वैशम्पाय़न उवाच:
एवं सनत्सुजातेन विदुरेण च धीमता |
१ क
वैशम्पाय़न उवाच:
सार्धं कथय़तो राज्ञः सा व्यतीय़ाय़ शर्वरी ||
१ ख
वैशम्पाय़न उवाच:
तस्यां रजन्यां व्युष्टाय़ां राजानः सर्व एव ते |
२ क
वैशम्पाय़न उवाच:
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षय़ा ||
२ ख
वैशम्पाय़न उवाच:
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम् |
३ क
वैशम्पाय़न उवाच:
धृतराष्ट्रमुखाः सर्वे यय़ू राजसभां शुभाम् ||
३ ख
वैशम्पाय़न उवाच:
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् |
४ क
वैशम्पाय़न उवाच:
चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ||
४ ख
वैशम्पाय़न उवाच:
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि |
५ क
वैशम्पाय़न उवाच:
अश्मसारमय़ैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ||
५ ख
वैशम्पाय़न उवाच:
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जय़द्रथः |
६ क
वैशम्पाय़न उवाच:
अश्वत्थामा विकर्णश्च सोमदत्तश्च वाह्लिकः ||
६ ख
वैशम्पाय़न उवाच:
विदुरश्च महाप्राज्ञो युय़ुत्सुश्च महारथः |
७ क
वैशम्पाय़न उवाच:
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ |
७ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ||
७ ग
वैशम्पाय़न उवाच:
दुःशासनश्चित्रसेनः शकुनिश्चापि सौवलः |
८ क
वैशम्पाय़न उवाच:
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ||
८ ख
वैशम्पाय़न उवाच:
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् |
९ क
वैशम्पाय़न उवाच:
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ||
९ ख
वैशम्पाय़न उवाच:
आविशद्भिस्तदा राजञ्शूरैः परिघवाहुभिः |
१० क
वैशम्पाय़न उवाच:
शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ||
१० ख
वैशम्पाय़न उवाच:
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः |
११ क
वैशम्पाय़न उवाच:
आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ||
११ ख
वैशम्पाय़न उवाच:
आसनस्थेषु सर्वेषु तेषु राजसु भारत |
१२ क
वैशम्पाय़न उवाच:
द्वाःस्थो निवेदय़ामास सूतपुत्रमुपस्थितम् ||
१२ ख
वैशम्पाय़न उवाच:
अय़ं स रथ आय़ाति योऽय़ासीत्पाण्डवान्प्रति |
१३ क
वैशम्पाय़न उवाच:
दूतो नस्तूर्णमाय़ातः सैन्धवैः साधुवाहिभिः ||
१३ ख
वैशम्पाय़न उवाच:
उपय़ाय़ तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली |
१४ क
वैशम्पाय़न उवाच:
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ||
१४ ख
सञ्जय़ उवाच:
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः |
१५ क
सञ्जय़ उवाच:
यथावय़ः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ||
१५ ख
सञ्जय़ उवाच:
अभिवादय़न्ति वृद्धांश्च वय़स्यांश्च वय़स्यवत् |
१६ क
सञ्जय़ उवाच:
यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावय़ः ||
१६ ख
सञ्जय़ उवाच:
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः |
१७ क
सञ्जय़ उवाच:
अव्रुवं पाण्डवान्गत्वा तन्निवोधत पार्थिवाः ||
१७ ख