्रापि कथय़न्त्युत |
१७ क
धौम्य उवाच:
प्रभासं चोदधौ तीर्थं त्रिदशानां युधिष्ठिर ||
१७ ख
धौम्य उवाच:
तत्र पिण्डारकं नाम तापसाचरितं शुभम् |
१८ क
धौम्य उवाच:
उज्जय़न्तश्च शिखरी क्षिप्रं सिद्धिकरो महान् ||
१८ ख
धौम्य उवाच:
तत्र देवर्षिवर्येण नारदेनानुकीर्तितः |
१९ क
धौम्य उवाच:
पुराणः श्रूय़ते श्लोकस्तं निवोध युधिष्ठिर ||
१९ ख
धौम्य उवाच:
पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते |
२० क
धौम्य उवाच:
उज्जय़न्ते स्म तप्ताङ्गो नाकपृष्ठे महीय़ते ||
२० ख
धौम्य उवाच:
पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः |
२१ क
धौम्य उवाच:
साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः ||
२१ ख
धौम्य उवाच:
ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः |
२२ क
धौम्य उवाच:
ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ||
२२ ख
धौम्य उवाच:
पवित्राणां हि गोविन्दः पवित्रं परमुच्यते |
२३ क
धौम्य उवाच:
पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् ||
२३ ख
धौम्य उवाच:
त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः |
२४ क
धौम्य उवाच:
आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ||
२४ ख